SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ४१२ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/जो०/३०७ एते देवोऽप्यनिबन्धनां क्रियां न करोति, विशिष्टसामर्थ्यस्यापि निबन्धनविषयत्वादित्यावेदितं द्वितीयसूत्रंबालं छित्वा भित्वेतिविशेषः,शेषं तथैव,अत्रापि प्रथयितुमशक्ति उभयकारणजन्यस्य कार्यस्यैकतरस्यापि कारणस्याभावेऽभावात् । तृतीयासूत्रे बाह्यान् पुद्गलान् पर्यादाय बालमच्छित्वाऽभित्वेति विशेषः। चतुर्थेबाह्यान्पुद्गलानादायबालंछित्वामित्वेति विशेषः,अत्राथयितुंप्रभुरितिवक्तव्यं, कारणसामग्रस्य सम्भवात्, तं च ग्रन्थिं छद्मस्थो मनुष्यो न जानाति न पश्यति, किमुक्तं भवति?-स बालोऽन्यो वा तटस्थः पुरुषोऽनतिशयी न जानाति ज्ञानेन न पश्यति चक्षुषा एवं खलु सुहुमं च णं गढेजा' एवं खलु सूक्ष्मं देवो ग्रथयेत् । एवं बालदीर्घहस्वीकरणविषयाण्यपि चत्वारिसूत्राणि भावनीयानिनवरं 'तंचणं सिद्धि मिति, तां-इस्वीकरणसिद्धिं दीर्धीकरणसिद्धिं वा, शेषं प्रतीतम् ॥ देवसामर्थ्यप्रत्यासत्यैव ज्योतिष्कावधिकृत्याह - देवाधिकारे ज्योतिष्क उद्देशकः:मू. (३०८) अस्थि णं भंते ! चंदिमसूरियाणं हिटिंपि तारारूवा अणुंपि तुल्लावि समंपि तारारूवा अणुंपितुल्लावि उप्पिंपितारारुवाअणुंपितुल्लावि?,हंता अस्थि, सेकेणद्वेणं भंते! एवं वुच्चति-अस्थिणं चंदिमसूरियाणं जाव उप्पिंपि तारारूवा अणुंपितुल्लावि? गोयमा! जहाजहाणं तेसिंदेवाणंतवनियमबंभचेरवासाई। उक्कडाइं] उस्सियाइंभवंति तहा तहाणं तेसिं देवाणं एवं पन्नायति अणुत्ते वा तुल्लते वा, से एएणटेणं गोयमा ! अस्थि णं चंदिमसूरियाणं उप्पिंपि तारारुवा अणुंपि तुल्लावि०। वृ. 'अस्थि णं भंते ! चंदिमसूरियाण'मित्यादि, अस्ति भदन्त ! चन्द्रसूर्याणां सामान्यतो बहुवचनं, हिदिपि-क्षेत्रापेक्षयाऽघस्तना अपि 'तारारूपाः' तारारूपविमानाधिष्ठातारो देवा द्युतिविभवलेश्यादिकमपेक्ष्य केचिदणवोऽपि हीना अपीत्यर्थः, केचित्तुल्या अपि, तथा सममपि चन्द्रविमानैः सूर्यविमानैश्च क्षेत्रापेक्षया समश्रेण्यपि व्यवस्थितास्तारारूपाः देवाःताश्चन्द्रसूर्याणां देवानांद्युतिविभवादिकमप्रेक्ष्य केचिदणवोऽपि केचित्तुल्याअपितथा चन्द्रविमानानांसूर्यविमानानां चोपर्यपि ये व्यवस्थितास्तारारूपा देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचित्तुल्या अपि?, भ०-'हन्ता अत्ति' यदेतत्वया पृष्टं तत्सर्वं तथैवास्ति एवमुक्तेपुनःप्रश्नयति-'सेकेणटेणंभंते! एवं वुच्चतिअस्थिणंचंदिमसूरियाण'मित्यादि, भगवानाह-गौतम ! 'जहा जहा ण'मित्यादि, यता यथा णमिति वाक्यालङ्कारे तेषां देवानांतारारूपविमानाधिष्ठातृणां प्राग्भवे तपोनियमब्रह्मचर्याणि 'उत्सृतानि' उत्कृष्टानि भवन्ति, तत्र तपो-नमस्कारसहितादि नियस्तु-अहिंसादि ब्रह्मचर्य-बस्तिनिरोधादि उत्सृतानीत्युपलक्षणं तेन यथायथाऽनुत्सृतान्यपिद्रष्टव्यं, अन्यथाऽणुत्वायोगात्, ततातथा तेषां देवानांतस्मिन् तातारूपविमानाधिष्ठातृभवे एवं प्रज्ञायते, तद्यथा-अणुत्वं तुल्यत्वं चेति । से एएणडेण'मित्यादि, किमुक्तं भवति?-यैः प्राग्भवे तपोनियमब्रह्मचर्याणि मन्दानि कृतानि ते तारारूपविमानाधिष्ठातृदेवभवमनुप्राप्ताश्चन्द्रसूर्येभ्यो देवेभ्यो द्युतिविभवादिकमपेक्ष्य हीना भवन्ति, यैस्तु भवान्तरे तपोनियमब्रह्मचर्याणि अत्युत्कटान्यासेवितानि ते तारारूपविमानाधिष्ठातृरूपं देवभवमनुप्राता द्युतिविभवादिकमपेक्ष्य अपि राज्ञा सह तुल्यविभवा इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy