SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४३० जीवाजीवाभिगमउपाङ्गसूत्रम् ३/०- १/३२५ गोयमा ! महासुक्कस्स कप्पस्स उप्पिं सपक्खं सपडिदिसिं बहूई जोयणाई जाव उप्पइत्ता एत्थ णं सहस्सारे नामं कप्पे पन्नत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने पडिपुन्नचंदसंठाणसंठिए' इत्यादि ब्रह्मलोकवत् नवरमत्र षड् विमानावाससहस्राणि वक्तव्यानि, अवतंसका एवम्अङ्कावतंसकः स्फटिकावतंसकः रजतावतंसकः जातरूपावतंसकः मध्ये सहस्रारावतंसकः, आधिपत्यचिन्तायां 'छण्हं विमाणावासहस्साणं तीसाए सामानियसाहस्सीणं चउण्हं तीसाणं आयरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षदि पञ्च देवशतानि मध्यमिकायामेकं देवसहस्रं बह्यायां द्वे देवसहस्रे, तथाऽभ्यन्तरिकायां पर्षदि देवानां सार्द्धाष्टादशसागरोपमाणि सप्त च पल्योपमानि मध्यमिकायां पर्षदि अष्टादश सागरोपमाणि षट् च पल्योपमानि बाह्यायामर्द्धाष्टादशसागरोपमाणि पञ्च पल्योपमानि शेषं पूर्ववत् । 'कहि णं भंते! आणयपाणयनामे दुवे कप्पा पन्नत्ता ? कहि णं भंते! आणयपाणयगा देवा परिवसंति गोयमा! सहस्सारकप्पस्स उप्पिं सपक्खं सपडिदिसिं बहूइं जोयणाई जाव उप्पइत्ता एत्थ णं आणयपाणयनाम दुवे कप्पा पन्नत्ता पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अच्चिमाली इंगालरासिप्पभा' इत्यादि सनत्कुमारवत्, नवरं 'तत्थ णं आणयपाणयदेवाणं चत्तारि विमाणावाससया भवंतीति मक्खाय' मिति वक्तव्यं, अवतंसकाः अशोकावतंसकः सप्तपर्णावतंसकः चम्पकावतंसकः चूतावतंसकः मध्ये प्राणतावतंसकः, आधिपत्याचिन्तायां 'चउन्हं विमाणावाससयाणं वीसाए सामानियसाहस्सीणं असीए आयरक्खदेवसाहस्सीणं' तथाऽयन्तरिकायां पर्षदि अर्द्धतृतीयानि देवशतानि मध्यमिकायां पञ्च देवशतानि बाह्यायामेकं देवसहस्र, तथाऽभ्यन्तरिकायां पर्षदि देवानामर्द्धेकोनविंशति सागरोपमाणि पञ्च पल्योपमानि स्थिति मध्यमिकायामर्द्धेकोनविंशति सागरोपमाणि चत्वारि च पल्योपमानि बाह्यामद्धैकोनविंशति सागरोपमाणि त्रीणि च पल्योपमानि शेषं पूर्ववत् । 'कहि णं भंते ! आरणअच्चुयानामं दुवे कप्पा प० ? कहि णं भंते! आरणअच्चुयगा देवा परिवसंति ?, गो० ! आयपाणयाणं कप्पाणं उवरिं सपक्खं स, पडिदिसिं बहूइं जोयणाई जाव उप्पइत्ता एत्थ णं आरणअच्चुयानामं दुवे कप्पा प० पाईणपडिणायया उदीणदाहिणवि-च्छिण्णा अद्धचंदसंठाणसंठिया अचिमाली इंगालरासिवण्णाभा' इत्यादि पूर्ववत्, नवरमर्द्धचन्द्रसंस्थानसंस्थितत्वं प्रत्येकापेक्षयो मेरोर्दक्षिणोत्तरप्रविभागेनावस्थानात्, समुदितौ तु परिपूर्णचन्द्रसंस्थानौ द्रष्टव्यौ, तथा त्रीणि विमानावासशतानि वक्तव्यानि, अवतंसका इमे - अशोकावतसकः स्फिटिकावतंसकः रजतावतंसकः जातरूपावतंसकः मध्येऽच्युतावतंसकः, आधिपत्यचिन्तायां 'तिण्हं विमाणावाससयाणं दसण्हं सामाणियसाहस्सीणं चत्तालीसाए आयरक्खदेवसाहस्सीणं' तथा चात्र विमानावाससङ्ग्रणिगाथे 119 11 " बत्तीस १ ट्ठावीसा २ बारस ३ अट्ठ ४ चउरो सयसहस्सा ५ । ॥२॥ Jain Education International पन्ना ६ चत्तालीसा ७ छच्च सहस्सा सहस्सारे ८ ॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि । सत्त विमाणसयाइं चउसुवि एएसु कप्पेसु ॥ - सामानिकसङ्ग्रहणिगाथा For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy