SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१९ पदं-२८, उद्देशकः-१, द्वारसब्ब?गसिद्धदेवाणंपुच्छा, गो०! अजहन्नमणुक्कोसेणंतेत्तीसाएवाससहस्साणंआहारतुसमुप्पजति पृ. 'बेइंदियाणं भंते!' इत्यादि सुगम, नवरं 'लोमाहारे पक्खेवाहारे' इति लोमभिराहारो लोमाहारः प्रक्षिप्यतेऽर्थात् मुखे इति प्रक्षेपः स चासावाहारश्च प्रक्षेपाहारः, तत्र यः स्वल्पोघतो वर्षादिषु पुद्गलप्रवेशो मूत्रादिगम्यः सलोमाहारः, कावलिकस्तुप्रक्षेपाहारः,तत्र यान् पुद्गलान् लोमाहारतया गृहणाति तान् सर्वान्-अपरिशेषानाहारयन्ति, तेषां तथा २ स्वभावत्वात्, यान् पुद्गलान्प्रक्षेपाहारतया गृह्णन्ति तेषामसङ्ख्येयतमंभागमाहारयन्ति, अनेकानिपुनर्भागसहस्पणिबहवोऽसङ्खयेयाभागाइति अस्पृश्यमानानामनास्वाद्यमानानां विध्वंसमागच्छन्ति, किमुक्तंभवति बहूनि द्व्याण्यन्तर्बहिश्च अस्पृष्टान्येवानास्वादितान्येव च विध्वंसमायान्ति, नवरं यथायोगं केचिदतिस्थौल्यतः केचिदतिसौम्यत इति, सम्प्रत्यस्पृश्यमाननानामनास्वाधमानानां च परस्परमल्पबहुत्वमभिधित्सुराह _“एएसि णं भंते ! पुग्गलाणं अनासाइजमाणाण'मित्यादि, इह एकैकस्मिन् स्पर्शयोग्ये भागेऽनन्ततमो भागआस्वाद्यो भवति, ततो येऽनास्वाद्यमानः पुद्गलास्तेस्तोकाएव, अस्पृश्यमानपुद्गलापेक्षया तेषामनंतभागवर्तित्वात्, अस्पृश्यमानास्तुपुद्गला अनन्तगुणाः, 'जिमिंदियफासिंदियवेमायत्ताए' इति विमात्राऽत्रापि प्राग्वद् भावनीया, __ ‘एवंजावचउरिदिया एवं-द्वीन्द्रियोक्तप्रकारेणसूत्रंतावद्वक्तव्यंयावच्चतुरिन्द्रियाःचतुरिन्द्रियगतं सूत्रं, प्रायः समानवक्तव्यत्वात्, यस्तु विशेषः स उपदर्श्यते-'नवर'मित्यादि, यान्पुद्गलान प्रक्षेपाहारतया गृह्णन्ति तेषांपुद्गलानामे कमसङ्खयेयतमं भागमाहारयन्तिअनेकानि पुनर्भागसहस्राणि सङ्ख्यातीता असङ्खयेयभागा इत्यर्थः अनाघ्रायमाणानि अस्पृश्यमाणानि अनास्वाद्यमानानि विध्वंसमागच्छन्ति, तानिच यथायोगमतिस्थौल्यतोऽतिसौम्यतश्चवेदितव्यानि, अत्रैवाल्पबहुत्वामाह-'एएसिणंभंते!' इत्यादि, इहएकैकस्मिन् भागे स्पर्शयोग्येऽनन्तमो भागः आस्वादयोग्यो भवति, तस्याप्यनन्तमो भागआघ्राणयोग्यः,ततो यथोक्तमल्पबहुत्वं भवति, शेषं सर्वं सुगम, पञ्चेन्द्रियसूत्रे-'जहन्नेणं अंतोमुहत्तस्से'ति षष्ठयाःसप्तम्यर्थत्वादन्तर्मुहूर्ते गते सति भूय आहारार्थः समुत्पद्यते, उत्कर्षतः षष्ठभक्तेऽतिक्रान्ते, एतच्च देवकुरुत्तरकुरुतिर्यक्पचेन्द्रियापेक्षया द्रष्टव्यं, मनुष्यसूत्रे 'उक्कोसेणं अट्ठमभत्तस्से'ति उत्कर्षतोऽष्टमभक्तेऽतिक्रान्ते, एतच्च तास्वेव देवकुरुत्तर- कुरुषु द्रष्टव्यं, व्यन्तरसूत्रे नागकुमारसूत्रवत्, ज्योतिष्कतसूत्रमपि तथैव, यस्तुविशेषस्तमुपदर्शयति '-नवलरंजहन्नेणविदिवसपुहुत्तस्स उक्कोसेणवि दिवसपुहुत्तस्स'त्ति, ज्योतिष्का हि जघन्यतोऽपिपल्योपमाष्टभागप्रमाणायुषस्ततस्तेषांजघन्यपदेऽप्युत्कृष्टपदेऽपिदिवसपृथक्तवेऽतिक्रान्ते भूयआहारार्थः समुत्पद्यते, पल्योपमाष्टभागायुंच स्वरूपत एव दिवसपृथकत्वातिक्रमे भूय आहारार्थः समुत्पद्यते, वैमानिकसूत्रे ‘नवरमाभोगनिव्वत्तिए जहन्नेणं दिवसपुहुत्तस्स' इति, एतत्पल्योपमाद्यायुषामवसेयं, ‘उक्कोसेणं तेत्तीसाए वाससहस्साणं'ति एतदनुत्तरसुराणामवसेयं, इह यस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावत्सु वर्षसहस्रष्वतिक्रान्तेषु भूय आहारार्थः समुत्पद्यते, ततोऽमुंन्यायमाश्रित्य सौधर्मेशानादिदेवलोकेषु जघन्यत उत्कर्षतश्च स्थितिपरिमाणं परिभाव्य वैमानिकसूत्रं सकलमपि स्वयं विज्ञेयमिति। सम्प्रत्येकेन्द्रियशरीरादीनामधिकारमभिधित्सुराह- . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy