SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - सर्व०, प्रतिपत्तिः १ ४८५ उत्कर्षतोऽसङ्घयेयं कालं यावदङ्गुलस्यासङ्ख्येयो भागः, यावानेव हि छद्मस्याहारकस्य कालस्तावनिव छद्मस्थानाहारकस्यान्तरं, छद्मस्थाहारकस्य च जघन्यतः कालोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्घयेया उत्सर्पिण्यवसर्पिण्यःकालतः, क्षेत्रतोऽङ्गुलस्यासङ्गयेयो भागः, एतावन्तं कालं सततमविग्रहेणोत्पादसम्भवात्, ततश्छद्मस्थानाहारकस्य जघन्यत उत्कर्षतश्चैतावदन्तरमिति । अथ स्थाने २ क्षुल्लकभवग्रहणमित्युक्तं तत्र क्षुल्लकभवग्रहणमिति कः शब्दार्थ ? उच्यते, क्षुल्लं लघु स्तोकमित्येकोऽर्थ क्षुल्लमेव क्षुल्लकं- एकायुष्कसंवेदनकालो भवस्तस्य ग्रहणं - संबन्धनं भवग्रहणं, क्षुल्लकं च तद् भवग्रहणं च क्षुल्लकभवग्रहणं, तच्चावलिकातश्चिन्त्यमानं षट्पञ्चाशदधिकमावलिकाशतद्वयं, अथैकस्मिन् आनप्राणे कियन्ति क्षुल्लकभवग्रहणानि भवन्ति ?, उच्यते, किञ्चित्समधिकानि सप्तदश, कथमिति चेदुच्यते-इह मुहूर्तमध्ये सर्वसत्यया पञ्चषष्टि सहस्राणि पञ्चे शतानि षट्त्रिंशानि क्षुल्लकभवग्रहणानां भवन्ति, यत उक्तं चूर्णौ || 9 || “पन्नट्ठिसहस्साइं पंचेव सया हवंति छत्तीसा । खुड्डागभवग्गहणा हवंति अंतोमुहुत्तंमि ।।" - आनप्राणाश्च मुहूर्त्ते त्रीणि सहस्रणि सप्त शतानि त्रिसप्तत्यधिकानि, 119 11 " तिनि सहस्सा सत्त य सयाइं तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अनंतनाणीहिं ॥" ततोऽत्र त्रैराशिककर्म्मावतारः, यदि त्रिसप्तत्यधिकसप्तशतोत्तरैस्त्रभिः सहस्ररुच्छ्वासानां पञ्चषष्टि सहस्राणि पञ्च शतानि षटत्रिंशानि क्षुल्लकभवग्रहणानां भवनति तत एकेनोच्छ्वासेन किं लभामहे ?, अत्रान्त्यराशिना एककलक्षणेन मध्यराशेर्गुणनाज्जातः सतावानेव, 'एकेन गुणितं तदेव भवती 'ति न्यायात्, तत आद्येन राशिना भागहरणं, लब्धाः सप्तदश क्षुल्लकभवाः, शेषात्स्वंशास्तिष्ठन्ति तत्र त्रयोदश शतानि पञ्चनवत्यधिकानि, उक्तञ्च - 119 11 "सत्तरस भवग्गहणा खुड्डाणं भवंति आणुपाणुमि । तेरस चेव सयाइं पंचाणइ चेव अंसाणं ।। " उक्तश्च अथैतावद्भिरंशैः कियत्य आवलिका लभ्यन्ते ?, उच्यते, समधिकचतुर्नवति, तथाहिषट्पञ्चाशदधिकेन शतद्वयेनालिकानां त्रयोदश शतानि पञ्चनवतानि गुण्यन्ते, जातानि त्रीणि लक्षाणि सप्तपञ्चाशत्सहस्राणि शतमेकं विंशत्यधिकं, छेदराशिः स एव ३७७६, लब्धा चतुर्नवतिरावलिकाः, शेषास्त्वंशा आवलिकायास्तिष्ठन्ति चतुर्विंशति शतानि अष्टपञ्चाशानि, छेदः स एव, एवं यदा एकस्मिन्नानप्राणे आवंलिकाः सङ्ख्यातुमिष्यन्ते तदा सप्तदश द्वाभ्यां षट्पञ्चाशदधिकाभ्यां शताभ्यां गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुर्नवतिरावलिकाः प्रक्षिप्यन्ते, तत आवलिकानां चतुश्चत्वारिंशत् शतानि षट्चत्वारिंशानि भवन्ति, उक्तञ्च - 119 11 “अक्को उ आणुपाणू चोयालीसं सया उ छायाला । आवलियपमाणेणं अनंतनाणीहिं निहिडो ॥ " यदि पुनर्मुहूर्तेते आवलिकाः सङ्घयातुमिष्यन्ते तत एतान्येव चतुश्चत्वारिंशच्छतानि त्रिसप्तत्यधिकानि भवन्तीति सप्तत्रिंच्छशतैस्त्रिसप्तत्यधिकैर्गुण्यन्ते, जाता एका कोटी सप्तषष्टि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy