SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२/४४ नक्खत्ताजे णं वीसं अहोरत्ते तिन्निय मुहुत्ते सूरेण सद्धिं जोयंजोएंति तेणंछ, तं० उत्तराभद्दवता रोहिणी पुनव्वसू उत्तरफग्गुणी विसाहा उत्तरासाढा। वृ. ‘ता एएसिण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतेनक्षत्राणां मध्येऽस्ति तनक्षत्रं यच्चतुरोऽहोरात्रान् षट् च मुहूर्तान् यावत् सूर्येण सांर्द्ध योगमुपैति, तथा अस्तीति सन्ति तानि यानि षट् अहोरात्रान् एकविंशतिं च मुहूर्तान् सूर्येण सार्द्ध योगंयुञ्जन्ति, तथा सन्तितानिनक्षत्राणियानित्रयोदशअहोरात्रान्द्वादश मुहूर्तान्यावत्सूर्येण सहयोगमुपयान्ति, तथा सन्तितानि नक्षत्राणियानि विंशतिमहोरात्रान् त्रीन् मुहूर्तान्यावत्सूर्येण समंयोगंयुञ्जन्ति, एवं भगवता सामान्येनोक्ते विशेषावगमनिमित्तं भूयोऽपि भगवान् गौतमः पृच्छति_ 'ता एएसि णमित्यादि, सुगम, भगवान् निर्वचनमाह-'ता एएसि न'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेनक्षत्राणांमध्ये यन्नक्षत्रं चतुरोऽहोरात्रान् षट्च मुहूर्तान् सूर्येण सार्द्ध योगंयुनक्ति तदेकमभिजिनक्षत्रमवसेयं, तथाहि-सूर्ययोगविषयंपूर्वाचार्यप्रदर्शितमिदंप्रकरणं॥१॥ “जंरिक्खं जावइए वच्चइ चंदेण भाग सत्तट्ठी। तंपणभागे राइंदियस्स सूरेण तावइए॥" । अस्या अक्षरगमनिका-यत् ऋक्षं-नक्षत्रंयावतो रात्रिन्दिवस्य–अहोरात्रस्य सम्बन्धिनः सप्तषष्टिभागान् चन्द्रेण सह योगं व्रजति तनक्षत्रं रात्रिन्दिवस्य पञ्चभागान् तावतः सूर्येण समं व्रजति, तत्राभिजिदेकविंशतिंसप्तषष्टिभागान्चन्द्रेण समंवर्तते, ततएतावतः पञ्चभागानहोरात्रस्य सूर्येण समंवर्तमानमवसेयं, एकविंशतिश्च पञ्चभिर्भागे हृते लब्धाश्चत्वारोऽहोरात्राः एकः पञ्चमो भागोऽवतिष्ठते, स मुहूर्तानयनाय त्रिंशता गुण्यते, जाता त्रिंशत्तस्याः पञ्चभिर्भागे हृते लब्धाः षण्मुहूर्ता इति, उक्तंच॥१॥ “अभिई छच्च मुहुत्ते चत्तारिय केवले अहोरत्ते। सूरण समं वच्चइ इत्तो सेसाण वुच्छामि।।" तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि षट् अहोरात्रानेकविंशतिंच मुहूर्तान्यावत् सूर्येणसमं योगमुपयन्तितानिषट्, तद्यथा-'सयभिसया' इत्यादि, तथाहि-एतानि नक्षत्राणि प्रत्येकं चन्द्रेण समं सार्द्धान् त्रयस्त्रिंशत्ङ्ख्याकान् सप्तषष्टिभागानहोरात्रस्य व्रजन्ति अपार्द्धक्षेत्रत्वादेतेषां, तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण समंव्रजन्तीति प्रत्येयं,प्रागुक्तकरणप्रामाण्यात्, त्रयस्त्रिंशतश्चपञ्चभिर्भागेहते लब्धाः षटअहोरात्राः, पश्चादवतिष्ठन्तेसा स्त्रयः पञ्चभागाः, ते सवर्णनायां जाताः सप्त, मुहूर्तानयनाय त्रिंशता गुण्यन्ते, जाते द्वे शते दशोत्तरे, एते च मुहूर्तार्द्धगते, ततः परिपूर्णमुहूर्तानयनाय दशभिर्भागो ह्रियते, लब्धा एकविंशतिर्मुहूत्ताः, उक्तं च॥१॥ “सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठाय। वच्चंति मुहुत्ते इक्कवीस छच्चेवऽहोरत्ते ।।" तथा तत्र-तेषामष्टाविंशते त्रत्राणांमध्ये यानि नक्षत्राणित्रयोदश अहोरात्रान् द्वादश च मुहूर्तान् यावत् सूर्येण समंयोगं युञ्जन्तितानिपञ्चदश तद्यथा-'सवणो'इत्यादि, तथाहि-अमूनि परिपूर्णान् सप्तषष्टिभागान् चन्द्रेण समंव्रजन्ति, ततः सूर्येण सह एतानि पञ्चभागानप्यहोरात्रस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy