SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ पदं - १२, उद्देशक:-, द्वारं २८५ सर्वजीवास्तत्त्ववृत्त्या अनन्ता अपि असत्कल्पनया दश सहस्राणि तेषां च दशसहस्राणां वर्गो दश कोट्यः स तैजशरीरराणि च मुक्तान्यसत्कल्पनया दशलक्षप्रमाणानि, ततः सर्वजीवेभ्यः किल शतगुणानीति सर्वजीवेभ्योऽनन्तगुणान्युक्तानि, जीववर्गस्य च शततमे भागे वर्त्तन्ते, ततो जीववर्गस्यानन्तभागमात्राणि । एवं कार्मणशरीराण्यपि बद्धानि मुक्तानि च भावनीयानि, तैजसैः सह समानसङ्ख्यत्वात् उक्तान्यौधिकानि पञ्चानि शरीराणि, सम्प्रति नैरयिकादिविशेषणविशेषितानि चिन्त्यन्ते मू. (४०२) नेरइयाणं भंते! केवतिया ओरालियसरीरा पं० ?, गो० ! दुविहा पं०, तंo - बद्धेलगाय मुक्केलगा य, तत्थ णं जे ते बद्धेल्लगा ते णं नत्थि, तत्थ णं जे ते मुक्केल्लगा ते णं अनंता जहा ओरालियमुक्केलगा तहा भाणियव्वा । नेरइयाणं भंते! केवइया वेउव्वियसरीरा पं० ?, गो० दु०, तं०- बद्धेलगा य मुक्केलगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणिओसप्पिणिहिं अवहीरंति कालतो, खेत्ततो असंखिज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलंबितीयवग्गमूलपडुप्पण्णं अहवणं अंगुलवितीयवग्गमूलधणप्पमाणमेत्ताओ सेढीतो, तत्थ णं जे ते मुक्केललगा ते णं जहा ओरालियस्स मुकेलगा तहा भाणियव्वा । नेरइयाणं भंते! केवइआ आहारगसरीरा पं० ?, गो० ! दु०, तं०- बद्धे० मुके०, एवं जहा ओरालिए बद्धेल्लगा मुक्केल्लया य भणिया तहेव आहारगावि भाणियव्वा, तेयाकम्पगाई जहा एएसिं चेव वेउव्वियाइं । वृ. 'नेरइयाणं भंते!' इत्यादि, नैरयिकाणां बद्धान्यौदारिकशरीराणि न सन्ति, भवप्रत्ययतस्तेषामौदारिकशरीरासम्भवात्, मुक्तान्यौधिकमुक्तौदारिकशरीरवत्, वैक्रियाणि बद्धानियावन्तो नैरयिकास्तावत्प्रमाणानि तानि चासङ्घयेयानि, तदेवासत्येयत्वं कालक्षेत्राभ्यां प्ररूपयति'असंखेजाहिं' इत्यादि, कालतः परिमाणं प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासत्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, किमुक्तं भवति ? - असङ्ख्येयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावठप्रमाणानि, क्षेत्रतोऽसङ्ख्येयाः श्रेणयः, असङ्ख्येयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति भावः, अथ प्रतरेऽपि सकले असत्येयाः श्रेणयो भवन्ति प्रतरस्यार्द्धभागे त्रिभागादौ च ततः कियत्सङ्ख्याकास्ताः श्रेणय इत्याशङ्कायां विशेषनिर्द्धारणार्थमाह-प्रतरस्यासङ्घयेयभागः, किमुक्तं भवति ? - प्रतरस्यासङ्घयेयतमे भागे यावत्यः श्रेणयस्तावत्यः परिगृह्यन्ते, इदमन्यद्विशेषतरपिमाणं- 'तासि णं सेढीणं विक्खंभसूई' इत्यादि, तासां श्रेणीना विष्कम्मतो - विस्तारमधिकृत्य सूचिः - एक प्रादेशिकी श्रेणिर कुलप्रथमवर्गमूलं द्वितीयवर्गमूलगुणितं, इयमत्र भावना - इहप्रज्ञापकेन धनीकृतः सप्तरज्जुप्रमाणो लोकः पट्टिकादौ स्थापनीयः, श्रेणिश्च रेखाकारेण दर्शनीया, दर्शयित्वा चैवं प्रमाणं वक्तव्यं - अङ्गुलप्रमाणमात्रस्य प्रदेशस्य क्षेत्रस्य यावान् प्रदेशराशिस्तस्यासङ्ख्येयानि वर्गमूलानि भवन्ति, तद्यथा - प्रथमं वर्गमूलं तस्यापि यद्वर्गमूलं तद् द्वितीयं वर्गमूलं तस्यापि यद् वर्गमूलं तत् तृतीयं वर्गमूलं एवमसङ्घयेयानि वर्गमूलानि भवन्ति, तत्र प्रथमं यद्वर्गमूलं तद् द्वितीयेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy