SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४४० जीवाजीवाभिगमउपाङ्गसूत्रम् ३/वै०-२/३३२ स्पर्शेन प्रज्ञप्तानि, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनां देवानां शरीरकाणि । साम्प्रतमुच्छ्वासप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्देवानां कीशाः पुद्गला उच्छ्वासतया परिणमन्ति?, भगवानाह-गौतम ! ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा मनआपा एतेषां व्याख्यानं प्राग्वत् ते तेषामुच्छासतयापरिणमन्ति, एवंतावद्वाच्यं यावदनुत्तरोपपातिका देवाः । एवमाहारसूत्राण्यपि । सम्प्रति लेश्याप्रतिपादनार्थमाह'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्देवानां कति लेश्याः प्रज्ञप्ताः?, भगवानाह-गौतम ! एका तेजोलेश्या, इदंप्राचुर्यमङ्गीकृत्यप्रोच्यते, यावतापुनः कथञ्चित्तथाविधद्रव्य-सम्पर्कतोऽन्याऽपि लेश्या यथासम्भवं प्रतिपत्तव्या, सनत्कुमार- माहेन्द्रविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! एका पद्मलेश्या प्रज्ञप्ता, एवं ब्रह्मलोकेऽपि, लान्तके प्रश्नसूत्रं सुगम, निर्वचनं-गौतम! एका शुक्ललेश्या प्रज्ञप्ता, एवं यावदनुत्तरोपपातिका देवाः, उक्तञ्च॥१॥ "किण्हानीलाकाउतेऊलेसा य भवणवंतरिया। जोइससोहम्मीसाण तेउलेसा मुणेयव्वा ।। ॥२॥ कप्पे सणंकुमारे माहिदे चेव बंभलोए य। एएसु पम्हलेसा तेण परं सुक्ललेसा उ॥ सम्प्रति दर्शनं चिचिन्तयिषुराह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा णमिति वाक्यालङ्कारे किं सम्यग्दृष्टयो मिथ्याध्ष्टयः सम्यग्मिथ्यादृष्टयः?, भगवानाह-गौतम ! सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्मिथ्यादृष्टयोऽपि, एवं यावद् ग्रैवेयकदेवाः, अनुत्तरोपपातिनः सम्यग्द्दष्टय एव वक्तव्याः न मिथ्याध्ष्टयो नापि स्यग्मिथ्याद्दष्टयः तेषां तथास्वभावत्वात् । सम्प्रति ज्ञानाज्ञानचिन्तां चिकीर्षुराह . सोहम्मी'त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ज्ञानिनोऽप्यज्ञानिनोऽपि, त्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनस्तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽविधिज्ञानिनः, ये अज्ञानिनस्तेनियमात् त्र्यज्ञानिनस्तद्यथा-मत्यज्ञानिनःश्रुताज्ञानिनोविभङ्गज्ञानिनश्च, एवंतावद्वच्यं यावद्मवेयकाः, अनुत्तरोपपातिनो ज्ञानिन एव वक्तव्याः, योगसूत्राणिपाठसिद्धानि। सम्प्रत्यवधिक्षेत्रपरिमाणप्रतिपादनार्थमाह मू. (३३३) सोहम्मीसाणदेवा ओहिणा केवतियंखेत्तंजाणंति पासंति?, गोयमा! जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं अवही जाव रयणप्पभा पुढवी उड्डे जाव साइं विमाणाई तिरियं जाव असंखेजा दीवसमुद्दा एवंमू. (३३४) सक्कीसाणा पढमं दोचंच सणंकुमारमाहिंदा । तचंच बंभलंतग सुक्कसहस्सारग चउत्थी॥ मू. (३३५) आणयपाणयकप्पे देवा पासंति पंचमिं पुढवीं। तंचेव आरणच्चुय ओहीनाणेण पासंति॥ मू. (३३६) छट्ठी हेट्टममज्झिमगेवेज्जा सत्तमिं च उवरिल्ला । __संभिण्णलोगनालिं पासंति अनुत्तरा देवा ॥ वृ. 'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कियत्क्षेत्रमवधिना जानन्ति ज्ञानेन पश्यन्ति दर्शनेन ?, भगवानाह-गौतम ! जघन्येनाङ्गुलस्यासङ्खयेयभागं, अत्र पर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy