SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः -२, परिकरितप्रव्रज्याप्रतिपत्तिमङ्गीकृत्य जघन्येनान्तर्मुहूर्त तत ऊर्ध्वंमरणादिभावात्, उत्कर्षतो देशोना पूर्वकोटी, संवत्सराष्टकादूर्द्ध प्रतिपद्याजन्मपालनात्, भरतैरावतकर्मकमनुष्यनपुंसकस्य पूर्वविदेहा-परविदेहकर्मभूमकमनुष्यनपुंसकस्यच क्षेत्रधर्मचरणंचप्रतीत्यजघन्यत उत्कर्षतश्चैवमेव वक्तव्यम् । अकर्मभूमकमनुष्यनपुंसकस्य जन्म प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्तम्, अकर्मभूमौ हि मनुष्या नपुंसकाः संमूर्छिमा एव भवन्ति, नगर्भव्युत्क्रान्तिकाः, युगलधर्मिणां नपुंसकत्वाभावात्, संमूर्छिमाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्तायुषः, केवलं जघन्यादुत्कृ मन्तर्मुहूर्त बृहत्तरमवसेयं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वको, संहरणादूर्ध्वमाभरणान्तमवस्थानसम्भवात्, उत्कर्षतोदेशोनताच पूर्वकोटयाग निर्गतस्य संहरणस्भवात्, एवं विशेषचिन्तायां हैमवतहैरण्यवताकर्मभूमकमनुष्यनपुंसकस्य हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यनपुंसकस्य देवकुरुत्तरकुर्वकर्मभूमकमनुष्यनपुंसकस्य अन्तरद्वीपकमनुष्यनपुंसकस्य च जन्म संहरणं च प्रतीत्यैवमेव वक्तव्यम्।। सम्प्रति कायस्थितिमाह-'नपुंसगेणंभंते!' इत्यादि, नपुंसको भदन्त ! नपुंसक इत्यादि, सामान्यतस्तद्वेदापरित्यागेन कालतः कियच्चिरं भवति ?, भगवानाह-गौतम ! जघन्यत एकं समयमुत्कर्षतो वनस्पतिकालं, तत्रैकसमयता उपशमश्रेणिसमाप्तौ सत्यामवेदकत्वे सति उपशमश्रेणीतः प्रतिपततो नपुंसकवेदोदयसमयानन्तरं कस्यचिन्मरणात्, तथा मृतस्य चावश्यं देवोत्पादे पुंवेदोदयभावात्, वनस्पतिकालः-आवलिकासङ्खयेयभागगतसमयराशिप्रमाणासङ्खयेयपुद्गलपरावर्त्तप्रमाणः। नैरयिकनपुंसककायस्थितिचिन्तायां यदेव सामान्यतो विशेषतश्च स्थितिमानं जघन्यत उत्कर्षतश्चोक्तं तदेवावसातव्यं, भवस्थितिव्यतिरेकेण तत्रान्यस्याः कायस्थितेरसम्भवात्। सामान्यतस्तिर्यग्योनिकनपुंसककायस्थितिचिन्तायांजघन्यतोऽन्तर्मुहूर्त, तदनन्तरंमृत्वा गत्यन्तरे वेदान्तरेवा संक्रमात्, उत्कर्षतो वनस्पतिकालः, विशेषचिन्तायामेकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितावपिजघन्यतोऽन्तर्मुहूर्त भावनाप्राग्वत्, उत्कर्षतोवनस्पतिकालो यथोदितरूपः, तत्रापि विशेषचिन्तायां पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तमुहूर्तमुत्कर्षतोऽसङ्खयेकालोऽसङ्घयेयोत्सर्पिण्यवसर्पिणीप्रमाणः, तथा चाह-"उक्कोसेणमसंखेज्जं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओकालतो, खेत्ततो असंखिज्जा लोगा" एवमप्कायिकतेजःकायिकवायुकायिककायस्थितिष्वपि वक्तव्यं, वनस्पतिकायिककायस्थितौ तथा वक्तव्यं, यथा सामान्यत एकेन्द्रियकायस्थितौ । द्वीन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तमुहूर्तमुत्कर्षतः सङ्घयेयः कालः, सच सङ्ग्येयानिवर्षसहस्राणि प्रतिपत्तव्यः। एवं त्रीन्द्रियचतुरिन्द्रियतिर्यग्योनिकनपुंसककायस्थित्योरपि वक्तव्यम् । पञ्चेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौजघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपृथकत्वं, तच्च निरन्तरं सप्तभवान् पूर्वकोट्यायुषो नपुंसकत्वेनानुभवतो वेदितव्यं, तत ऊर्ध्वं त्ववश्यं वेदान्तरे विलक्षणभवान्तरे वा संक्रमात्, एवं जलचरस्थलचरखचरसामान्यतो मनुष्यनुपंसककायस्थितिष्वपि वेदितव्यं, कर्मभूमकमनुष्यनपुंसकायस्थितौ क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त उत्कर्षतः पूर्वकोटीपृथक्त्वं भावनाप्रागिव, धर्माचरणंप्रतीत्य जघन्यत एकंसमयमुत्कर्षतो देशोना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy