________________
प्रज्ञापनाउपाङ्गसूत्रं-१- १/-1-/७७
मू. (७७) जे यावन्ना तहप्पगारा, से त्तं हरिया ।। से किं तं ओसिहिओ ?, ओसिहिओ अनेगविहाओ पन्नत्ताओ, तं० - साली वीही गोहुम जव जवजवा कलमसूरतिलमुग्गमासणिप्फावकुलत्थ आलिसंदसतीणपलिमंथा अयसीकुसुंभकोद्दव कंगूरालगमासकोहंसा सणसरिसवमूलिगबीया, जे यावन्ना तहप्पगारा, से त्तं ओसहीओ ॥.
से किं तं जलरुहा ?, जलरुहा अनेगविहा पत्रत्ता, तं०- उदए अवए पनए सेवाले कलंबुया हढे कसेरुया कच्छभाणी उप्पले पउमे कुमुदे णलिणे सुभए सुगंधिए पोण्डरीयए महापुंडरी- यए सयपत्ते सहस्सपत्ते कल्हारे कोकनदे अरविंदे तामरसे भिसे भिसमुणाले पोक्खले पोक्खलत्थिमुए, जे यावन्ना तहप्पागारा, से त्तं जलरुहा ॥
३८
से किं तं कुहुणा ?, कुहुणा अनेगविहा पन्नत्ता, तं - आह काए कुहणे कुणक्के दव्वहलिया सफाए सज्झाए छत्तोए वंसीण हिताकुरए, जे यावन्ना तहप्पगारा, से त्तं कुहुणा ।। मू. (७८) नानाविह संठाणा रुक्खाणं एगजीविया पत्ता । खंधावि एगजीवा तालसरणालिएरीणं ॥ जह सगलसरिसवाणं सिलेसमिस्साण वट्टिया विट्टी । पत्तेयसरीराणं तहेति सरीरसंघाया ॥
मू. (७९)
मू. (८०)
जह वा तिलपप्पडिया बहुएहिं तिलेहि संहता संती । पत्तेयसरीराणं तह होंति सरीरसंघाया ॥
मू. (८१)
से त्तं पत्तेयसरीरबादरवणप्फइकाइया ॥
?
वृ. एते गुच्छादिभेदाः स्वरूपत एव प्रतीताः केचिद्देशविशेषादवगन्तव्याः, अत्र वृक्षादिषु यस्यैकस्य नाम गृहीत्वाऽपरत्रापि तन्नाम गृहीतं तत्रान्यो भिन्नजातीयः सद्ग्नामा प्रतिपत्तव्यः, अथवा एकोऽपि कश्चिदनेकजातीयको भवति, यथा - नालिकेरीतरुरेकास्थिकत्वादेकास्थिकः, त्वचो वलयाकारत्वाच्च वलयः, ततोऽनेकजातीयत्वादपि तन्नाम निर्दिश्यमानं न विरुध्यते ।
साम्प्रतमुक्तानुक्तार्थसंग्रहार्थमिदमाह - 'नानाविदेहेत्यादि' नानाविधं - नानाप्रकारं संस्थानं - आकृतिर्येषां तानि नानाविधसंस्थानानि, 'वृक्षाणा' मिति वृक्षग्रहणमुपलक्षणं, तेन गुच्छ गुल्मादीनामपि द्रष्टव्यं, पत्राणि एकजीवकानि - एकजीवाधिष्टितानि वेजितव्यानि, स्कन्धोऽपि एकजीवाधिष्ठितः, किं सर्वेषामपि ?, नेत्याह - तालसरलनालिकेरीणां, तालसरलनालिकेरीग्रहणमुपलक्षणं, तेनान्येषामपि यथाऽऽगममेकजीवाधिष्ठितत्वं स्कन्धस्य प्रतिपत्तव्यं, अन्येषां तु स्कन्धाः प्रत्येकमनेकप्रत्येकशरीरजीवात्मका इति सामर्थ्यादवसेयं, 'खंधावि अणेगजीविया' इति पूर्वमभिधानात् । अथ अयदि प्रत्येकमनेकशरीरजीवाधिष्ठितास्ततः कमथमेकखण्डशरीराकारा उपलभ्यन्ते इति ?, तदवस्थानस्वरूपमाह - 'जह सगले 'त्यादि, यथा सकलसर्षपाणां 'श्लेष्ममिश्राणां' श्लेष्म- द्रव्यविमिश्रितानां वलिता वत्तिरिकरूपा भवति, अथ ते सकलसर्षपाः परिपूर्णशरीरा; सन्तः पृथक्स्वस्वावगाहनयाऽवतिष्ठन्ते ' तथा ' अनवैवोपमया प्रत्येकशरीराणां जीवानां शरीरसङ्घाताः पृथक्पृथक्स्वस्वागाहना भवन्ति, इह श्लेषद्रव्यस्थानीयं रागद्वेषोपचितं तथाविधं कर्म सकल- सर्षपस्थानीयाः प्रत्येकशरीराः, सकलसर्षग्रहणं सर्षपवैविक्त्यप्रतिपत्त्या पृथक्स्वस्वावगाहकप्रत्येक शरीरवैविक्त्यप्रतिपत्त्यर्थं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org