SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्र- ५- ३/-/४/२६४ गतमौधिकानामिदमल्पबहुत्वम्, इदानीमेतेषामेवापर्याप्तानामाह - 'एएसि णं भंते! सुहुमअपजत्तगाणं' इत्यादि, सर्वं प्राग्वद्भावनीयम्। सम्प्रत्येतेषामेव पर्याप्तनां तृतीयमल्पबहुत्वमाह‘एएसि णं भंते ! सुहुमपज्जत्तगाणं' इत्यादि, इदमपि प्रागुक्तक्रमेणैव भावनीयं । अधुना अमीषामेव सूक्ष्मादीनां प्रत्येकं पर्याप्तपर्याप्तगृतान्यलप्बहुत्वान्याह 1 'एएसि णं भंते! सुहुमाणं पज्जत्तापजत्ताणं' इत्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असङ्केत्ययगुणाः, एकैकपर्याप्तनिश्रयाऽसङ्केययानामपर्याप्तानामुत्पादात्, तथा चोक्तं प्राक् प्रथमे प्रज्ञापनाख्ये पदे- “पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जतअथ एगो तत्त नियमा असंखेज्जा" इति, सूक्ष्मेषु पुनर्नायं क्रमः पर्याप्ताश्चापर्याप्तापेक्षया चिरकालावस्थायिन इति सदैव ते बहवो लभ्यन्ते, तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ताः, तेभ्यः सूक्ष्माः पर्याप्तकाः सङ्घयेयगुणाः, एवं पृथिवीकायिकादिष्वपि प्रत्येकं भावनीयम् । गतं चतुर्थमल्पबहुत्वम्, इदानीं सर्वेषा समुदितानां पर्याप्तपर्याप्तगतं पञ्चममल्पबहुत्वमाह - 'एएसि णं भंते! सुहुमाणं सुहुमपुढविकाइयाणं' इत्यादि, सर्वस्तोकाः सूक्ष्मतेजः कायिका अपर्याप्ताः, कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मपृथिवीकायिका अपर्याप्ता विशेषाधिकाः तेभ्यः सूक्ष्माप्कायिका अपर्याप्ता विशेषाधिकाः तेभ्यः सूक्ष्मवायुकायिका अपर्याप्ता विशषाधिकाः, अत्रापि कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मतेजः कायिकाः पर्याप्ताः सङ्घयेयगुणाः, अपर्याप्तेभ्यो हि पर्याप्ताःसङ्घयेयगुणा इत्यनन्तरं भावितं, - तत्र सर्वस्तोकाः सूक्ष्मतेजः कायिका अपर्याप्ता उक्ताः इतरे च सूक्ष्मापर्याप्तपृथिवीकायिकादयो विशेषाधिकाः, विशेषाधिकत्वं च मनागधिकत्वं न द्विगुणत्वं न त्रिगुणत्वं वा, ततः सूक्ष्मतेजःकायिकेभ्योऽपर्याप्तिभ्यः पर्याप्ताः सूक्ष्मतेजः कायिकाः सङ्घयेयगुणाः सन्तः सूक्ष्मवायुकायिकापर्याप्तेभ्योऽपि सङ्घत्येयगुणा भवन्ति, तेभ्यः सूक्ष्मपृथिवीकायिकाः पर्याप्ताः विशेषाधिकाः तेभ्यः सूक्ष्माप्कायिकाः पर्याप्ता विशेषाधिकाः तेभ्योऽपि सूक्ष्मवायुकायिकाः पर्याप्ता विशेषाधिकाः तेभ्यः सूक्ष्मनिगोदाः अपर्याप्ता असङ्केत्ययगुणाः, तेषामतिप्राचुर्यात्, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः सङ्घयेयगुणाः, सूक्ष्मेष्वपयप्तिभ्यः पर्याप्तानामोघतः सङ्घयेयगुणत्वात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्तका अनन्तगुणाः प्रतिनिगोदमनन्तानां तेषां भावात्, तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्तकाः सङ्क्षेयगुणाः, सूक्ष्मेषु ह्यपर्याप्तेभ्यः पर्याप्तकाः सङ्घयेयगुणाः, यच्चापान्तराले विशेषाधिकत्वं तदल्पमिति न सङ्घयेयगुणत्वव्याघातः, तेभ्यः सूक्ष्माः पर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानमपि तत्र प्रक्षेपात् । तदेवमुक्तानि सूक्ष्माश्रितानि पञ्च सूत्राणि, सम्प्रति बादराश्रितानि पञ्चोक्तक्रमेणा - भिधित्सुराह मू. (२६५) एएसि णं बंते! बादराणं बादरपुढविकाइयाणं बादर आउकाइयाणं बादरतेउकाइयाणं बादरवाउकाइयाणं बादरवणस्सइकाइयाणं पत्तेयसरीरबादरवणस्सइकाइयाणं बादरनिगोदाणं बादरतसकाइयाणं कयरे कयरेहिंतो अप्पा वा ४ ?, गोयमा ! सव्वत्थोवा बादरतसकाइया बादरतेउकाइया असंखेज्जगुणना पत्तेयसरीरबादरवणस्सइकाइया असंखेज्जगुणा बादरनिगोदा असंखेज्जगुणा बादरा पुढवी० असंखे० बादरा आउकाइया असं० बादरा वाउकाइया Jain Education International For Private & Personal Use Only www.jainelibrary.org १३४
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy