SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ५०८ जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/८/३९६ सव्वत्थोवा पढमसमयनेरइया अपढमसमयनेरइया असंखेनगुणा, एतेसि णं भंते ! पढमसमयतिरिजोक्ख० अपढमस०तिरि० जोणि० कतरे०?, गोयमा! सव्वपढमसमयतिरि० अपढमसमयतिरि० जोणि० अनंत०, मणुयदेवअप्पाबहुयं जहा नेरइयाणं। एतेसिणंभंते! पढमस०णेरइ० पढमसतिरिक्खाणंपढमस० मणूसाणंपढमसमयदेवाणं अपढमसमयनेरइ० अपढमसमयतिरिक्खजोणि० अपढमसमयमणूसा० अपढमसमयदेवाणं सिद्धाण य कयरे० २ ? गोयमा ! सव्व० पढमस० मणूसा अपढमस० मणु० असं० पढमसमयनेरइ० असं० पढमसमयदेवा असंखे० पढमसमयतिरिक्खजो० असं० अपढमसमयनेर० असं० अपढमस० देवा असंखे० सिद्धा अणं० अपढमस० तिरि० अनंतगुणा। सेत्तं नवविहा सव्वजीवा पन्नत्ता। वृ. 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण नवविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथाप्रथमसमयनैरयिकाअप्रथमसमयनैरयिकाः प्रथमसमयतिर्यग्योनिकाअप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्या अप्रथमसमयमनुष्याः प्रथमसमयदेवा अप्रथमसमयदेवाः सिद्धाः ॥ कायस्थितचिन्तायांप्रथमसमयनैरयिकस्य कायस्थितिरेकंसमयं,अप्रथमसमयनैरयकस्यजघन्यतो दश वर्षसहस्राणि समयोनानि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि समयोनानि, प्रथमसमयतिर्यग्योनिकस्यैकंसमयं, अप्रथमसमयतिर्यग्योनिकस्यजघन्यतः क्षुल्लकभवग्रहणंसमयनोनमुत्कर्षतो वनस्पतिकालः, प्रथमसमयमनुष्यस्यैकं समयं, अप्रथमसमयस्य जघन्यतः क्षुल्लकभवग्रहणं समयोनमुत्कर्षतः पूर्वकोटीपृथक्त्वाभ्यधिकानि त्रीणिपल्योपमानि, देवायथानैरयिकाः, सिद्धाः साधपर्यवसिताः। अन्तरचिन्तायांप्रथमसमयनैरयिकस्य जघन्यमन्तरंदशवर्षसहस्राणिअन्तर्मुहूर्ताभ्यधिकानि, उत्कर्षतो वनस्पतिकालः, अप्रथमसमयनैरयिकस्य जघन्यतोऽन्तरंमन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः, प्रथमसमयतिर्यग्योनिकस्य जघन्यतो द्वे क्षुल्लकभवग्रहणे समयोने उत्कर्षतो वनस्पतिकालः, अप्रथमसमयतिर्यग्योनिकस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकं उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, प्रथमसमयमनुष्यस्य जघन्यतो द्वे क्षुल्लकभवग्रहणे समयोने उत्कर्षतो वनस्पतिकालः, अप्रथमसमयमनुष्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकमुत्कर्षतो वनस्पतिकालः, प्रथमसमयदेवस्यजघन्यतो दशवर्षसहस्राणिअन्तर्मुहूर्ताभ्यधिकानि उत्कर्षतो वनस्पतिकालः, अप्रथमसमयदेवस् जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः, सिद्धस्य साद्यपर्यव सितस्य नास्त्यन्तरं। सम्प्रत्यल्पबहुत्वचिन्ता, तत्राल्पबहुत्वान्यत्र चत्वारि, तद्यथा-प्रथमं प्रथमसमयनैरयिकादीनां, द्वितीयप्रथमसमयनैरयिकादीनां, तृतीयंप्रथमाप्रथमसमयनैरयिकादीनांप्रत्येकं, चतुर्थं सर्वसमुदायेन, तत्र प्रथममिदम्-सर्वस्तोकाः प्रथमसमयमनुष्याः, तेभ्यः प्रथमसमयनैरयिका असङ्खयेयगुणाः, तेभ्यः प्रथमसमयदेवा असहखयेयगुणाः, तेभ्यः प्रथमसमयतिर्यग्योनिका असङ्खयेयगुणाः, नारकादिशेषगतितरयादागतानामेवप्रथमसमये वर्तमानानांप्रथमसमयतिर्यग्योनिकत्वात्। द्वितीयमेवम्-सर्वस्तोका अप्रथमसमयमनुष्याः, तेभ्योऽप्रथमसमयनैरयिका असङ्खयेयगुणाः, तेभ्योऽप्रथमसमयदेवा असङ्ख्येयगुणाः, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy