________________
पदं-२९, उद्देशकः-, द्वारं
२३९ कारोपयोगः,अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनं-स्वस्वविषये सामान्यग्रहणमचक्षुर्दर्शनं, ततोऽनाकारोपयोगशब्देन विशेषणसमासः, एवमुत्तरत्रापि, अवधिरेव दर्शनं-सामान्यग्रहणमवधिदर्शनं, केवलमेव सकलजगद्भाविसमस्तवस्तुसामान्यपरिच्छेदरूपंदर्शनं केवलदर्शनं, अथ मनःपर्यायदर्शनमपि कस्मान भवति येन पञ्चमोऽनाकारोपयोगो न भवतिति चेत् ?, उच्यते, मनःपर्यायविषयं हि ज्ञानं मनसः पर्यायनेव विविक्तान् गृह्णदुपजायते, पर्यायाश्च विशेषाः, विशेषालम्बनंच ज्ञानं ज्ञानमेव न दर्शनमिति मनःपर्यायदर्शनाभावस्तदभावाच्च पञ्चमानाकारोपयोगासम्भव इति । “एवं जीवाण'मित्यादि, एवं निर्विशेषणोपयोगवत् जीवानामप्युपयोगो द्विविधः प्रज्ञप्तो भणितव्यः, तत्रापि साकारोपयोगोऽष्टविधोऽनाकारोपयोगश्चतुर्विधः, एतदुक्तं भवति-यथा प्राक्जीवपदरहितमुपयोगसूत्रसामान्यत उक्तंतथाजीवपदसहितमपि भणितव्यं, तद्यथा-'जीवाणंभंते! कतिविधेउवओगेपं०?,गो०! दुविधे उवओगेपं०,तं०-सागारोवओगे यअनागारोवओगेय, जीवाणंभंते! सागारोवओगे कतिविधे पं०?,गो०! अट्ठविधे पं० तं०' इत्यादि, तदेवं सामान्यतो जीवानामुपयोगश्चिन्तितः,
सम्प्रति चतुर्विशतिदण्डकक्रमेण नैरयिकादीनां चिन्तयन्नाह-'नेरइयाणंभंते!' इत्यादि, नैरयिका हि द्विविधा भवन्ति-सम्यग्दृष्टयो मिथ्यादृष्टयश्च, अवधिरपि तेषां भवप्रत्ययोऽवश्यमुपजायते, 'भवप्रत्ययो नारकदेवाना' मिति वचनात्, तत्र सम्यग्दृष्टीनां मतिज्ञानश्रुतज्ञानावधिज्ञानानि मिथ्याष्टीनां मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानीति सामान्यतौ नैरयिकाणां षड्विधः साकारोपयोगः, अनाकारोपयोगस्त्रिविधस्तद्यथा-चक्षुर्दर्शनं अचक्षुर्दर्शनमवधिदर्शन च, एष च त्रिविधोऽप्यनाकारोपयोगः सम्यग्दृशां मिथ्याशां चाविशेषेण प्रतिपत्तव्यः, उभयेषामप्यवधिदर्शनस्य सूत्रे प्रतिपादितत्वात्, एवमसुरकुमारादीनांस्तनितकुमारपर्यवसानानां भवनपतीनाम प्यवसेयं, पृथिवीकायिकानां साकारोपयोगो द्विविधस्तद्यथा-मत्यज्ञानं श्रुतज्ञानं च,अनाकारोपयोगएकऽचक्षुर्दर्शनरूपः,शेषोपयोगानां तेषामसम्भवात, सम्यग्दर्शनादिलब्धिविकलत्वात्, एवमप्तेजोवायुवनस्पतीनामपि वेदितव्य,
द्वीन्द्रियाणां साकारोपयोगश्चतुर्विधः, तद्यथा-मतिज्ञानं श्रुतज्ञानं मत्यज्ञानं श्रुताज्ञानं, तत्रापर्याप्तावस्थायां केषांचित् सासादनभावमासादयतां मतिज्ञानश्रुतज्ञाने शेषाणां तुमत्यज्ञानश्रुताज्ञाने, अनाकारोपयोगस्त्वेकोऽचक्षुर्दर्शनरूपः, शेषोपयोगाणाणं तेषामसम्भवात्, एवं त्रीन्द्रियाणामपि, चतचुरिन्द्रियाणामप्येव, नवरमनाकारोपयोगो द्विविधः चक्षुर्दर्शनमचक्षुर्दर्शनं च, पञ्चेन्द्रियतिरश्चां साकारोपयोगः षड्विधस्तद्यथा-मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं, अनाकारोपयोगस्त्रिविधस्तद्यथा-चक्षुदर्शनअचक्षुदर्शनं अवधिदर्शनंच, अवधिद्विकस्यापि केषुचित्तेषु सम्भवात्, ___ मनुष्याणां यथासम्भवमष्टावपि साकारोपयोगाश्चत्वारोऽप्यनाकारो पयोगा;, मनुष्येषु सर्वज्ञानदर्शनलब्धिसम्भवात्, व्यन्तरज्योतिष्कवैमानिका यथा नैरयिकाः, तदेवं सामान्यतश्चतुर्विशतिदण्डकक्रमेण च जीवानां उपयोगश्चिन्तितः, सम्प्रति मन्दमतिस्पष्टावबोधाय जीवा एवतत्ततदुपयोगोपयुक्ताः, सामान्यतश्चतुर्विशतिदण्डकक्रमेणचिन्त्यन्ते-'जीवाणंभंते!' इत्यादिसुगमम्
पदं- २९ --समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org