________________
पदं-३६, उद्देशकः-, द्वारं -
३०३
स्पृष्टं किमुक्तं भवति ? -विग्रहगतिमधिकृत्य कियता कालेनोत्कर्षतोऽसङ्घयेययोजनप्रमाणं क्षेत्रमायामतः पुद्गलैरापूर्णं स्पृष्टं भवतीति, भगवानाह - गौतम ! एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा चतुः समयेन वा विग्रहेणापूर्णं स्पृष्टं, इह पञ्चसामयिकोऽपि विग्रहः सम्भवति परं स कादाचित्क एव इति न विवक्षितः, इयमत्र भावना - उत्कृष्टपदे आयामपतोऽसङ्ख्येयोजनप्रमाणं क्षेत्रं विग्रहगतिमधिकृत्योत्कर्षतः चतुर्भिः समयैरापूर्णं स्पृष्टं वा भवतीति, अथ कथं चतुःसामयिकः पञ्चसामयिको वा विग्रहः सम्भवति ?, उच्यते, त्रसनाड्या बहिरधस्तनभागादुपरितने भागे यद्वोपरितनभागादधस्तने भागे समुत्पद्यमानो जीवो विदिशो वा दिशि दिशो वा विदिशि यदोलद्यते तदा एकेन समयेन त्रसनाडीं प्रविशति द्वितीयेनोपरि अधो वा गमनं तृतीयेन बहिर्नन्थ्सरणं चतुर्थेन दिशि उत्पत्तिदेशप्राप्तिः, अयं चतुःसामयिको विग्रहः, एवं पञ्चसामयिकस्तु त्रसनाड्या बहिरेव विदिशो विदिशि उत्पत्तौ लभ्यते, तद्यथा- प्रथमसमये नाड्या बहिरेव विदिशो दिशि गमनं द्वितीये त्रसनाड्या मध्ये प्रवेशः तृतीये उपर्यधो वा गमनं चतुर्थे बहिर्निस्सरणं पञ्चमे विदिश्युत्पत्तिदेशगमनमिति, उपसंहारमाह- 'एवंइयकालस्स अप्फुण्णे एवइकालस्स फुडे' इति एतावता कालेनापूर्णमेतावता कालेन स्पृष्टमिति, 'सेसं तं चेव जाव पंचकिरिए' इति अत ऊर्द्ध शेषं तदेव सूत्रं - 'ते णं भंते ! पुग्गला निच्छूढा समाणा जाई तत्थ पाणाई इत्यादि यावत् पंचकिरिया' इति पदं, तदेवं सामान्यतो जीवपदे मारणान्तिकसमुद्घातश्चिन्तितः सम्प्रति एनमेव चतुर्विंशतिदण्डकक्रमेण चिन्तयन् प्रथमो नैरयिकातिदेशमाह
,
'एव' मित्यादि, एवं - सामान्यतो जीवपद इव नैरयिकेऽपि वक्तव्यं, नवरमयं विशेषःसामान्यतो जीवपदे क्षेत्रमायामतो जघन्येनाङ्गुलासङ्घयेयभागमात्रमुक्तं इह तु जघन्यतः सातिरेकं योजनसहस्र, किमत्र कालणमिति चेत् ?, उच्यते, इह नैरयिकाः नरकादुद्वात्ताः स्वभावत एव पञ्चेन्द्रियतिर्यक्षु मध्ये उत्पद्यन्ते मनुष्येषु वा नान्यत्र, सर्वजधन्यचिन्ता चात्र क्रियते, ततो यदा पातालकलशसमीपवर्त्ती नैरयिकः पातालकलशमध्ये द्वितीये वा त्रिभागे मत्स्यतयोत्पद्यते तदा पातालकलशठिक्करिकायायोजनसहस्रमानत्वत् यथोक्तं जघन्यमानं नातोऽपि न्यूनतरं कथंचनेति, उत्कर्षतोऽसङ्घयेयानि योजनानि तानि सप्तमपृथिवीगतनारकापेक्षया भावनीयानि, अत्रैवोपसंहारमाह
'एगदिसिं एवइए' इत्यादि, एकस्यां दिशि जघन्यत उत्कर्षतश्च एतावत् - अनन्तरोक्तप्रमाणं क्षेत्रमापूर्णमेतावत् क्षेत्रं स्पृष्टं, विग्रहगतिमधिकृत्य विशेषमाह - 'विग्गहे णे' त्यादि, विग्रहेणापूर्ण स्पॉष्टं वा वक्तव्येकसामयिकेन द्विसामयिकेन त्रिसामयिकेन वा, नन्वेतत् सामान्यतो जीवपदेऽप्युक्तं तत्कोऽत्र विशेषस्तत आह- 'नवरं चउसमइएण वाण भन्नइ' इति नवरमत्र सामान्यजीवपद इव चतुःसामयिकेनेति न भण्यते, नैरयिकाणामुत्कर्षतोऽवि विग्रहस्य त्रिसामयिकत्वात्, ते च त्रयः समया एवं भवन्ति-इह कश्चिन्नैरयिको वायव्यां दिशि वर्त्तमानो भरतक्षेत्रे पूर्वस्यां दिशि तीर्यक्पञ्चेन्द्रियतया मनुष्यतया वोत्पित्सुः प्रथमसमये ऊर्द्धमागच्छति द्वितीयसमये वायव्या दिशः पश्चिमदिशं तृतीये ततः पूर्वदिशमितिस, एवमसुरकुमारादिष्वपि यथायोगं त्रिसमयविग्रहभावना कार्या, 'सेसं तं चैव जाव पंचकिरियावि' इति शेषं सूत्रं तदेव वेदनासमुद्घातगतं,
'ते णं भंते! पोग्गला केवइया कालस्स निच्छुभंति ?, गो० ! जहन्त्रेणवि अंतो० उक्को०
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International