SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २९६ प्रज्ञापनाउपाङ्गसूत्र-१-१३/-/-/४०५ वैश्रसिकः, चशब्दौ स्वगतानेकभेदसूचकौ, तांश्च भेदान् अग्रे सूत्रकृदेव वक्ष्यति, तथा चाह मू. (४०६) जीवपरिणामेणंभंते! कतिविधेपं०? गो०! दसविधे पं०२०-गतिपरिणामे १इंदियपरिणामेर कसायपरिणामे ३ लेसापरिणामे ४ जोगपरिणामेउवओगपरि०६नाणपरि० ७ दंसणपरि०८ चरित्तपरि० ९ वेदपरिणामे १० वृ. 'जीवपरिणामे णं भंते !' इत्यादि, दशविधो जीवपरिणामः, तद्यथा-गतिपरिणाम इत्यादि, तत्रगम्यतेनैरयिकादिगतिकर्मोदयवशादवाप्यते इति गतिः-नैरयिकत्वादिपर्यायपरिणतिः गतिरेव परकिणामो गतिपरिणामः १, तथा इन्दनादिन्द्रः-आत्मा ज्ञानलक्षणपरमैश्वर्ययोगात् तस्येदं, 'इन्द्रिय मिति निपातनादिन्द्रशब्दादियप्रत्ययः, इन्द्रियाण्येव परिणाम इन्द्रियपरिणामः २, तथा कर्षन्ति-हिंसन्तिपरस्परंप्राणिनोऽस्मिन्नितिकषः-संसारस्तमयन्ते–अन्तर्भूतण्यर्थत्वात् गमयन्तिप्रापयन्ति येतेकषायाः कर्मणोऽणि त्यणप्रत्ययः, कषायाएव परिणामः कषायपरिणामः३, - -लेश्यादिशब्दार्थो वक्ष्यमाणः लेश्यांएव परिणामो लेश्यापरिणामः ४ योगएवपरिणामो योगपरिणामः ५ उपयोग एव परिणाम उपयोगपरिणामः ६ एवं ज्ञानपरिणाम ७ दर्शनपरिणाम ८ चारित्रपरिणाम ९ वेदपरिणामेष्वपि भावनीयं । ___ सम्प्रत्यमीषांपदानामित्थंक्रमेणोपन्यासेकारणमभिधीयते-तत्रसर्वेभावास्तत्तद्भावाश्रिता गतिपरिणामं विना न प्रादुष्ष्यन्ति ततः प्रथमं गतिपरिणामः १ गतिपरिणामे च सत्यवश्यमिन्द्रियपरिणाम इति तदनन्तरमिन्द्रियपरिणाम उक्तः २ इन्द्रियपरिणामे च सति इष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरुपजायते इति तदनन्तरं कषायपरिणामः ३ कषायपरिणामश्चावश्यं लेश्यापरिणामाविनाभावी, तथाहि- लेश्यापरिणामः सयोगिकेवलिनमपि यावद्भवति, यतो लेश्यानां स्थितिनिरूपणावसरे लेश्याध्ययने शुक्ललेश्यायाजघन्या उत्कृष्टाचस्थितिः प्रतिपादिता॥१॥ “मुहुत्तद्धं तु जहन्ना उक्कोसा होइ पुव्वकोडी उ। नवहिं वरिसेहिं ऊणा नायव्वा सुक्कलेसाए ॥” इति, साचनववर्षोनपूर्वकोटिप्रमाणा उत्कृष्टा स्थितिः शुक्ललेश्यायाःसयोगिकेवलिन्युपपद्यते, नान्यत्र, कषायपरिणामस्तु सूक्ष्मसम्परायं यावद्भवति, ततः कषायपरिणामोलेश्यापरिणामाऽविनाभूतोलेश्यापरिणामश्चकषायपरिणामं विनापि भवति, ततः कषायपरिणामानन्तरं लेश्यापरिणाम उक्तः, नतु लेश्यापरिणामान्तरं कषायपरिणामः ४, तथा लेश्यापरिणामो योगपरिणामात्मको 'योगपरिणामो लेश्या' इति वचनात्, उपपादयिष्यते चायमर्थो लेश्यापदे सविस्तरमतो लेश्यापरिणामानन्तरं योगपरिणाम उक्तः ५। संसारिणांचयोगपरिणतानामुपयोगपरिणतिस्ततो योगपरिणामानन्तरमुपयोगपरिणामः ६ सति चोपयोगपरिणामे ज्ञानपरिणाम इति तदनन्तरं ज्ञानपरिणाम उक्तः ७ ज्ञानपरिणामश्च द्विधा-सम्यग्ज्ञानपरिणामो मिथ्याज्ञानपरिणामश्च, तौचन सम्यकत्वमिथ्यात्वव्यतिरेकेण भवत इति तदनन्तरं दर्शनपरिणाम उक्तः ८ सम्यग्दर्शनपरिणामे च जीवानां जिनवचनाकर्णनतो नवनवसंवेगाविर्भावतश्चारित्रावरणकर्मक्षयोपशमतः चारित्रपरिणाम उपजायते ततो दर्शनपरिणामानन्तरंचारित्रपरिणाम उक्तः ९ चारित्रपरिणामवशात्ते वेदपरिणामंप्रलयमुपनयन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy