SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०२ प्रज्ञापनाउपाङ्गसूत्रं-१-२/-/-/२०९ मू. (२१०) यू. (२११) छायाला छत्तीसा उत्तरओ हुंति भवणाई ।। चउसट्टी सट्ठी खलु छच्च सहस्साइं असुरवज्जाणं । सामाणिआ उ एए चउग्गुणा आयरक्खा उ ।। चमरे धरणे तह वेणुदेवे हरिकंत अग्गिसीहे य । पुन्ने जलकंते या अमिय विलंबे य घोसे य ॥ मू. (२१२) बलि भूयनंदे वेणुदालि हरिस्सहे अग्गिमानव विसिट्टे । जलपह तहS मियवाहणे पभंजणे य महाघोसे ॥ वृ. 'चउसी सट्टी खलु' इत्यादि, दाक्षिणात्यस्यासुरकुमारेन्द्रस्य सामानिका देवाः चतुःषष्टिसहस्राणि, उत्तराहस्य षष्टिसहस्राणि, असुरवर्जानाम् - असुरकुमारेन्द्रवर्जानां शेषाणां सर्वेषामपि दाक्षिणात्यानामौत्तराहाणां च षट् षट् सहस्राणि प्रत्येकं 'सामाणिआ उ एए' इति एतेऽनन्तरोक्तसंख्यायका देवाः सामानिका ज्ञातव्याः, आत्मरक्षकाः पुनः सर्वत्रापि सामानिकचतुर्गुणाः प्रतिपत्तव्याः इदानीं दाक्षिणात्यानामौत्तराहाणां चासुरकुमारादीनां यथाक्रमिन्द्रादन् निर्दिशति - 'चमरे धरणे' इत्यादि, दाक्षिणात्यानामसुरकुमाराणामधिपतिश्चमरः, नागकुमाराणां धरणः, सुवर्णकुमाराणां वेणुदेवः, विद्युत्कुमाराणां हरिकान्तः, अग्निकुमाराणामग्निसिंहः द्वीपकुमाराणां पूर्णः, उदधिकुमाराणां जलकान्तः, दिक्क माराणाममितः, वायुकुमाराणां वेलम्बः, स्तनितकुमाराणां घोषः । 'बलिभूयानंदे' इत्यादि, उत्तरिदिग्वर्तिनामसुरकुमाराणामिन्द्रो बलिः, नागकुमाराणां भूतानन्दः, सुवर्णकुमाराणां वेणुदालिः, विद्युत्कुमाराणां हरिस्सहः, अग्निकुमाराणामग्निमाणवः, द्वीपकुमाराणां विशिष्टः उदधिकुमाराणां जलप्रभः, दिक्कुमाराणाममितवाहनः, वायुकुमाराणां प्रभञ्जनः स्तनितकुमाराणां महाघोषः ॥ मू. (२१३) उत्तरिल्लाणं जाव विहरंति काला असुरकुमारा नागा उदही य पंडुरा दोवि । वरकणगनिहसगोरा हुंति सुवन्ना दिसा थणिया ।। पू. (२१४) उत्तत्तकणगवन्ना विज्जू अग्गी य होति दीवा य । सामा पियंगुवन्ना वाउकुमारा मुणेयव्वा ॥ वृ. सम्प्रति वर्णसंग्रहार्थमाह- 'काला असुरकुमारा' इत्यादि गाथाद्वयं, असुरकुमाराः सर्वेऽपि कालाः--कृष्णवर्णाः, नागकुमारा उदधिकुमाराश्चैते उभयेऽपि पाण्डुराः - श्वेतवर्णाः, वरं जात्यं यत्कनकं तस्य निघर्षः - कषपट्टके रेखा तद्वद् गौरा भवन्ति सुवर्णकुमारा दिक्कुमाराः स्तनितकुमाराश्च, तथा विद्युत्कुमारा अग्नुकुमारा द्वीपकुमारा भवन्त्युत्तप्तकनकवर्णाः, ईषद्रक्तवर्णा इति भावः, वायुकुमाराः श्यामाः, श्यामत्वमेव स्पष्टयति- प्रियङ्गुवर्णः ॥ मू. (२१५) असुरेसु हुंति रत्ता सिलिंधपुप्फप्पभा य नागदही । आसासगवसणधरा होति सुवन्ना दिसा थणिया ।। नीलाणुरागवसणा विजू अग्गी य हुंति दीवा य । संज्ञाणुरागवसणा वाउकुमारा मुणेयव्वा ॥ मू. (२१६) वृ. सम्प्रति वस्त्रगतवर्णप्रतिपादनार्थमाह-'असुरेसु हंति रत्ता' इत्यादि गाथाद्वयं, असुरेषुअसुरकुमारेषु भवन्ति वस्त्राणि रक्तानि, नागकुमारेषूदधिकुमारेषुच शिलिन्ध्रपुष्पप्रभाणि नीलवर्णा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy