SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३९५ प्रतिपत्तिः-३, दीव० पार्श्वयो-भित्तिषु-भित्तिसमीपेभित्तिगता-भित्तिसंबद्धा गुलिकाः-पीठिका भित्तिगुलिकास्तिन पटपञ्चा-शद्भवन्ति षट्पञ्चाशत्रिकप्रमाणा भवन्ति । 'गोमाणसियातत्तिया' इति तावत्य एव' षट्पञ्चाशस्त्रकप्रमाणाएव 'गोमानस्यः' शय्याः, तथा 'नानामणिरत्लानि' नानामणिरलमयानि व्यालकरूपाणि लीलास्थितशालभञ्जिकाश्च येषां तानि तथा, रजतमयाः कूटाः, कूटो-माडभागः, वज्रमयाः ‘उत्सेधाः' शिखराणि तपनीयमयाः 'उल्लोकाः' उपरितनभागाः, मणयो-मणिमया वंशा येषां तानि मणिवंशकानि, लोहिताक्षाःलोहिताक्षमयाः प्रतिवंशा येषांतानि लोहिताक्षप्रतिवंशकानि, रजता-रजतमयी भूमिर्येषांतानि रजतभूमानि, प्राकृतत्वात्समासान्तो मकारस्य च द्वित्वं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्नमयानि जालपाराणि गवाक्षापरपर्यायाणि येषू द्वारेषु तानि तथा, पदानामन्यथोपनिपातःप्राकृतत्वात्, अङ्कमयाः पक्षाः पक्षबाहवश्च, पक्षाः (प्रतीताः) पक्षबाहवोऽपि तदेकदेशभूताः, ज्योतीरसामया वंशा महान्तः पूज्यवंशाः। 'वंसकेल्लुया य' महतां पृष्ठवंशानामुभयतस्तिर्यकस्थाप्यमाना वंशाः वंशकवेल्लुकानि प्रतीतानि रजतमयपट्टिकाः कवेल्लुकानामुपरिकम्बास्थानीयाः जातरूपमय्योऽवधाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणकिलिञ्चस्थानीया वज्रमय्योऽवघाटिनीनामुपरिपुज्छन्यो-निबिडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः सर्वश्वेतंरजतमयंपुञ्छनीनामपरि कवेल्लुकानामघआच्छादनम्, 'अंकामयकणगकूडतवणिज्जथूभियागा' इति अङ्कमयानिबाहुल्येनाङ्करलमयानि पक्षपक्षबाह्लादीनामङ्करलात्मकत्वात् कनकं-कनकमयंकूट-शिखरं येषां तानि कनककूटानि, तपनीयाः-तपनीयमय्यः स्तूपिका-लघुशिखररूपायेषांतानितथा, ततः पदत्रयस्य पदद्वय २ मीलनेन कर्मधारयः, एतेन यत् प्राक् सामान्यत उत्क्षिप्तं 'सेया वरकणगथूभियागा' इति तदेव प्रपञ्चतो भावितं, सम्प्रति तदेव श्वेतत्वं भूय उपसंहारव्याजेन दर्शयति-'सेया' श्वेतत्वमेवोपमया द्रढयति- 'सङ्खदलविमलनिम्मलदहिघणगोखीरफेणरययनिगरप्पसद्धचंदचित्ता' विमलं यत् शङ्खदलं-शङ्खशकलं कचित् शङ्कतलेति पाठस्तत्रशङ्गवतलंशङ्खस्योपरितनो भागोतश्च निर्मलो दधिधनो-घनीभूतं दधि यश्च गोक्षीरकेनो यश्च रजतनिकरस्तद्वत्प्रकाशः-प्रतिमता येषां तानि तथाऽर्द्धचन्द्रश्चित्राणि-नानारूपाणि आश्चर्यभूतानि वा अर्द्धचन्द्रचित्राणि, ततःपूर्वपदेन विशेषणसमासः, नानामणिमयीभिर्दामभिरलङकृतानि नानामणिमयदामालङ्कृतानिअन्तर्बहिश्चश्लक्ष्णतपनीयरुचिरवालुकानांप्रस्तट:-प्रस्तारोयेषुतानितथा, शुभस्पर्शानि सश्रीकरूपाणि प्रासादीयांनि यावत् प्रतिरूपाणि व्यक्तम् 'तेसिणं दाराण'मित्यादि, तेषां द्वाराणामुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन 'दुहतो' इति द्विघातो-द्विप्रारायां नैषेधिक्यां नैषेधिकी-निषीदनस्थानं द्वारकुडयसमीपे नितम्ब इत्यर्थः षोडशषोडशवन्दनकलशाःप्रज्ञप्ताः, वर्णकस्तेषांवाच्यः, स चैवम्-'तेणंवंदनकलसा वरकमलपइट्ठाणासुरभिवरवारिपडिपुण्णाचंदनकयचच्चागाआविद्धकंठेगुणापउमुप्पलपिहाणा सव्वरयणामया अच्छा जाव पडिरूवा महया महया इंदकुंभसमाणा पन्नत्ता समणाउसो!" व्यक्तं नवरं 'महया महया" इति अतिशयेन महान्तः 'इन्द्रकुम्भसमानाः' महाकुम्भप्रमाणकुम्भसहशाः। ‘एवं नेयव्वं जाव सोलस वनमालाओ पन्नत्ताओ' ‘एवम्' अनेन प्रकारेण तावन्नेतव्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy