SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४७६ जीवाजीवाभिगमउपाङ्गसूत्रम् ९/-३६८ रोपमाणि समयोनानि, समयोनता सर्वत्रापि प्रथमसमयेन हीना प्रतिपत्तव्या। साम्प्रतमेतेषांक्रमेण कायस्थितिमाह-'पढमसमये' इत्यादि, प्रथमसमयैकेन्द्रियो भदन्त प्रथमसमयैकेन्द्रिय इति-प्रथमसमयैकेन्द्रियत्वेन कालतः ‘कियच्चिर' कियन्तं कालं यावद्भवति?, भगवानाह-गौतम! एकं समयंतत ऊर्ध्वप्रथमसमयत्वायोगात्, एवं प्रथमसमयद्वीन्द्रियादिष्वपि वाच्यं । अप्रथमसमयैकेन्द्रियसूतरे जघन्यतः क्षुल्लकभवग्रहणं समयोनं, तत ऊर्ध्वमन्यत्र कस्याप्युत्पादात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सपिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाअसङ्खयेयाः पुद्गलापरावत्ताः, तेचपुद्गलपरावर्ताआवलिकायाअसङ्ख्येयो भागः, एतावन्तं कालं वनस्पतिष्ववस्थानसंभवात् । अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं तथैव, उत्कर्षतः सङ्खयेयं कालं, तत ऊर्ध्वंमवश्यमुद्वर्त्तनाद्, एवमप्रथमसमयत्रिचतुरिन्द्रियसूत्रे अपि वक्तव्ये, अप्रथमसमयपञ्चेन्द्रियसूत्रे जघन्यं तथैव, उत्कर्षतः सातिरेकं सागरोपमसहस्रं, देवादिभवभ्रमणस्य सातत्येनोत्कर्षतोऽप्येतावत्कालप्रमाणत्वात् । साम्प्रतमन्तरं चिचिन्तयिरुषाराह-'पढमसमये'त्यादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! अन्तरंकालतः कियच्चिरं भवति?, भगवानाह-गौतम! जघन्यतो द्वे क्षुल्लकभवग्रहणे समयोने, तेच क्षुल्लकभवग्रहणे द्वीन्द्रियादिभवग्रहणव्यवधानतः पुनरेकेन्द्रियेष्वेवोत्पद्यमानस्यावसातव्ये, तथाहि-एकं प्रथमसमयोनमेकेन्द्रियक्षुल्लकभवग्रहणेव, द्वितीयं संपूर्णमेव द्वीन्द्रियाद्यन्यतमक्षुल्लकभवग्रहणमिति, उत्कर्षतो वनस्पतिकालः, स चानन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्तालोकाःअसङ्खयेयाः पुद्गलपरावर्ताः, तेच पुद्गलपरावर्ताआवलिकायाअसङ्ख्येयो भागइत्येवंस्वरूपः, तथाहि-एतावन्तंहि कालंसोऽप्रथमसमयोनतु प्रथमसमयः, ततो द्वीन्द्रियादिषु क्षुल्लकनवग्रहणवस्थायैकेन्द्रियत्वेनोत्पद्यमानः प्रथमे समये प्रथमसमय इति भवत्युत्कर्षतो वनस्पतिकालोऽन्तरं, अप्रथमसमयैकेन्द्रियस्य जघन्यमन्तरं क्षुल्लकभवग्रहणं समयाधिकं । -तच्चैकेन्द्रियभवगतचरमसमयस्याप्यप्रथमसमयत्वात्तत्र मृतस्य द्वीन्दरियादिक्षुल्लकभवग्रहणेन व्यवधाने सति भूय एकेन्द्रियत्वेनोत्पन्नस्य प्रथमसमयातिक्रमे वेदितव्यं, एतावन्तं कालमप्रथमसमयान्तरभावात्, उत्कर्षतो वे सागरोपमसहस्रेसङ्घयेयवर्षाभ्यधिके, द्वीन्द्रियादिभवभ्रमणस्योत्कर्षतोऽपि सातत्येनैतावन्तं कालं सम्भवात्, प्रथमसमयद्वीन्द्रियस्य जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, तद्यथा-एकं द्वीन्द्रियक्षुल्लकभवग्रहणमेव प्रथमसमयोनं, द्वितीयं सम्पूर्णमेवैकेन्द्रियत्रीन्द्रियाद्यन्यतमक्षुल्लकभवग्रहणं, (मिति, एवं प्रथमसमयत्रिचतुष्पञ्चेन्द्रियाणामप्यन्तरं वेदितव्यं, अप्रथमसमयद्वीन्द्रियस्य जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिक तच्चैकेन्द्रियादिषु) एवं प्रथमसमयत्रीन्द्रिय क्षुल्लकभवं स्थित्वा भूयो द्वीन्द्रियत्वेनोत्पन्नस्य प्थमसमयातिक्रमे वेदितव्यं, उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्तालोका असङ्खयेयाः पुद्गलपरावर्ताः, तेच पुद्गलपरावर्ताआवलिकायाअसङ्खयेयो भागः, एतावांश्च द्वीन्द्रियभवादुद्धत्यैतावन्तं कालं वनस्पतिषुस्थित्वा भूयो द्वीन्द्रियत्वेनोत्पन्नस्य प्रथमसमयातिक्रमे भावनीयः, एवमप्रथमसमयत्रिचतुष्पञ्चेन्द्रियाणामपि जघन्यमुत्कृष्टं चान्तरं वक्तव्यं, भावनाप्येतदनुसारेण स्वयं भावनीया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy