________________
प्रतिपत्तिः - ३, वै० उद्देशकः २
४३३
मू. (३२८) सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा केवइयं उहूं उच्चत्तेणं ?, गोयमा ! पंच जोयणसयाई उड्डुं उच्चत्तेणं । सणंकुमारमाहिंदेसु छजोयणसयाई, बंभलंतएसु सत्त । महासुक्कसहस्सारेसु अट्ठ, आणयपाणएस ४ नव गेवेज्जविमाणाणं भंते! केवइयं उहं उ०, दस जोयणसयाई, अनुत्तरविमाणं एक्कारस जोयणसयाई उहुं उच्चत्तेणं ।
वृ. सम्प्रति विमानानुच्चैस्त्वपरिमाणं प्रतिपिपादयिपुराह - 'सोहम्मीसाणेसुणं भंते!' इत्यादि, इह विमानं महानगरकल्पं तस्य चोपरि वनखण्डप्राकाराः प्रासादादयः, तत्र पूर्वेण सूत्रकदम्बकेन विमानपृथिवीबाहल्यमुक्तं, अनेन प्रासादापेक्षया उच्चत्वमुच्यत इति गर्भः, सौधर्मेशानयोर्भदन्त कल्पयोर्विमानानि कियद् ऊर्ध्वमुच्चैस्त्वेन प्रज्ञप्तानि ?, भगवानाह - गौतम ! पञ्च योजनशतानि ऊर्द्धमुच्चैस्त्वेन प्रज्ञप्तानि मूलप्रासादादीनां तत्र पञ्चयोजनशतोच्छ्रयप्रमाणत्वात् ।
एवं शेषसूत्राण्यपि भावनीयानि, नवरंसनत्कुमारमाहेन्द्रयोः षड्योजनशतानि वक्तव्यानि, ब्रह्मलोकलान्तकयोः सप्त योजनशतानि, महाशुक्रसहस्रारयोरष्टौ योजनशतानि, आनतप्राणतारणाच्युतेषु कल्पेषु नव योजनशतानि, ग्रैवेयकेषु दश योजनशतानि, अनुत्तरेष्वेकादश योजनशतानि, सर्वत्रापि विमानानि बाहल्योच्चत्वमीलनेन द्वात्रिंशद्योजनशतनि, उपर्युपरि बाह्यमुल्यहानिवदु) - चैस्त्वस्य वृद्धिभावात्, उक्तञ्च
॥१॥
“सत्तावीससयाई आदिमकप्पेसु पुढविबाहल्लं । एक्वेक्कहाणि सेसे दुदुगे य दुगे चउक्क य ॥ पंचसउच्चत्तेणं आदिमकप्पेसु होंति य विमाणा । एक्केकवुड्डि सेसे दुदुगे य दुगे चउक्के य ॥ गेवेजनुत्तरेसु एसेवकमो उ हाणिवुड्डीए । एक्केक्कंमि विमाणा दोन्निवि मिलिया उ बत्तीसं ।।
॥३॥
मू. (३२९) सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा किंसंठिया प० ?, गो० ! दुविहा प० तं० - आवलियापविट्ठा बाहिरा य । तत्थ णं जे ते आवलियापविट्ठा ते तिविहा प० तं० - वट्टा तंसा चउरंसा, एत्थ णं जे ते आवलियबाहिरा ते णं नानासंठिया पण्णत्ता, एवं जाव गेविजविमाणा, अणुत्तरोववाइय- विमाणा दुविहा प० तंजहा- वट्टे य तंसा य ।
वृ. सम्प्रति संस्थाननिरूपणार्थमाह- 'सोहम्मीसाणेसुणं भंते' इत्यादि सौधर्मेशानयोर्भदन्त कल्पयोर्विमानानि किंसंस्थितानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! द्विविधानि प्रज्ञप्तानि, तद्यथा - आवलिकाप्रविष्टानि आवलिकाबाह्यानि च तत्रावलिकाप्रविष्टानि नाम यानि पूर्वादिषु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि यानि पुनरावलिकाप्रविष्टानां प्राङ्गणप्रदेशे कुसुमप्रकर इव यतस्ततो विप्रकीर्णानि तान्यावलिकाबाह्यानि तानि पुष्पावकीर्णानीत्युच्यन्ते, पुष्पाणीव इतस्ततोऽवकीर्णानि - विप्रकीर्णानि पुष्पावकीर्णानि इति व्युत्पत्ति, तानि च मध्यवर्त्तिनो विमानेन्द्रस्य दक्षिणतोऽपरत उत्तरतश्च विद्यन्ते न तु पूर्वस्यां दिशि, उक्तञ्च -
119 11
"पुप्फावकिण्णगा पुण दाहिणतो पच्छिमेण उत्तरतो । पुवेण विमादस्स नत्थि पुष्फावकिण्णा उ ॥"
॥२॥
9 28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org