________________
३८१
प्रतिपत्तिः-३, दीव० चत्तारि पंच सामाणिया तं ठाणं उवसंपज्जित्ताणं विहरंति जाव तत्थ अन्ने उववन्ने भवति । इंदट्ठाणेणंभंते! केवतियंकालं विरहओउववातेणं?, गो० जहन्नेणंएक्कंसमयंउक्कोसेणंछम्मासा॥
वृ. 'अंतोणमित्यादि, अन्तः' मध्येणमिति वाक्यालङ्कारे भदन्त ! मानुषोत्तरस्य पर्वतस्य ये चन्द्रसूर्यग्रहनक्षत्रतारारूपास्ते भदन्त ! देवाः किमूझैपपन्नाः ?-सौधर्मादिभ्यो द्वादशेभ्यः कल्पेभ्य ऊर्द्धमुपपन्ना ऊोपपन्नाः कल्पेषु-सौधर्मादिषु उपपन्नाः कल्पोपन्नाः विमानेषुसामान्यरूपेषु उपपन्ना विमानोपपन्नाः चारो-मण्डलगत्या परिभ्रमणं तमुपपन्ना-आश्रितवन्तश्वारोपपन्नाः चारस्ययतोक्तरूपस्य स्थिति अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः गतौ रति-आसक्ति प्रीतिर्येषां ते गतिरतिकाः, एतेन गतौ रतिमात्रमुक्तं, सम्प्रति साक्षाद्गतिं प्रश्नयति- 'गतिसमापन्नाः?' गतिसमापन्नाः गतियुक्ताः, एवं गौतमेन प्रश्ने कृते भगवानाह
गौतम ! ते देवा नोझैपपन्नास्तथा चारोपन्नाश्चारसहिता नो चारस्थितिकाः, तथा स्वभावतोऽपि गतिरतिकाः साक्षाद्गतियुक्ताश्च, नालिकापुष्पसंस्थानसंस्थितैः ‘योजनसाहस्रकैः' अनेकयोजनसहस्रप्रमामैस्तापक्षेत्रैः ‘साहस्रकाभिः' अनेकसहस्रसङ्ख्याभिर्बाह्याभिपर्षद्भिः, अत्र बहुवचनं व्यक्तपेक्षया, वैकुर्विकाभि' विकुर्वितनानारूपधारणीभि ‘महयाहयन-ट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेण मिति पूर्ववत् 'दिव्यान्' प्रधानात् भोगार्हाभोगाः-शब्दादयो भोगभोगास्तान् भुञ्जानास्तथा स्वभावतो गतिरतिकैर्बाह्यपर्षदन्तर्गतैर्देवैर्वेगेन गच्छत्सु विमानेषु 'उत्कृष्टतः' उत्कर्षवशेन ये मुच्यन्ते सिंहनादादयश्च क्रियन्ते बोलाः, बोलो नाम मुखे हस्तं दत्वा महता शब्देन पूत्करणं, यच्च कलकलो-व्याकुलशब्दसूहस्तद्रवेण महता समुद्रवर- भूतमिव कुर्वाणा मेरुमिति योगः, किंविशिष्टम् ?
इत्याह-'अच्छम्' अतीवनिर्मलजाम्बूनदमयत्वात् रत्नबहुलत्वाच्च ‘पर्वतराज’ पर्वतेन्द्र प्रदक्षिणावर्तमण्डलं चारं यथा भवति तथा मेरुमनुलक्षीकृत्य 'परिअडति' पर्यटन्ति । पुनः प्रश्नयति-'तेसिणंभंते!' इत्यादि, तेषां भदन्त! ज्योतिष्कदेवानां यदा इन्द्रश्चयवते तदा ते देवा 'इदानीम्' इन्द्रविरहकाले कथंप्रकुर्वन्ति?, भगवानाह-गौतम! यावच्चत्वारः पञ्च वा सामानिका देवाः समुदितीभूय तत्स्थानम्' इन्द्रविरहकाले कथं प्रकुर्वन्ति?, भगवानाह-गौतम ! यावच्चत्वारः पञ्च वा सामानिका देवाः समुदितीभूय 'तत्स्थानम् इन्द्रस्थानमुपसंपद्य 'विहरन्ति' तदिन्द्रस्थान परिपालयन्ति, संजातौ शुल्कस्थानदिकपञ्चकुलवत्, कियन्तंकालंयावत्तदिन्द्रस्थानंपरिपालयन्ति इति चेदत आह-यावदन्यस्तत्रेन्द्र उपपन्नो भवति ॥ 'इंदट्ठाणे ण'मित्यादि, इन्द्रस्थानं भदन्त ! कियन्तंकालमुपपातेन विरहितं प्रज्ञप्तम् ?, भगवानाह-गौतम! जघन्येनैकंसमयं यावदुत्कर्षतः षण्मासान् । 'बहियाणमित्यादि, बहिर्भदन्त! मानुषोत्तरस्यपर्वतस्यये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपास्तेभदन्त! देवाः किमूर्दोपपन्नाः? इत्यादिप्राग्वत्, भगवानाह-गौतम! नोर्डोपपत्रका नापिकल्पोपपन्नाःकिन्त विमानोपपन्नास्तथा नो चारोपपन्नाः किन्तु चारस्थितिकाः अत एव नो गतिरतयो नापिगतिसमापन्नकाः 'पक्किट्टगसंठाणसंठिएहिं'तिपक्वेष्टकसंश्थानसंस्थितैर्योजनशतसाहसिकैरातपक्षेत्रैः, यथा इष्टका आयामतो दीर्घा भवति विस्तरतस् स्तोका चतुरन च तेषामपि मनुष्यक्षेत्राबहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यायामतोऽनेकयोजनशतसहस्रप्रमाणानि विस्तरत एकयोजनशतसहस्राणि चतुरस्राणि चेति, तैरित्थम्भूतैरातपक्षेत्रैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org