SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम् - २ - ३६/-/-/ ६१० मानसमुद्घाते वर्त्तमानानां प्राप्यमाणत्वात्, तेभ्यः क्रोधसमुद्घातेन समवहता विशेषाधिकाः, मानापेक्षया क्रोधिनां प्रचुरत्वात्, तेभ्यो मायासमुद्घातेन समवहता विशेषाधिकाः, क्रोध्यपेक्षया मायाविनां प्रचुरत्वात्, तेभ्योऽपि लोभसमुद्घातेन समवहता विशेषाधिकाः, मायाविभ्यो लोभवतामतिप्रभूतत्वात्, तेभ्योऽपि केनाप्यसमवहता सङ्ख्येयगुणाः, चतसृष्वपि गतिषु प्रत्येकं समवहतेभ्योऽसमवहतानां सदा सङ्घयेयगुणतया प्राप्यमाणत्वात्, सिद्धास्त्वेकेन्द्रिययापेक्षयानन्तभागवर्त्तिन इति ते सन्तोऽपि न विवश्रिताः, एतदेवाल्पबहुत्वं चतुर्विंशतिदण्डकक्रमेण चिन्तयन्नाह - 'एएसि णमित्यादि सुगमं, नवरं सर्वस्तोका नैरयिका लोभसमुद्घातेन समवहता इति, नैरयिकाणामिष्टद्रव्यसंयोगाभावात् प्रायो लोभसमुद्गातस्तावन्नोपपद्यते, येषामपि च केषाञ्चिद्भवति कतिपयाइति शेषसमुद्घातसमवहतापेक्षया सर्वस्तोकाः, असुरकुमारविषयाल्पबहुत्वचिन्तायां सर्वस्तोकाः क्रोधसमुद्घातसमुद्धता इति, देवा हि स्वभावतो लोभबहुलास्ततोऽल्पतरा मानादिमन्तः ततोऽपि सकदाचित्कतिपये क्रोधवन्त इति शेषसमुद्घातसमवहतापेक्षया सर्वस्तोकाः, २९८ 'एवं सव्वदेवा जाव वेमाणिया' इति एवं असुरकुमारगतेनाल्पबहुत्वप्रकारेण सर्वे देवा नागकुमारादयस्तावद्वक्तव्याः यावद्वैमानिकाः, पृथिवीकायिकचिन्तायां सामान्यतो जीवपदे इव भावना भावनीया, समानत्वात्, 'एवं जावे' त्यादि, एवं पृथिवीकायिकक्तेन प्रकारेण तावद्वक्तव्यं यावत् तिर्यक्पञ्चेन्द्रियाः, मनुष्या यथा जीवाः नमवरमकषायसमुद्घातसमवहतापेक्षया मानसमुद्घातेन समवहता असङ्घयेयगुणा वक्तव्याः । सम्प्रति कति छाद्मस्थिकाः समुद्घाता इति निरूपणार्थमाह मू. (६११) कइ णं भंते! छाउमत्थिया समुग्धाया पं० ?, गो० ! छ छाउमत्थिया स० पं०, तं० - वेदनास० कसायस० मारणंतियस० वेउव्वियस० तेयास० आहारगसमुद्ग्धाते, नेरइयाणं भंते! कति छाउमत्थिया स० पं० ?, गो० चत्तारि छाउमत्थिया स० पं०, तं० - वेदनास० कसायस० मारणंतियस० वउव्वियस०, असुरकुमाराणं पुच्छा, गो० ! पंच छाउ० समु० पं०, तं० - वेदनासमु० कसायसमु० मारणंतियस० वेउव्वियस० तेयगसमु०, एगिंदियविगलिंदियाणं पुच्छा, गो० ! तिन्नि छाउ० समु० पं०, तं० - वेदनासमु० कसायस० मारणंतियस०, नवरं वाउकाइयाणं चत्तारि स० पं०, तं० - वेदनास० कसायस० मारणंतियस० वेउव्वियस०, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो० ! पंच० स० पं०, तं० – वेदनास० कसायस० मारणंतियस० वेउव्वियस० तेयगस०, मणूसाणं कति छाउमत्थिया समु० पं० ?, गो० ! छाउमत्थिया सं० पं०, तं० - वेदनास० कसायस० मारणंतियस० वेउव्वियस० तेयगस० आहारगस० वृ. 'कइणं भंते!' इत्यादि सुगमं, अथ कति केषां छाद्मस्थिकाः समुद्घाता इति चतुर्विंशतिदण्डकक्रमेण निरूपयति-‘नेरइयाण' मित्यादि, नैरयिकाणामाद्याश्चत्वारो वेदनादिसमुद्घाताः, तेषां तेजोलब्ध्याहारकलब्ध्यभावतस्तैजसमुद्घाताहारकसमुद्घातासम्भवात्, असुरकुमारादीनां सर्वेषामपि देवानामाहारकसमुद्घातवर्जाः शेषाः पञ्च समुद्घाताः, तेषां तेजोलब्धिसम्भवात् तैजससमुद्घातस्यापि सम्भवात्, यस्त्वाहारकसमुद्घातः स तेषां न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy