SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २९४ प्रज्ञापनाउपाङ्गसूत्रं-१- १२/-/-/४०४ शेषः, सा च सुप्रसिद्धत्वान्नोक्ता, कथं सुप्रसिद्धेति चेत् ? उच्यते, इह महादण्डक पञ्चेन्द्रियतिर्यग्नपुंसकेभ्यो ऽसङ्घयेयगुणहीना व्यन्तराः पठ्यन्ते, तत एषां विष्कम्भसूचिरपि तिर्यक्पञ्चेन्द्रियविष्कमभसूचेरसङ्घयेयगुणहीना वक्तव्या इति, आह च मूलटीकाकारोऽपि, “जम्हा महादंडए पंचिंदियतिरियनपुंसएहिंतो असंखेज्जगुणहीणा वाणमंतरा पढिजंति, तम्हा विक्खंभसूईवि तेहिंतो असंखेज्जगुणहीणा चैव भाणियव्वा' इति, सम्प्रति प्रतिभाग उच्यतेप्रतिभागो नाम खण्डं, 'संखेज्जजोयणसयवग्गपलिभागो पयरस्स' इति सङ्घयेयोजनशतवर्गप्रमाणः प्रतिभागः प्रतरस्य पूरणे अपहरणे वा इति वाक्यशेषः, इयमत्र भावना - असङ्खयेययोजनशतवर्गप्रमाणे श्रेणिखण्डे यदि एकैको व्यन्तरः स्थाप्यते ततस्ते सकलमपि प्रतरमापूयन्ति, यदिवा यद्येकैकव्यनतरापहारे एकैकं सङ्घयेययोजनशतवर्गप्रमाणं श्रेणिखण्डमपह्यिते तत एकत्र व्यन्तरा निष्ठां यान्ति परतः सकलं प्रतरमिति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत् । ज्योतिष्काणामौदारिकाणि नैरयिकवत्, वैक्रियाणि बद्धान्यसङ्घयेयानि, तत्र कालतो मार्गणायां प्रतिसमयमेकैकापहारे सामस्त्येनासङ्घयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपह्रियन्ते, क्षेत्रतोऽसङ्घयेयाः श्रेणयः, ताश्च श्रेणयः प्रतरासङ्घयेयभागप्रमिताः, तथा चाह - 'जोइसियाणं एवं चेव' इति, नवरमित्यादिना विशेषं दर्शयति, नवरं तासां श्रेणीनां विष्कम्भसूचिर्वक्तव्येति शेषः, इयमपि सुप्रसिद्धात्वान्नोक्ता, कथमियं सुप्रसिद्धेति चेत् ?, उच्यते यस्मान्महादण्डके व्यन्तरेभ्यो ज्योतिष्काः सङ्घयेयगुणा उक्तास्तत एतेषां विष्कम्भसूचिरपि तेषां विष्कम्भसूचेः सङ्खयेययगुणा द्रष्टव्या, तथा चाह मूलटीकाकाकरः - 'जम्हा वाणमंतरेहिंतो जोइसिया संखिज्जगुणा पढिज्जंति, तम्हा विक्खंभसूईवि तेसिं तेहिंतो संखेज्जगुणा चेव भवति', इति नवरं प्रतिभागे स्पष्टतरो विशेषस्तमेवाह - 'बिछप्पन्नं गुलसयवग्गपलिभागो पयरस्स' इति षट्पञ्चादशधिकशतयाङ्गुलवर्गप्रमाणः प्रतिभागः प्रतरस्य पूरणेऽपहरणे च, अत्रापीयं भावना-षट्पञ्चादशधिकशतद्वयाङ्गुलवर्गप्रमाणे श्रेणिखण्डे यद्येकैको ज्योतिष्कोऽवस्थाप्यते ततस्ते सकलमपि प्रतरमापरयन्ति, यदिवा यद्यैकैकज्योतिष्कापहारेण एकैकं षट्पञ्चाशदधिकशतद्वयाङ्गुलवर्गदप्रमाणं श्रेणिखण्डमपतेि तत एकत्र ज्योतिष्काः परिसमाप्तिमुपयान्ति अपरत्र सकलं प्रतरमिति, एवं च ज्योतिष्काणां व्यन्तरेभ्यः सङ्घयेयगुणहीनः प्रतिभागः सङ्घयेयगुणाभ्यधिका सूचिः, पञ्चसङ्ग्रहे पुनः षट्पञ्चाशदधिकशतद्वयप्रमाण एव प्रतिभाग उक्तो नतु षट्पञ्चाशदधिकशतद्वयवर्गदप्रमाणः तथा च तद्ग्रन्थः“छप्पन्नदोसयंगुलसूइपएसेहं भाइयं पयरं । जोइसिएहिं हीरइ" इति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि वैक्रियवत्, मुक्तान्यौधिकमुक्तवत् । , वैमानिकानामीदारिकाणि नैरयिकवत्, वैक्रियमाणि बद्धानि असङ्घयेयानि, तत्र कालतो मार्गणा ज्योतिष्कवत्, क्षेत्रतो मार्गणाऽसङ्घयेयाः श्रेणयः, किमुक्तं भवति ? - असङ्घयेयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति, तासां च श्रेणीनां परिमाणां प्रतरस्यासङ्घयेयो भागः, प्रतरासङ्घयेयाभागप्रमिता ग्राह्या इत्यर्थः, तत्र प्रतरासङ्घयेयाभागो नैरयिकादिमार्गणायामपि गृहीतं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy