SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/३/४५ पश्चाद्भागानि - दिवसस्य पश्चात्तनो भागश्चन्द्रयोगस्यादिमधिकृत्य विद्यते येषां तानि पश्चाद्भागानि समक्षेत्राणि त्रिंशन्मुहूर्त्तानि प्रज्ञप्तानि, तथा सन्ति तानि नक्षत्राणि यानि 'नक्तंभागानि' नक्तं- रात्रौ चन्द्रयोगस्यादिमधिकृत्य भाग:-अवकाशो येषां तानि तथा । ११२ 'अपार्द्धक्षेत्राणी 'ति अपगतमर्द्धं यस्य तदपार्द्धं, अर्द्धमात्रमित्यर्थः, अपार्द्धमर्द्धमात्रं क्षेत्रमहोरात्रप्रमितं येषां चन्द्रयोगमधिकृत्य तानि अपार्द्धक्षेत्राणि, अत एव पञ्चदशमुहूर्त्तानि, पञ्चदश चन्द्रयोगमधिकृत्य मुहूर्त्ता विद्यन्ते येषां तानि तथा प्रज्ञप्तानि, तथा सन्ति तानि नक्षत्राणि यानि नक्षत्राणि । 'उभयभागानि' उभयं - दिवसरात्री तस्य दिवसस्य रात्रेश्चेत्यर्थ, चन्द्रयोगस्यादिमधिकृत्य भागो येषां तानि तथा, तथाहि - द्व्यर्द्धक्षेत्राणि, द्वितीयमर्द्धयस्य तद् द्व्यर्धं सार्द्धमित्यर्थः, द्वयर्द्ध- सार्द्धमहोरात्रप्रमितं क्षेत्रं येषां तानि तथा, अत एव पञ्चचत्वारिंशन्मुहूर्त्तानि प्रज्ञप्तानि, एवं भगवता सामान्येनोक्ते विशेषावबोधनार्थं भगवान् गौतमः पृच्छति - 'ता एएसि ण' मित्यादि सुगमं ; भगवान् प्रतिवचनमाह - 'ता एएसिणं', एतेषामष्टाविंशतिनक्षत्राणां मध्ये यानि नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिंशन्मुहूर्तानि प्रज्ञप्तानि तानि षट्, तद्यथा - 'पुव्वपुट्ठवया' इत्यादि, एतच्चानन्तरे एव प्राभृतप्राभृते योगस्यादौ चिन्त्यमाने भावयिष्यते, तथा तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि पश्चाद्भागानि समक्षेत्राणि त्रिंशन्मुहूर्त्तानि प्रज्ञप्तानि तानि दश, तद्यथा - 'अभिई' इत्यादि, तथा तत्र तेषां अष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि नक्तंभागानि अपार्द्धक्षेत्राणि पञ्चदशमुहूर्त्तानि प्रज्ञप्तानि तानि षट्, तद्यथा - 'सयभिसया' इत्यादि, तथा तत्र - तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राण्युभयभागानि तानि द्व्यर्द्धक्षेत्राणि पञ्चत्वारिंशन्मुहूर्त्तानि तानि षट्, तद्यथा - 'उत्तरापुट्ठवया' इत्यादि, सर्वत्रापि च भावना अग्रेऽनन्तरमेव भावयिष्यते ॥ प्राभृतं - १० प्राभृतप्राभृतं - ३ समाप्तम् -: प्राभृतप्राभृतं -४ : वृ. तदेवमुक्तं तृतीयं प्राभृतप्राभृतं सम्प्रति चतुर्थमारभ्यते तस्य चायमर्थाधिकारो ‘योगस्यादिर्वक्तव्य' इति, किञ्च - पूर्वमनन्तरप्राभृतप्राभृते नक्षत्राणां पूर्वभागगताद्युक्तं, तच्च योगस्यादिपरिज्ञानमन्तरेण नावगन्तुं शक्यते ततस्तद्विषयं प्रश्नसूत्रमाह मू. (४६) ता कहं ते जोगस्स आदी आहिताति वदेज्जा ?, ता अभियीसवणा खलु दुवे नक्खत्ता पच्छाभागा समखित्ता सातिरेगऊतालीसतिमुहुत्ता तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएंति, ततो पच्छा अवरं सातिरेयं दिवसं, एवं खलु अभिईसवणा दुवे नक्खत्ता एगराई एगं च सातिरेगं दिवसं चंदेण सद्धिं जोगं जोएंति, जोयं जोएत्ता जोयं अणुपरियद्वंति जोयं अणुपरियट्टित्ता सायं चंदं धनिट्ठाणं समप्पंति, ता धनिट्ठा खलु नक्खत्ते पच्छंभागे समक्खेत्ते तीसतिमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगं जएति, २ त्ता चंदेणं सद्धिं जोगं जोएत्ता ततो पच्छाराइं अवरं च दिवसं । एवं खलु धनिट्टानक्खत्ते एगं च राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति जोएत्ता जोयं अणुपरियट्टिति जोयं अणुपरियट्टित्ता सागं चंदं सतभिसयाणं समप्पेति ता समभिसया खलु For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy