________________
१०४
प्रज्ञापनाउपाङ्गसूत्र-१-२/-/-/२१७ अनीयाहिवईणं साणंसाणं आयक्खदेवसाहस्सीणं अन्नेसिंच बहूणं वाणमंतराणं देवाण य देवीण यआहेवच्चंपोरेवचंसामित्तंभट्टित्तंमहत्तरगत्तंआणाईसरसेणावच्चंकारेमाणा पालेमाणामहयाहयनदृगीयवाइयतंतीततालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइंभोगभोगाइं जमाणा विहरंति
वृ.वानमन्तरसूत्रे 'तिसुवि लोगस्सअसंखेज्जइभागे' इति, स्वस्थानोपपातसमुद्घातरूपेषु त्रिष्वपिस्थानेषु लोकस्यासंख्येय(तमे) भागेवक्तव्यानि, तता ‘भुयगवइणो महाकाया महोरगा' किंविशिष्टास्ते? इत्याह-भुजगपतयः गन्धर्वगणाः-गन्धर्वसमुदायाः, किंविशिष्टास्ते? इत्याह'निपुणगन्धर्वगीतरतयः' निपुणाः-परमपकौशलोपेता ये गन्धर्वाः-गन्धर्वजातीयाः देवास्तेषां यद् गीतंतत्र रतिर्येषां तेतथा, एतेव्यन्तराणामष्टौ मूलभेदाः, इमे चान्येऽवान्तरभेदा अष्टौ 'अणपन्निय'इत्यादि, कथंभूता एते षोडशापि? इत्यत आह -
'चंचलचलचवलचित्तकीलणदवप्पिया' चञ्चलाः "-अनवस्थितचित्तास्तथा चलचपलम्अतिशयेनचपलं यकीडनंयश्चचित्तेद्रवः-परिहासः तौप्रियौयेषांतेचलचपलचित्तक्रीडनद्रवप्रियाः ततश्च चञ्चलशब्देन विशेषणसमासः, तथा 'गहिरहसियगीयणचणरई गम्भीरेषुहसितगीतनर्तनेषु रतिर्येषांते तथा, वमणमालामेलमउडकुंडलसच्छंदविउब्वियाभरणचारुभूसणधरा' इतिवनमालामयानियानिआमेलमुकुटकुण्डलानि 'आमेल' इतिआपीडशब्दस्य प्राकृतलक्षणवशात् आपीड:शेखरक;, तथा स्वच्छन्दं विकुर्वितानि यानिआभरणानितैर्यत्चारु भूषणं-भण्डनंतद्धरन्तीति वनमालापीडमुकुटकुण्डलस्वच्छन्दविकुर्विताभरणचारुभूषणधराः,
तथा सर्वर्तुकैः-सर्वर्तुभाविभिः सुरभिकुसुमैः सुरचिता-सुष्ठु निर्वर्तिता तथा प्रलम्बते इति प्रलम्बा शोभते इतिशोभयाना कान्ता-कमनीया विकसन्ती-अमुकुलिता अम्लानपुष्पमयी चित्रानानाप्रकारा वनमालारचिता वक्षसि यैस्ते सर्वर्तुकसुरभिकुसुमसुरचितप्रलम्बशोभमानकान्तविकसच्चित्रवनमालारचितवक्षसः, तथा काम-स्वेच्छयागमो येषांतेकामगमाः-स्वेच्छाचारिणः, क्वचित् 'कामकामा' इतिपाठः, तत्र कामेन-स्वेच्छयाकामो-मैथुनसेवायेषांतेकामकामा अनियतकामा इत्यर्थः, तथा काम-स्वेच्छया रूपं येषांते कामरूपास्तेचतेदेहाश्च कामरूपदेहास्तान् धरन्तीत्येवंशीलाः कामरूपदेहाधारिणः,स्वेच्छाविकुर्वितनानारूपदेहधारिण इत्यर्थः,
तथा नानाविधैर्वर्णे रागो-रक्तता येषां तानि नानाविधवर्णरागाणि वराणि-प्रधानानि चित्राणि-नानाविधानि अद्भुतानि वा चल्ललगानि देशीवचनत्वात् देदीप्यमानानि वस्त्राणि निवसनं-परिघानं येषां ते नानाविधवर्णरागवरवस्त्रचित्रचिल्ललगनिवसनाः, तथा विविधैर्देशीनेपथ्यैर्गृहीतो वेषो यैस्ते विविधदेशीनेपथ्यगृहीतवेषाः, तथा ‘पमुइयकंदप्पकलहकेलिकोलाहलप्पिया' इति कन्दर्पः-कामोद्दीपनं वचनंचेष्टा च कलहो-राटी केलिः-क्रीडा कोलाहलो-बोलः कन्दर्पकलहेलिकोलाहलाः प्रिया येषां ते कन्दर्पकलहकेलिकलाहलप्रियाः,
___ ततः प्रमुदितशब्देन सह विशेषणसमासः, ‘हासबोलबहुला' इति हासबोलौ बहुलौअतिप्रभूतौ येषांतेहासबोलबहुलाः, तथाअसिमुद्गरशक्तिकुन्ता हस्ते येषांते असिमुद्गशक्तिकुन्तहस्ताः, अनेगमणिरयणविहिननिजुत्तचित्तचिंधगया' इति मणयश्च-चन्द्रकान्ताद्या रत्नानिकर्केतनादीनिअनेकैर्मणिरलैर्विविध-नानाप्रकारं नियुक्तानिविचित्राणि नानाप्रकाराणि चिह्नानि गतानि-स्थितानि येषां ते तथा, शेषं सुगमम्।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org