SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ १० प्रज्ञापनाउपाङ्गसूत्र-१-१/-1-1५ मू. (५) अज्झयणमिणं चित्तं सुयरयणं दिट्ठिवायणीसंदं। जह वन्नियं भगवया अहमवि तह वन्नइस्सामि ॥ वृ.अध्ययनमिदं-प्रज्ञापनाख्यम्, ननुयदीदमध्ययनंकमित्यस्यादावनुयोगादिद्वारोपन्यासो न क्रियते?,उच्यते, नायंनियमोयदवश्यमध्ययनादावुपक्रमाद्युपन्यासः क्रियतेइति, अनियमोऽपि कुतोऽवसीयते? इतिचेत्, उच्यते, नन्द्यध्ययनादिपदर्शनात, तथाचित्रार्थाधिकारयुक्तत्वाचित्रम्, श्रुतमेवरत्नंश्रुतरत्नं दृष्टिवादस्य-द्वादशाङ्गस्यनिष्यन्दइव दृष्टिवादनिष्यन्दः, सूत्रेनपुंसकतानिर्देशः प्राकृतत्वात्, यथावर्णितं भगवता–श्रीमन्महावीरवर्धमानस्वामिना इन्द्रभूमिप्रभृतीनामध्ययनार्थस्य वर्णितत्वात् अध्ययनं वर्णितमित्युक्तम्, अहमपि तथा वर्णयिष्यामि।।। आह-कथमस्य छद्मस्थस्य तथा वर्णयितुं शक्तिः?, नैष दोषः, सामान्येनाभिधेयपदार्थवर्णमात्रमधिकृत्यैवमभिधानात्, तथा चाहमपि तथा वर्णयिष्यामीति किमुक्तं भवति ? - तदनुसारेण वर्णयिष्यामि, न स्वमनीषिकयेति।।अस्यांचप्रज्ञापनायां षड्त्रिंशत् पदानि भवन्ति, पदं प्रकरणमर्थाधिकार इति पर्यायः, तानि च पदान्यमूनिमू. (६) पनवणा ठाणाई बहवत्तव्वं ठिई विसेसा य । वक्कंती ऊसासो सन्ना जोणी य चरिमाइं॥ वृ.तत्र प्रथमंपदंप्रज्ञापनाविषयंप्रश्नमधिकृत्य प्रवृत्तत्वात्प्रापना १ एवंद्वितीयंस्थानानि २ तृतीयं बहुवक्तव्यम् ३ चतुर्थं स्थितिः ४ पञ्चमं विशेषाख्यं ५ षष्ठं व्युत्क्रान्तिः, व्युक्रान्तिलक्षणाधिकारयुक्तत्वात ६ सप्तममुच्छ्वासः७ अष्टमं संज्ञा ७ नवमं योनिः ९ दशमं चरमाणि चरमाणीति प्रश्नमुद्दिश्य प्रवृत्तत्वात् १० । मू. (७) भासा सरीर परिणाम कसाए इन्दिए पओगे य। लेसा कायठिई या सम्मत्ते अंतकिरिया य॥ वृ. एकादशं भाषा ११ द्वादशं शरीरं १२ त्रयोदशं परिणामः १३ चतुर्दशं कषायं १४ पञ्चदशमिन्द्रियं १५ षोडशं प्रयोगः १६ सप्तदशं लेश्या १७ अष्टादशं कायस्थितिः १८ एकोनविंशतितमं सम्यकत्वम् १९ विंशतितममन्तक्रिया २०। मू. (८) ओगाहणसण्ठाणा किरिया कम्मे इयावरे । बन्धए वेदे ए वेदस्स बन्धए वेयवेयए॥ वृ. एकविंशतितममवगाहनास्थानं २१ द्वाविंशतितमं क्रिया २२ त्रयोविंशतितमं कर्म २३ चतुर्विंशतितमं कर्मणो बन्धकः, तस्मिन् हि यथाजीवः कर्मणो बन्धको भवति तथा प्ररूप्यते इति तत्तथानाम २४ एवं पञ्चविंशतितमं कर्मवेदकः २५ षड्विंशतितमं वेदस्य बन्धक इति, वेदयते अनुभवतीति वेदस्तस्य बन्धएव बन्धकः, किमुक्तं भवति?-कतिप्रकृतीर्वेदयमानस्य कतिप्रकृ.तीनां बन्धो भवतीति तत्र निरूप्यते ततस्तद्वेदस्य बन्ध इति नाम २६ एवं कां प्रकृति वेदयमानः कति प्रकृतीर्वेदयति इत्यर्थप्रतिपादकं वेदवेदको नाम सप्तविंशतितमम् २७ । आहारे उवओगे पावणया सन्नि सञ्जमे चेव । ओही पवियारण वेदना य तत्तो समुग्धाए॥ वृ. अष्टाविंशतितममाहारप्रतिपादकत्वादाहारः २८ एवमेकोनत्रिंशत्तममुपयोगः २९ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy