SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४२८ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/वै०-१/३२५ पल्योपमे, बाह्यायामेकं पल्योपमं ॥ “से केणढेंण भंते! एवं वुञ्चति सक्कस्स णं देवेंदस्स देवरनो तओ परिसाओ' इत्यादि सकलमपि सूत्रं चमरवक्तव्यतायमिव भावनीयम् । 'कहिणं भंते! ईसाणगदेवाणं विमाणा पन्नत्ता कहिणं भंते! ईसाणगदेवा परिवसंति' इत्यादि सर्वंसौधर्मवद्वक्तव्यं नवरं मंदरस्सपव्वयस्स उत्तरेण' तथा 'अट्ठावीसंविमाणावाससयसहस्सा भवंतीतिमक्खायं तथा पञ्चावतंसकाः-पूर्वस्यामङ्कावतंसकोदक्षिणस्यांस्फटिकावतंसकः अपरस्यां रजतावतंसकः उत्तरस्यां जातरूपावतंसकः मध्ये ईशानावतंसकः, तथा शूलपाणिवृषभवाहनः, तथाऽशीतेः सामानिकसहस्राणां चतसृणामसीतीनामात्मरक्षदेवसहस्राणां, तथाऽभ्यन्तरिकायां पर्षदि दश देवसहस्राणि मध्यमिकायां द्वादश बाह्यायां चतुर्दश, तथाऽभ्यन्तरिकायां पर्षदि नव देवीशतानि मध्यमिकायामष्टौ देवीशतानि बाह्यायां सप्त देवीशतानि, तताऽभ्यन्तरिकायां पर्षदि देवानां सप्तपल्योपमानि मध्यमिकायांषट्बाह्यायां पञ्च, तथाऽभ्यतरिकायांपर्षदि देवीनांपञ्चपल्योपमानिमध्यमिकायांचत्वारि बाह्यायां त्रीणि, शेषंसर्वंशक्रवत्। _ 'कहिणं भंते ! सणंकुमाराणं देवाणं विमाणा पन्नत्ता?, कहिणं भंते ! सणंकुमारा देवा परिवसंति?' इति पाठसिद्धं, भगवानाह-गौतम! 'सोहम्मस्स कप्पस्स उप्पिं सपक्ख सपडिदिसिं बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूईओ जोयणकोडीओ बहूईओ जोयणकोडाकोडिओ उड्डूंदूरं वीइवइत्ता एत्थ णं सणंकुमारे नामंकप्पे पन्नत्ते' इति पाठसिद्धं, नवरं 'सपक्खं सपडिदिसि' समानाः पक्षाः-पूर्वापरिदक्षिणोत्तररूपाः पार्वा यस्मिन् दूरमुत्पतने तत् सपक्षं समानस्यधर्मादिषुचे तिसमानस्यसभावः, तथा समानाः प्रतिदिशो-विदिशो यत्र तत् सप्रतिदिक् । “पाईणपडीणायतेउईणदाहिणविच्छिण्णे' इत्यादि सौधर्मकल्पवन्निरवशेषं वक्तव्यं, नवरं 'बारस विमाणावाससयसहस्सा भवंतीति मक्खाय'मिति वक्तव्यं, तथा पञ्चानामवतंसकानां मध्ये चत्वारस्तएवाशोकवतंसकादयो मध्ये सनत्कुमारावतंसकः, अग्रमहिष्योन वक्तव्यास्तत्र परिगृहीतदेवीनामसम्भवात्, तथा 'सणंकुमारे कप्पे सणंकुमारवडेंसए विमाणे सभाए सुहम्माए सणंकुमारंसि सीहासणंसिसेणंतत्थ बारसण्हं विमाणावाससयसहस्साणंबावत्तरीए सामानियसाहस्सीणं' तथा 'चउण्हं बावत्तराणं आयरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षद्यष्टौ देवसहस्राणि मध्यमिकायां दश बाह्यायां द्वादश, देवीपर्षदो न वक्तव्याः, तथाऽभ्यन्तरिकाया पर्षदि देवानामर्द्धपञ्चमानि सागरोपमाणि पञ्च पल्योपमानि स्थिति मध्यमिकायामर्द्धपञ्चमानि सागरोपमाणि चत्वारि पल्योपमानि बाह्यायामर्द्धपञ्चमानि सागरोपमाणि त्रीणि पल्योपमानि, शेषं शक्रवत् । “कहिणंभंते!माहिंदगदेवाणंविमाणाप०?, कहिणंभंते! माहिंदगदेवापरिवसंति?, गो० ! ईसाणस्स कप्पस्स उप्पिं सपक्खं सपडिदिसिं बहूई जोयणाई जाव उप्पएत्ता एत्थ णं माहिंदे कप्पे पन्नत्ते' इति पूर्ववत्, “पाईणपडीणायए उईणदाहिणविच्छिन्ने' इत्यादि सर्वं शेष सनत्कुमारवन्निरवशेषं वक्तव्यं, नवरमत्राष्टौ विमानावासशतसहस्राणि, अवतंसकाश्चत्वार ईशानवत्, तद्यथा-अङ्कावतंसकः स्फटिकावतंसको रजतावतंसको जातरूपावतंसको मध्ये माहेन्द्रावतंसकः तथाऽऽधिपत्यचिन्तायाम् ‘अट्ठण्हं विमामावाससयसहस्साणं सत्तरीए सामानियसाहस्सीणंचउण्हं सत्तरीणं आयरक्खदेवसाहस्सीणं' इति, तथाऽभ्यन्तरिकायांपर्षदि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy