SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४४६ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/वै०-२/३४२ भगवानाह-गौतम ! 'जा चेव भवईि सा चेव संचिट्ठणावि' यैव भवस्थिति सैव 'संचिट्ठणावि' कायस्थितिरपि, नैरयिकस्याव्यवधाने भूयो नैरयिकेषूत्पादाभावात्, ‘नो नेरइएनेरइएसुउववज' इति वचनात्, 'तिरिक्खजोणिएणं भंते!' इत्यादि प्रश्नसूत्रप्राग्वत्, गौतम! जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृत्वा मनुष्यादावुत्पादात्, उत्कर्षतोऽनन्तं कालं, वनस्पतिकायिकेष्वनन्तकालमवस्थानात्, तमेवानन्तकालं निरूपयति-वनस्पतिकालः, यावान् शास्त्रान्तरे वनस्पतिकाल उक्तस्तावन्तं कालमित्यर्थः, स चैवम्-'अनंताओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो अनंता लोगा असंखेजा पुग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइभागो' सुगमम्, मनुष्यविषयंप्रश्नसूत्रं पाठसिद्धं, निर्वचनं-गौतम! जघन्येनान्तर्मुहूर्त, तदनन्तरंमृत्वा तिर्यगा-दिषूत्पादभावादिति, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च महाविदेहादिषु सप्तसु मनुष्यभवेषु पूर्वकोटयायुष्केषु अष्टमे च देवकुर्वादिषूत्पद्यमानस्य वेदितव्यानिदेवानांतुनैरयिकवयैव भवस्थिति सैव कायस्थितिरपि, देवानामपिमृत्वा भूयोऽनन्तरं देवत्वेनोत्पादाभावत् “नो देवे देवेतु उववजई" इति वचनात्। ___ साम्प्रतमन्तरं चिचिन्तयिषुराह-'नेरइयस्स णं भंते' ! इत्यादि, नैरयिकस्य भदन्त ! अनन्तरं-नैरयिकत्वात्परिभ्रष्टस्य भूयो नैरयिकत्वप्राप्तेरपान्तरालं कालतः कियच्चिरं भवति?, कियन्तं कालं यावद्भवतीत्यर्थः, भगवानाह-जघन्येनान्तर्मुहूर्त, कथमिति चेत्, उच्यते, नरकादुद्ध त्य मनुष्यभवे तिर्यग्भवे वाऽन्तर्मुहूर्त स्थित्वा भूयो नरकेषूत्पादात्, तत्र मनुष्यभवभावनेयम्-कश्चिन्नरकादुद्धृत्य गर्भजमनुष्यत्वेनोत्पद्य सर्वाभिः पर्याप्तिभिः पर्याप्तो विशिष्टसंज्ञानोपेतो वैक्रियलब्धिमान् राज्याद्याकाङ्क्षी परचक्रधुपद्रवमाकर्ण्य स्वशक्तिप्रभावतश्चतुरङ्गं सैन्यं विकुर्वित्वा सङ्ग्रामयित्वा च महारौद्रध्यानोपगतो गर्भस्थ एव कालं करोति कृत्वा च कालं भूयो नरकेषूत्पद्यते तत एवमन्तर्मुहूर्त, तिर्यग्भवे नरकादुद्धृतो गर्भव्युत्क्रान्तिकतन्दुलमत्स्यत्वेनोत्पद्य महारौद्रध्यानोपगतोऽन्तर्मुहूर्त जीवित्वा भूयो नरकेषु जात इति, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः परम्परया वनस्पतिषूत्वादादवसातव्यः, तथा चाहवनस्पतिकालः, सच प्रागेवोक्तः । तिर्यग्योनिविषयंप्रश्नसूत्रपूर्ववत्, निर्वचनं जघन्येनान्तर्मुहूर्त, तच्च कस्यापिदिर्यकचेन मृत्वा मनुष्यभवेऽन्तर्मुहूर्त स्थित्वा भूयस्तिर्यक्त्वेनोत्पद्यमानस्य द्रष्टव्यं, उत्कर्षतः सातिरेक सागरोपमशतपृथक्त्वं, तच्च नैरन्तर्येण देवनारकमनुष्यभवभ्रमणेनावसातव्यं । ___मनुष्यविषयमपि प्रश्नसूत्रं तथैव, निर्वचनं-जघन्येनान्तर्मुहूर्त, तच्च मनुष्यभवादुद्धृ त्य तिर्यग्भवेऽन्तर्मुहूर्त स्थित्वा भूयो मनुष्यत्वेनोत्पद्यमानस्यावसातव्यं, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालःप्रागुक्तोवनस्पतिकालः। देवविषयमपिप्रश्नसूत्रसुगम, निर्वचनंजघन्येनान्तर्मुहूर्त, कश्चिदेवभवाच्युत्वा गर्भजमनुष्यत्वेनोत्पद्य सर्वाभिः पर्याप्तिभिः पर्याप्तो विशिष्टसंज्ञानोपेतस्तथाविधस्य श्रमणस्य श्रमणोपासकस्य वाऽन्ते धर्म्यमार्यं वचः श्रुत्वा धर्मध्यानोपगतो गर्भस्थ एव कालं करोति कालं च कृत्वा देवेषुत्पद्यते तत एवमन्तर्मुहूर्त, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो यथोक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy