SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पदं-१, उद्देशकः-, द्वारं तत एतेषामश्वकर्णादीनां चतुर्णा द्वीपानांपरतो यथाक्रमंपूर्वोत्तरादिविधिक्षुप्रत्येकमष्टावष्टौ योजनशतान्यतिक्रम्याष्टयोजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसराजम्बूद्वीपवेदिकातोऽटयोजनशतप्रमाणान्तरा उल्कामुखमेघमुखविद्युन्मुरखविधुद्दन्ताभिधानाश्चत्वारो द्वीपाः । ततोऽमीषामपिउल्कामुखादीनां चतुर्णा द्वीपानांपरतो यथाक्रमंपूर्वोत्तरादिविदिक्षुप्रत्येक नवनवयोजनशतान्यतिक्रम्यनवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्टाविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डसमवगूढा जम्बूद्वीपवेदिकातो नवयोजनशतप्रामाणान्तरा धनदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः। एवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसंख्ययाऽष्टाविंशतिः, एवं हिमवत्तुल्यवर्णप्रमाणेपद्मद्दप्रमाणायामविष्कम्भावगाहपुण्डरीकहदोपशोभिते शिखरिण्यपि पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तरासु चतसृषु विदिक्षु व्यवस्थिता एकोरुकादिनामानोऽक्षणापान्तरालायमविष्कम्भाअष्टाविंशतिसंख्याद्वीपा वक्तव्याः, सर्वसंख्ययाषट्पञ्चाशदन्तरद्वीपाः, एतद्गता मनुष्या अप्येतनामानः उपचारात्, भवति च तात्स्थ्यात् तद्वयपदेशः, यथापञ्चालदेशनिवासिनः पुरुषाः पञ्चाला इति, तेचमनुष्या वज्रर्षभनाराचसंहननिनः कङ्कपक्षिपरिणामा अनुलोमवायुवेगा समचतुरनसंस्थानाः, __ तद्यथा-सुप्रतिष्टितकूर्मचारुचरणाः सुकुमारश्लक्ष्णप्रविरलोरमकुरुविन्दवृत्तडङ्घायुगला निगूढसुबद्धसंधिजानुप्रदेशाः करिकरसमवृत्तोरवः कण्ठीरवसदशकटीप्रदेशाः शक्रायुधसममध्यभागाः प्रदक्षिणावर्तनाभिमण्डलाः श्रीवत्सलाञ्छितविशालमांसलक्षःस्थलाः पुरपरिघाऽनुकारिदीर्घबाहवः सुश्लिष्टमणिबन्धा रक्तोत्पलपत्रानुकारिशोणपाणिपादतलाः चतुरङ्गुलप्रमाणसमवृत्तकम्बुग्रीवाः शारदाशशाङ्कसौम्यवदनाःछत्राकारशिरसोऽस्फुटितस्निग्धकान्तिश्लक्ष्णमूर्द्धजाः कमण्डलु कलश यूपस्तूप वापी ध्वज पताका सौवस्तिक यव मत्स्य मकर कूर्म रथवर स्थालांशुकाष्टापदाङ्कुश सुप्रतिष्ठकमयूर श्रीदामाभिषेक तोरणमेदिनीजलधिवरभवनादर्शपर्वतगजवृषभसिंहच्छत्रचामररूपरंशस्तोत्तमद्वात्रिंशल्लक्षणधराः । स्त्रियोऽपिसुजातसर्वाङ्गसुन्दर्यःसमस्तमहेलागुणसमन्विताः संहताङ्गुलिपद्मदलवत्सुकुमारकूर्मसंस्थानमनोहारिचरणा रोमरहितप्रशस्तलक्षणोपेतजङ्घायुगला निगूढमांसलजानुप्रदेशाः कदलीस्तम्भनिभसंहतसुकुमारपीवरोरुका वदनायामप्रमाणत्रिगुणमांसलविशालजघनधारिण्यः स्निग्धकान्तिसुविभक्तश्लक्ष्णरोमराजयः प्रदक्षिणावर्ततरङ्गभङ्गुरनाभिमण्डलाः प्रशस्तलक्षणोपेतकुक्षयः संगतपााः कनककलशोपमसंहितात्युन्नतवृत्ताकृतिपीवरपयोधराः सुकुमारबाहुलतिकाः सौवस्तिकशङ्खचक्राद्याकृतिलेखालङ्कृतपाणिपादतलाः वदनविभागोच्छ्रितमांसलकम्बुग्रीवाः प्रशस्तलक्षणोपेतमांसलहनुविभागा दाडिमपुष्पानुकारिशोणिमाघरौष्ठा रक्तोत्पलतालुजिह्वा विकसितकुवलयपत्रायतकान्तलोचना आरोपितचापपृष्ठाकृतिसुसंगतभ्रूलतिकाः प्रमाणोपपन्नललाटफलकाः सुस्निग्धकान्तश्लक्ष्णशिरोरुहाः पुरुषेभ्यः किञ्चिदूनोच्छ्रायाः स्वभावत उदारशृङ्गारचारुवेषाः प्रकृत्यैव हसितभणितविलासविषयपरमनैपुण्योपेताः।। तथा मनुष्या मानुष्यश्च स्वभावत एव सुरभिवदनाः प्रतनुक्रोधमानमायालोभाःसंतोषिणो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy