________________
४९२
जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/२/३७८ उत्सर्पिण्यवसर्पिएयः कालतः क्षेत्रतोऽङ्गुलस्यासङ्खयेयोभागः, बादरकालस्यजघन्यत उत्कर्षतश्चैतावप्रमाणत्वात् । बादरस्यान्तरं जघन्येनान्तर्मुहूर्त उत्कर्षतोऽसङ्खयेयं कालं, असङ्ख्येया उत्सपिण्यवसर्पिण्य कालतः क्षेत्रतोऽसङ्ख्येयालोकाः, सूक्ष्मस्य जघन्यत उत्कर्षतश्चैतावत्कालप्रमाणत्वात्, नोसूक्ष्मनोबादरस्य साद्यपर्यवसितस्य, हेतौ षष्ठी, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात्, ततोऽयमर्थ-साधपर्यवसितत्वान्नास्त्यन्तरमन्यथाऽपर्यवसितत्वायोगात्।अल्पबहुत्वचिन्तायांसर्वस्तोकानोसूक्ष्मानोबादराः, सिद्धानामल्पत्वात्, तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽप्यनन्तत्वात्, तेभ्यः सूक्ष्मा असङ्खयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्ख्यातगुणत्वात् ॥
___ मू. (३७९) अहवा तिविहा सव्वजीव्वा पन्नता, तंजहा-सन्नी असन्नी नोसन्नीनोअसन्नी, सन्नी भंते ! कालओ० ?, जह० अंतो० उक्को० सागरोवमसतपुहुत्तं सातिरेगं, असन्नी जह० अंतो० उक्को० वणस्सतिकालो, नोसन्नीनोअसन्नी साइए अपज्जवसिते।
सन्निस्स अंतरं जह० अंतो० उक्को० वणस्सतिकालो, असन्निस्स अंतरं जह० अंतो० उक्को० सागरोवमसयपुहत्तं सातिरेगं, ततियस्स नत्थि अंतरं । अप्पाबहू० सव्वत्थोवा सण्णी नोसन्नीनोअसन्नी अनंतगुणा असन्नी अनंतगुणा ॥
वृ. 'अहवा तिविहा' इत्यादि, अथवा प्रकारान्तरेण त्रिप्रकाराः सर्वजीवाःप्रज्ञप्तास्तद्यथासंज्ञिनोऽसंज्ञिनो नोसंज्ञिनोऽसंज्ञिनश्च, तत्र संज्ञिनः-समनस्काः असंज्ञिनः- अमनस्काः उभयप्रतिषेधवर्तिनः सिद्धाः। कायस्थितिचिन्तायां संज्ञिनोजघन्येनान्तर्मुहूर्त, ततऊर्द्धभूयोऽपि कस्यचिद्संज्ञिषुगमनात्, उत्कर्षतः सागरोपमशतपृथक्त्वंसातिरेकं, ततऊर्ध्वं वश्यंसंसारिणः सतोऽसंज्ञिषुगमनात, असंज्ञिनोजघन्यतोऽन्तर्मुहूर्त, ततऊर्ध्वं कस्यापिपुनरपि संज्ञिषुगमनात्, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः, स चैवं-अनन्ता उत्सपिण्यवसर्पिण्यःकालतः,क्षेत्रतोऽनन्तालोकाः,असङ्ख्येयाः पुद्गलपरावर्ताः,तेचपुद्गलपरावर्त्ता आवलिकाया असङ्खयेयो भागः, उभयप्रतिषेधवर्ती सिद्धः, सच साद्यपर्यवसितः।
अन्तरचिन्तायां संज्ञिनोऽन्तरंजघन्येनान्तर्मुहूर्त उत्कर्षतोऽनन्तं कालं, सचानन्तकालो वनस्पतिकालः, असञिकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात्, असंज्ञिनोऽन्तरं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्त्वं, संज्ञिकालस्य जघन्यत उत्कर्षतश्चैतावप्रमाणत्वात्, नोसंज्ञिनोनोअसंज्ञिनः साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायांसर्वस्तोकाः संज्ञिनो, देवनारकगर्भव्युक्रन्तिकतिर्यग्मनुष्याणामेव संज्ञित्वात्, तेभ्य उभयप्रतिषेधवर्तिनोऽनन्तगुणाः, वनस्पतिवर्जशेषजीवेभ्यः सिद्धानामनन्त-गुणात्वात्। तेभ्योऽसंज्ञिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात्॥
मू. (३८०) अहवा तिविहा सव्वजीवा पन्नत्ता, तंजहा-भवसिद्धिया अभवसिद्धिया नोभवसिद्धियानोअभवसिद्धिया, अनाइया सपज्जवसिया भवसिद्धिया, अनाइयाअपञ्जवसिया अभवसिद्धिया, साई अपज्जवसिया नोभवसिद्धियानोअभवसिद्धिया।
तिण्हंपि नत्थि अंतरं । अप्पाबहु० सव्वत्थोवा अभवसिद्धिया नोभवसिद्धीयानोअभव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org