________________
पदं-१७, उद्देशकः-१, द्वारप्रकर्षपर्यन्तवर्तिनी स्थितिमशुभां ते निवर्तयन्ति,प्रकृष्टायांचतस्यांमहती वेदना इतरेषु विपरीतेति
असुरकुमारादयोयावत्व्यन्तरास्तावद्यथाओधिकाउक्तास्तथा वक्तव्याः, नवरंमनुष्याणां क्रियाभिर्विशेषः, तमेव विशेषं दर्शयति-तत्थ णंजे ते' इत्यादि, तत्र-तेषु सम्यग्दृष्टयादिषुमध्ये ये ते सम्यग्दृष्टयस्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-संयता असंयताः संयतासंयताश्च, 'जहा ओहियाण मिति एतेषां यथौधिकानामुक्तं तथा कृष्णलेश्यापदविशेषितानामपि वक्तव्यं, तद्यथासंयतानांद्वेक्रियेआरम्भिकी मायाप्रत्ययाच, कृष्णलेश्याहि प्रमत्तसंयतानांभवति नाप्रमत्तसंयतानां, तेषां तु यथोक्तरूपे एव द्वे क्रिये, संयतासंयतानां तिस्रः-आरम्भिकी पारिग्रहिकी मायाप्रत्यया च, असंयतानां चतस्रः-आरम्भिकी पारिग्रहिकी मायाप्रत्यया अप्रत्याख्यानक्रिया चेति।
ज्योतिष्कवैमानिकास्तुआद्यासुतिसूषु लेश्यासुन पृच्छयन्ते, किमुक्तं भवति? -तद्विषयं सूत्रंन वक्तव्यं, तासांतेष्वभावात्, यथा च कृष्णलेश्याविषयं सूत्रमुक्तं तथा नीललेश्याविषयमपि वक्तव्यं, नानात्वाभावाद्, एतदेवाह-एवंजहा किण्हलेसा विचारियातहा नीललेस्सा विचारेयव्वा' नीललेश्याविषयोऽपि सूत्रदण्डकएवमेव, केवलंकृष्णलेश्यापदस्थानेनीललेश्यापदमुच्चरितव्यमिति भावः, कापोतलेस्सा' इत्यादि, कापोतलेश्या हि सूत्रतोनीललेश्येव नैरयिकेभ्यआरभ्ययावद्व्यन्तरास्तावद्वक्तव्या, नवरंकापोतलेश्यायांनैरयिका वेदनासूत्रे यथौधिकास्तथा वक्तव्याः-'नेरइया दुविहा पन्नत्ता-सन्निभूया य असन्निभूया य' इत्येवं वक्तव्या इति भावः, असंज्ञीनामपि प्रथमपृथिव्यामुत्पादात्तत्र च कापोतलेश्याभावात्,
तेजोलेश्याविषयं सूत्रमाह-'तेउलेस्सा णं भंते ! असुरकुमारा' इत्यादि, इह नारकतेजोवायुविकलेन्द्रियाणां तेजोलेश्या न संभवति ततः प्रथमत वासुरकुमारविषयं सूत्रमुक्तं, अत एव तेजोवायुविकलेन्द्रियसूत्रमपि न वक्तवयं, असुरकुमारा अपि यथा प्रागोघत उक्तास्तथा वक्तव्याः, नवरं वेदनापदे यथा ज्योतिष्कास्थाथा वक्तव्याः, 'सन्निभूयाय असन्निभूया य' इति न वक्तव्याः, किंतु 'माइमिच्छदिहिउववन्नगाअमाइसम्मदिहिउववन्नगा' इति वक्तव्याइतिभावः, असंज्ञीना तेजोलेश्यावत्सूत्पादाभावात्, पृथिव्यब्वनस्पतयः तिर्यक्पञ्चेन्द्रिया मनुष्याश्च यथा प्रागोधिकास्तता वक्तव्याः, नवरं मनुष्याः क्रियाभिर्ये संयतास्ते पमरत्ताश्चप्रमत्ताश्चभणनीयाः, उभयेषामपितेजोलेश्यायाः संभवात्, ‘सरागा वीयरागायनत्थि'त्ति सरागसंजयावीअरागसंजया य इति न वक्तव्या इत्यर्थः, वीतरागाणां तेजोलश्याया असंभवेन वीतरागपदोपन्यासस्यतेजोलेश्यायाः सरागत्वाव्यभिचारात् सरागपदोपन्यासस्य चायोगात,
'वाणमंतरा तेउलेसाए जहा असुरकुमारा' इति, तेऽपि 'माइमिच्छदिट्टिउववन्नगा अमाइसम्मद्दिट्टिउववन्नगा य' इत्येवं वक्तव्याः न तु 'सन्निभूया यअसन्निभूया य' इति, तेष्वपि तेजोलेश्यावसत्सु मध्येऽसंज्ञीनामुत्पादाभावात् ‘एवं पम्हलेसावि भाणियव्वा' इति, एवं
पदं - १७, उद्देशकः-१ - समाप्तः
-: पदं-१७-उद्देशकः-२:. वृ. उक्तः षड्वाराद्याम्भियायी प्रथम उद्देशकः, अधुना द्वितीय उद्देशक उच्यते, तत्र चेदमादिसूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org