SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ पदं-२३, उद्देशकः-२, द्वारं १९७ कषायषोडशकस्य जघन्यतश्चत्वारः सागरोपमस्य सप्तभागाः पल्योपमासङ्खयेयभागोना उत्कर्षतस्त एव परिपूर्णाः, पुरुषवेदहास्यरतिप्रशस्तविहायोगतिस्थिरादिषट्कप्रथमसंस्थानप्रथमसंहननशुक्लवर्णसुरभिगन्धमधुररसोचैर्गोत्राणांजघन्यत एकः सागरोपमस्य सप्तभागः पल्योपमासङ्खयेयभागहीनः उत्कर्षतः स एव परिपूर्णः, द्वितीयसंस्थानसंहननयोः जघन्यतः षट् पञ्चत्रिंशद्भागाः पल्योपमासङ्घयेयभागहीना उत्कर्षतस्त एव परिपूर्णाः, तृतीयसंस्थानसंहननयोजघन्यतः सप्त सागरोपमस्य पञ्चत्रिंशद्भागाः पल्योपमासङ्खयेयभागहीना उत्कर्षतस्त एव परिपूर्णाः, ___लोहितवर्णकषायरसयोर्जघन्यतः षट् सागरोपमस्याष्टाविंशतिभागाः पल्योपमासङ्ख्येयभागहीना उत्कर्षतस्त एव परिपूर्णाः, हारिद्रवर्णाम्लरसयोर्जघन्यतः पञ्च सागरोपमस्याष्टाविंशतिभागाः पल्योपमासङ्खयेयभागहीनाः उत्कर्षतस्त एव परिपूर्णाः, नीलवर्णकटुरसयोः सप्त सागरोपमस्याष्टाविंशतिभागाः पल्योपमासङ्खयेयभागोनाः उत्कर्षतस्त एव परिपूर्णाः, नपुंसकवेदभयजुगुप्साशोकारतितिर्यगौदारिकद्विकचरमसंस्थानचरमसंहननकृष्णवर्णतिक्तरसागुरुलघुपराघातोच्छ्वासोपघातत्रसबादरपर्याप्तप्रत्येकासअथिराशुभदुर्भगदुःस्वरानादेयायशः कीर्तिस्थावरातपोद्योताशुभविहायोगतिनिर्माणैकेन्द्रियजातिपञ्चेन्द्रियजातितैजसकार्मणानां जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासङ्खयेयभागहीनौ उत्कर्षतस्तावेव परिपूर्णाविति, नरकद्विकदेवद्विकवैक्रियचतुष्टयाहारकचतुष्टयतीर्थङ्करनाम्नां त्वेकेन्द्रियाणां न बन्धः, आयुश्चिन्तायामपि एकेन्द्रिया देवायु रयिकायुर्वा न बध्नन्ति, तथा भवस्वाभाव्यात्, किन्तु तिर्यगायुर्मनुष्यायुर्वा, तदपि बध्नन्तो जघन्यतोऽन्तर्मुहूर्तं बध्नन्ति, उत्कर्षतः पूर्वकोटिप्रमाणं साधिकं, केवलमुत्कृष्टंचिन्त्यते इत्येकेन्द्रिया द्वाविंशतिवर्षसहस्रप्रमाणायुषः स्वायुषश्च त्रिभागावशेषे परभवायुर्बध्नन्तः परिगृह्यन्ते इति सप्तवर्षसहस्राणि वर्षसहस्रत्रिभागोत्तराण्यधिकानि लभ्यन्ते, ततो भवति तिर्यगायुर्मनुष्यायुश्चिन्तायां सूत्रोक्तं परिमाणमिति। उक्तमेकेन्द्रियबन्धकानधिकृत्य जघन्यत उत्कर्षतश्च स्थितिपरिमाणं, सम्प्रति द्वीन्द्रियानधिकृत्य तमभिधित्सुराह म. (५४३) बेइंदिया णं भंते ! जीवा नाणावरणिजस्स कम्मस्स किं बंधंति ?, गो० ! जह० सागरोवमपणवीसाते तिन्नि सत्तभागा पलितोवमस्स असं० ऊणया उ० ते चेव पडिपुन्ने बंधंति, एवं निदापंचगस्सवि, एवं जहा एगिंदियाणं भणितंतहा बेइंदियाणवि भाणितव्वं, नवरं सागरोवमपणवीसाए सह भाणितव्वा पलितोवमस्स असंखेजतिभागेणं ऊणा सेसा (उ०) तं चेव पडिपुन्नं बंधंति, जत्थ एगिंदिया न बंधंति तत्थ एतेवि न बंधंति, बेइंदियाणंभंते! जीवा मिच्छत्तवेयणिजस्स किंबंधंति?, गो०!, जह० सागरोवमयणुवीसं पलिओवमस्स असंखेजइभागेण ऊणयं उक्कोसेणंतंचेवपडिपुण्णंबंधंति, तिरिक्खजोणियाउयस्स जह० सागरोवमयणुवीसं पलिओवमस्स असंखेज्जइभागेण ऊणयं उक्कोसेणं तं चेव पडिपुण्णं बंधंति, तिरिक्खजोणियाउयस्स जह० अंतो० उक्को० पुव्वकोडिं चउहिं वासेहिं अहियं बंधंति, एवं मणुयाउयस्सवि, सेसं जहा एगिदियाणं जाव अंतराइयस्स । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy