SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २८६ प्रज्ञापनाउपाङ्गसूत्रम्-२-३६/-/-/६०६ सङ्खयेयै रकैनरकादुद्वृत्त्यानन्तर्येणपारम्पर्येण वातदातदामनुष्यत्वावाप्तौ चतुर्दशपूर्वाण्यधीत्य प्रत्येकमाहारकसमुद्घातानामे कशो द्विः त्रिश्चतुर्वा करिष्यमाणत्वात, ‘एवं जाव वेमाणियाण'मिति नैरयिकाणां चतुर्विंशतिदण्डकक्रमेण चिन्ता कृता एवमसुरकुमारादीनामपिप्रत्येकं चतुर्विंशति-दण्डकक्रमेण तावद्वक्तव्यायावद्वैमानिकानां, केवलं यत्रास्ति विशेषस्तंदर्शयति-'नवर मित्यादि, नवरंवनस्पतिकायिकानांमनुष्यत्वचिन्तायामतीताः पुरस्कृताश्च प्रत्येकमनन्ता वक्तव्याः,अनन्तानांपूर्वमधिगतचतुर्दशपूर्वाणां यथायोगमेकशो द्विः त्रिर्वा कृताहारकसमुद्घातानांवनस्पतिष्ववस्थानात् अनन्तरमेव वनस्पतिकायादुवृ त्यानन्तर्येण पारम्पर्येणवामानुषत्वमवाप्य यथायोग्यमेकसोद्विः त्रिश्चतुर्वाऽऽहारकसमुद्घातानां निवर्तयिष्यमाणत्वात, मनुष्याणां मनुष्यत्वावस्थायामतीताः, पुरस्कृताश्च स्यात्सङ्खयेयाः स्यादसङ्खयेयाः, कथमिति चेत्, उच्यते, ते हि प्रश्नसमयभाविनः उत्कर्षपदेऽपिसर्वस्तोकाः, श्रेण्यसङ्खयेयाभागगतप्रदेशराशिप्रमाणत्वात्, ततो विवक्षितप्रश्नसमयभाविनां मध्ये कदाचिदसङ्ख्येयाः-यथायोगं प्रत्येकमेकशी द्विः त्रिश्चतुर्वा कृतकरिष्यमाणा-हारकसमुद्घाताः प्राप्यन्ते, उपसंहारमाह “एव'मित्यादि, एवमुक्तेन प्रकारेण एते आहारकसमुद्घातविषयाश्चतुर्विंशतिश्चतुविंशतिसङ्ख्याका दण्डका वक्तव्याः, सम्प्रति केवलिसमुद्घातं चिन्तयति-'नेरइयाण'मित्यादि, केवलिसमुद्घातोऽपि मनुष्यत्वावस्थायां भवति, न शेषास्वस्थासु, न च कृतकेवलिसमुद्घातः संसारंपर्यटति, केवलिसमुद्घातानन्तरमन्तर्मुहूर्तेनावश्यं निःश्रेयसपदाधिगमात्, ततोनारकाणां मनुष्यत्ववासु शेषास्ववस्थास्वतीताः पुरस्कृताश्च केवलिसमुद्घाताः प्रतिषेद्धव्याः, मनुष्यत्वावस्थायामप्यतीताः प्रतिषेद्धव्याः, कृतकेवलिसमुद्घातानां नरके गमनाभावात्, भाविनश्च भविष्यन्ति, प्रश्नसमयभाविनां मध्ये बहूनामसङ्खयेयानां नारकाणां मुक्तिपदगमनयोग्यत्वात्, ततः पुरस्कृताअसङ्खयेया इत्युक्तं, एव'मित्यादि, यथा नैरयिकाणां केवलिसमुद्घातचिन्ता कृता एवमसुरकुमारादीनामपि कर्तव्या, सा च तावत् यावत् वैमानिकानां, अत्रैव विशेषमाह ___ 'नवर'मित्यादि, नवरंवनस्पतिकायिकानांमनुष्यत्वावस्थाचिन्तायामतीताःप्रतिषेद्धव्याः, कृतकेवलिसमुद्घातानांसंसाराभावात, पुरस्कृतास्त्वनन्तावाच्याः,प्रश्नसमयभाविनां वनस्पतिकायिकानांमध्ये बहूनामनन्तानांवनस्पतिकायिकानांवनस्पतिकायादुद्ध त्यानन्तर्येण पारम्पर्येण वा कृतकेवलिसमुद्घातानां सेत्स्यमानत्वात्, मनुष्याणां मुष्यात्वावस्थाचिन्तायामतीताः कदाचित्सन्ति कदाचिन्न सन्ति, कृतकेवलिसमुद्घातानां सिद्धत्वभावादन्येषां चाद्यपि केवलिसमुद्घाताप्रतिपत्तेः, यदापि सन्तितदाऽपिजघन्यतएकोद्वौवा त्रयोवा उत्कर्षतःशतपृथक्तवं, पुरस्कृताः स्यात्सङ्खयेयाः स्यादसङ्खयेया;, प्रश्नसमयभाविनां मनुष्याणांमध्ये कदाचित्स येयानां कदाचिदसङ्खयेयानां यथायोगमानन्तर्येण पारम्पर्येण कृतकेवलिसमुद्घातानां सेत्स्यमानत्वात्, सूत्रसर्वसङ्ख्यामाह-एवमुक्तेन प्रकारेण एते केवलिसमुद्घातविषयाश्चतुर्विंशतिश्चतुर्विंशतिदण्डकाः तेच सर्वेऽपिपृच्छायां-पृच्छापुरस्सरंभणितव्याः कियद्रंयावदित्याहवैमानिकानां वैमानिकत्वविषयं सूत्रं, तच्चेदं–'वेमाणियाणं भंते ! वेमाणियत्ते केवइया केवलिसमुग्घाया अतीता?, गो०१ नत्थि, के० पु०?,गो०! नत्थि' इति॥तदेवमुक्ता नैरयिकादिषु वैमानिकपर्यवसानेष्वेकत्वविशिष्टेषु बहुत्वेविशिष्टेषु च भूतभाविवेदनादिसमुद्घात Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy