________________
९४
जीवाजीवाभिगमउपाङ्गसूत्रम् २/-/६८ अघःसप्तमपृथिवीनैरयिकनपुंसकाः, तेभ्यः षष्ठपञ्चमचतुर्थतृतीयपृथिवीनैरयिकनपुंसका यथोत्तरमसङ्खयेयगुणाः, द्वितीयपृथिवीनैरयिकनपुंसकेभ्योऽन्तरद्वीपजमनुष्यनपुंसकाअसङ्खयेयगुणाः, एतदसङ्खयेयगुणत्वं संमूर्च्छनजमनुष्यापेक्षं, तेषां नपुंसकत्वादेतावतां च तत्र संमूर्छनसम्भवात्, तेभ्यो देवकुरुत्तरकुर्वकर्मभूमकमनुष्यनपुंसका हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यनपुंसका हैमवतहैरण्यवताकर्मभूमकमनुष्यनपुंसका भरतैरावतकर्मभूमकमनुष्यनपुंसकाः पूर्वविदेहापरविदेहकर्मभूमकमनुष्यनपुंसका यथोत्तरंसद्धयेयगुणाः, स्वस्थानचिन्तायांतुद्वयेऽपि परस्परंतुल्याः।पूर्वविदेहापरविदेहकर्मभूमकमनुष्यनपुंसकेभ्योऽस्यांप्रत्यक्षत उपलभ्यमानायां रत्नप्रभायांपृथिव्यां नैरयिकनपुंसका असङ्ख्येयगुणाः, तेभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असङ्खयेयगुणाः, तेभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका जलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं सङ्खयेयगुणाः, जलचरपञ्चेन्द्रियनपुंसकेभ्यश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, द्वीन्द्रियतिर्यग्योनिकनपुंसकेभ्यतेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका असङ्ख्येयगुणाः, तेभ्यः पृथिव्यम्बुवायुतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, वाय्वेकेन्द्रियतिर्यग्योनिकनपुंसकेभ्यो वनस्पतिकायिकैकेन्द्रियतिर्यग्यनोकनपुंसका अनन्तगुणाः, युक्ति सर्वत्रापि प्रागुक्तानुसारेण स्वयं भावनीया।
सम्प्रति नपुंसकवेदकर्मणो बन्धस्थितिं नपुंसकवेदस्य प्रकारं चाह
मू. (६९) नपुंसकवेदस्स णं भंते ! कम्मस्स केवइयं कालं बंधठिई पन्नत्ता?, गोयमा ! जह० सागरोवमस्स दोन्नि सत्तभागा पलिओवमस्स असंखेजतिभागेण ऊणगा उक्को० वीसं सागरोवमकोडाकोडीओ।
दोण्णि य वाससहस्साइं अबाधा, अबाहूणिया कम्मठिती कम्मनिसेगो । नपुंसकवेदे णं भंते! किंपगारे पण्णत्ते?, गोयमा! महाणगरदाहसमाणे पण्णत्ते समणाउसो!, सेतं नपुंसका।
वृ. 'नपुंसकवेयस्सणंभंते!' कम्मस्स' इत्यादि, प्राग्वद्भावनीयं, नवरंमहानगरदाहसमानमिति सर्वावस्थासु सर्वप्रकारं, मदनदाह इत्यर्थः । सम्प्रत्यष्टावल्पहबहुत्वानि वक्तव्यानि,
तद्यथा-प्रथमं सामान्येन तिर्यकस्त्रपुरुषनपुंसक- प्रतिबद्धम्, एवमेव मनुष्यप्रतिबद्धं द्वितीय, देवस्त्रीपुरषनारकनपुंसकप्रतिबद्धं तृतीयं, सकलसम्मिश्रं चतुर्थं, जलचर्यादिविभागतः पञ्चमं, कर्मभूमिजादिमनुष्यस्त्रयदि विभागतः षष्ठं, भवनवास्या- दिदेव्यादिविभागतः सप्तमं, जलचर्यादिविजातीयव्यक्तिव्यापकमष्टमं । तत्र प्रथममभिधित्सुराह
मू. (७०) एतेसिणं भंते ! इत्थीणं पुरिसाणं नपुंसकाण य कतरेरहितो अप्पा वा ४?, गोयमा! सव्वत्थोवा पुरिसा इत्थीओ संखि० नपुंसका अनंत०।
एतेसिणंभंते! तिरिक्खजोणिइत्थीणंतिरिक्खजोणियपुरिसाणंतिरिक्खजोमियनपुंसकाण यकयरे २ हितोअप्पा वा ४?, गोयमा! सव्वत्थोवा तिरिक्खजोणियपुरिसातिरिक्खजोणिइत्थीओ असंखे० तिरक्खजो० नपुंसगा अनंतगुणा॥
-एतेसिणं भंते ! मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सणपुंसकाण य कयरे २ हिन्तो अप्पा वा ४?, गोयमा! सव्व० मणुस्सपुरिसा मणुस्तित्थीओ संखे० मणुस्सनपुंसका असंखेनगुणा॥
-एतेसिणं भंते ! देवित्थीणं देवपुरिसाणं नेरइयपुंसकाण य कयरे २ हितो अप्पा वा ४?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org