SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-३६४ पजत्ता पदेसट्टयाए अनतगुणा। बायरनिओया अपजत्ता पएस० असंखेजगुणा जाव सुहुमनिओया पज्जत्ता पएसट्टयाए संखेजगुणा, दवट्ठपएसट्टयाए सव्वत्थोवाबायरनिओयापज्जत्तादब्वट्ठयाएबायरनिओदाअपजत्ता दव्वट्टयाए असंखेजगुणा जावसुहुमनिगोदा पजत्ता, दवट्टयाए संखेजगुणा सुहुमनिओदाहिंतो दवट्ठयाए बायरनिओदजीवा पज्जत्ता दव्वट्ठयाए अनंतगुणा सेसा तहेव जाव सुहुमनिगोदजीवा पजत्तगा दव्वट्टयाए संखेजगुणा सुहमनिओयजीवेहिंतो पजत्तएहितो पजत्तएहितो दव्वट्ठयाए बायरनिओयजीवा पजत्ता पदेसट्टयाए असंखेजगुणा सेसा तहेव जाव सुहुमनिओया पजत्ता पएसट्टयाए संखेजगुणा । सेत्तं छब्बिहासंसारसमावण्णगा। वृ.'निगोदाण'मित्यादि, 'निगोदाः' जीवाश्रयविशेषाभदन्त ! 'द्रव्यार्थतया द्रव्यरूपतया किं सङ्ख्येया असङ्ख्येया अनन्ताः?, भगवानाह-गौतम! नो सङ्ख्येयाः, अङ्गुलासङ्घयेयभागावगाहनानां तेषां सर्वलोकापन्नत्वात्, किन्त्वसङ्येयाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, नाप्यनन्तास्तथाकेवलवेदसाऽनुपलम्भात्। एवमपर्याप्तसामान्यनिगोदसूत्रंपर्याप्त सामान्यनिगोदसूत्रं च भावनीयम् । यथाच सामान्यनिगोदविषयं सूत्रत्रयमुक्तम् एवं सूक्ष्मनिगोदविषयमपि सूत्रत्रयं बादरनिगोदविषयमपि सूत्रत्रयं पृथग् वक्तव्यं, भावना च पूर्वानुसारेण स्वयं विधेया। सम्प्रति द्रव्यार्थतया (निगोदजीवा) सङ्ख्यां पिपृच्छिपुराह-'निगोयजीवा णं भंते ! दवट्ठयाए' इत्यादिप्रश्नसूत्रंसुगमं, भगवानाह-गौतम! नो सङ्ख्येयानाप्यसङ्खयेयाः किन्त्वनन्ताः प्रतिनिगोदमनन्तानां निगोदद्रव्यजीवानांभावात्। एवमपर्याप्तसूत्रं पर्याप्तसूत्रंचवक्तव्यं सर्वसङ्ख्ययानव सूत्रामि। एवमेवप्रदेशार्थत विषयाण्यपिन सूत्राणि नानात्वाभावात्, भावनाच सर्वत्रापि सुप्रतीता, ये किल द्रव्यार्थतयाऽनन्तास्ते प्रदेशार्थतया सुतरामनन्ताः प्रतिद्रव्यमसङ्ख्यातानां प्रदेशानां भावात्, सर्वसङ्ख्यया चामून्यष्टादश सूत्राणि]। तदेवं द्रव्यार्थविषयाणि न व सूत्राण्यक्तानि सम्प्रति प्रदेशार्थताविषयाणि नव सूत्राणि विवक्षु प्रथमतः सामान्यतो निगोदविषयं सूत्रत्रयमाह-'निगोयाणं भंते ! पएसट्टयाए इत्यादि, 'निगोदाः' उक्तस्वरूपाणमिति वाक्यालङ्कारे भदन्त! 'प्रदेशार्थतया' प्रदेशरूपतया चिन्त्यमानाः किंसङ्ख्येयाअसङ्खयेयाअनन्ताः?, भगवानाह-गौतम! नोसङ्ख्येयानो असङ्खयेयाः किन्त्वनन्ताः, एकैकस्मिन् निगोदे प्रदेशानामनन्तत्वात्, एवं शेषाण्यष्टौ सूत्राणि पूर्वक्रमेण भावनीयानि। सम्प्रत्येतेषामेव सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदानां द्रव्यार्थप्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह-एएसिणं भंते! निगोदाण'मित्यादि प्रश्नसूत्रसुगम, भगवानाह-गौ! सर्वस्तोका बादरनिगोदामूलकन्दादिगताः पर्याप्तका द्रव्यार्थतया, प्रतिनियतक्षत्रवात्तत्वात्, तेभ्यो बादरनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसङ्घयेयगुणाः, एकैकपर्याप्तबादरिगोदनिश्रयाऽसङ्ख्येयानामपर्याप्तानां बादरनिगोदानामुत्पादात्, तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसङ्खयेयगुणाः, सकललोकापन्नतया क्षेत्रस्यासङ्खयेयगुणत्वात्, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया सङ्ख्येयगुणाः, सूक्ष्मेष्बोधतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्घयेयगुणत्वात्, ‘पएसट्ठयाए' इतिअतऊर्ध्वं प्रदेशार्थतया चिन्ता क्रियते, तामेव करोति-सर्वस्तोका बादरनिगोदाः पर्याप्ताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy