________________
३०२
प्रज्ञापनाउपाङ्गसूत्र-१-१४/-/-/४१४
योदयादुपजायमानः क्रोधः, तथा च स पश्चात् ब्रूते-अहो मे निष्कारणःकोपो नैव (कोऽपि) विरूपं भाषते न च किञ्चिद्विनाशयति, अत एवोक्तं पूर्वमहर्षिभिः॥१॥ “सापेक्षाणि निरपेक्षाणि च कर्माणि फलविपाकेषु ।
सोपक्रमं निरुपक्रमंच दृष्टं यथाऽऽयुष्कम् ॥” इति, एवं मानमायालोभा अपि आत्मपरोभयप्रतिष्ठिता अप्रतिष्ठिताश्च भावनीयाः।
तदेवमधिकरणभेदेन भेद उक्तः, सम्प्रति कारणभेदतो भेदमाह-'कति (हिं) णं भंते! ठाणेहिं कोहुप्पत्ती हवइ' इत्यादि, तिष्ठन्त्येभिरितिस्थानानि-कारणानि कतिभिः-कियत्सङ्ख्याकैः स्थानः-कारणैः क्रोधोत्पत्तिर्भवति?, भगवानाह-चतुर्भिः स्थानैः, तान्येव स्थानान्याह-'खेत्तं पडुच्च' इत्यादि, तत्र नैरयिकाणांनैरयिकक्षेत्रप्रतीत्य तिरश्चांतिर्यक्षेत्रंप्रतीत्य मनुष्याणांमनुष्यक्षेत्रं देवानां देवक्षेत्रं 'वत्थु पडुच्चे'ति वस्तु सचेतनमचेतनं वा शरीरं प्रतीत्य-दुःसंस्थितं विरूपं वा 'उपधिं प्रतीत्ये ति यत् यस्योपकरणं तस्य तत् चौरकादिनाऽपह्रियमाणमन्यथा वा प्रतीत्य, एवं नैरयिकादिदण्डकसूत्रमपि,
मू(१५) कतिविधेणंभंते! कोधेपन्नते?, गो०! चउब्विहे कोहे पं०,तं०-अनंताणुबंधि कोहे अपञ्चक्खाणे कोहे पञ्चक्खाणावरणे कोहे संजलणे कोहे, एवं नेरइयाणंजाव वेमाणियाणं । एवंमाणेणं मायाए लोभेणं, एएवि चत्तारि दंडगा .
वृ.सम्प्रति सम्यग्दर्शनादिगुणविधातित्वेन भेदमाह-सम्यकत्वगुणविधातकृदनन्तानुबन्धी देशविरतिगुणविधातीअप्रत्याख्यानःसर्वविरतिगुणविधातीप्रत्याख्यानावरणः यथाख्यातचारित्रवघातकः संज्वलनः, एतांश्चतुरोऽपि नैरयिकादिदण्डकक्रमेणं चिन्तयति, एवं मानमायालोमा अपि प्रत्येकं चतुर्विधाः सामान्यतो दण्डकक्रमेण च भावनीयाः।
सम्प्रत्येतेषामेव क्रोधादीनां निर्वृतिभेदतोऽवस्थाभेदतश्च भेदमाह
मू. (४१६) कतिविधे णं भंते ! कोधे पं०?, गो० ! चउबिहे कोहे पं०, तंजहाआभोगनिव्वत्तिए अनाभोगनिव्वत्तिए उवसंते अनुवसंते, एवं नेरइयाणं जाव वेमाणियाणं । एवं माणेणवि, मायाएवि, लोभेणवि, चत्तारि दंडगा।
वृ. 'कइविहेणंभंते!' इत्यादि, यदापरस्यापराधसम्यगवबुध्याकोपकारणंचव्यवहारतः पुष्टवलम्ब्य नान्यथाऽस्य शिक्षोपजायते इत्याभोग्य कोपं विधत्ते तदास कोपआभोगनिवर्तितः, यदा त्वेवमेव तथाविधमुगूर्तवशाद्गुणदोषविचारणाशून्यः परवशीभूयं कोपं कुरुते तदा स कोपोऽनाभोगनिवर्तितः २ उपशान्तः-अनुदयावस्थः३अनुपशान्तः-उदयावस्थः४, एवमेतद्विषयं दण्डकसूत्रमपि भावनीयं, एवं मानमायालोभाः प्रत्येकं चतुष्प्रकाराः सामान्यतो दण्डकक्रमेण च वेदितव्याः ।
मू. (४१७) जीवाणं भंते! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु?, गो०! चउहिं ठाणेहिं अट्ठ कम्मपगडिओ चिणिंसु तं०-कोहेणं माणेणं मायाए लोभेणं, एवं नेरइयाणं जाव वेमाणियाणं, जीवा णं भंते ! कितिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणंति ?, गो० ! चउहिं ठाणेहिं, तं०-कोहेणं माणेणं मायाए लोभेणं, एवं नेरइया जाव वेमाणिया।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org