SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३६३ प्रतिपत्तिः - ३, दीव० वृ. 'से णमित्यादि, स पुष्करवरद्वीप एकया पद्मवरवेदिकयाऽष्टजनोच्छ्रयया जगत्युपरिभाविन्येति गम्यते, एकेन वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, द्वयोरपि वर्णकः पूर्ववत्॥अधुना द्वारवक्तव्यतामाह-'पुक्खरवरस्स णमित्यादि, पुष्करवरद्वीपस्य कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह-गो० चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितंच । 'कहिणं भंते!' इत्यादि, क भदन्त! पुष्करवरद्वीपस्य विजयं नाम द्वारंप्रज्ञप्तं?, भगवानाह-गो० पुष्कवरद्वीपपूर्वार्द्धपर्यन्तेपुष्करोदस्यसमुद्रस्यपश्चिमदिशिअत्रपुष्करवरद्वीपस्य विजयं नाम द्वारंप्रज्ञप्तं, तत्र जम्बूद्वीपविजयद्वारवदविशेषणवक्तव्यं, नवरंराजधानी अन्यस्मिन् पुष्करवर-द्वीपेवक्तव्या।एवंवैजयन्तादिसूत्राण्यणि भा०सर्वत्र राजधानीअन्यस्मिन्पुष्करवरद्वीपे मू. (२३८) अडाल सयसहस्सा बावीसं खलु भवे सहस्साई। अगुणुत्तरा य चउरो दारंतर पुक्खरवरस्स। वृ. सम्प्रति द्वाराणां परस्परमन्तरमाह-'पुक्खरवरदीवस्स ण मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अष्टचत्वारिंशद् योजनशतसहस्राणि द्वाविंशतिर्योजनसहमणि चत्वारि योजनशतानि एकोनसप्ततानि द्वारस्य द्वारस्य च परस्परमबाधयाऽन्तरपरिमाणं, चतुर्णामपि द्वाराणामेकत्र पृथुत्वमीलनेऽष्टादश योजनानि, तानि पुष्करवरद्वीपपरिमाणाद् १९२८९८९४ इत्येवंरूपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम्-एका योजनकोटी द्विनवति शतसहस्राणि एकोननवति सहस्राणि अष्टौ शतानि षट्सप्तत्यधिकानि १९२८९८७६, तेषां चतुर्भिर्भागे हृते लब्धं यथोक्तं द्वाराणां परस्परमन्तरपरिमामं ४८२२४६९। मू. (२३९) पदेसा दोण्हवि पुट्टा, जीवा दोसुभाणियव्वा ॥से केणटेणं भंते! एवं वुचति पुक्खरवरदीवे २? गो० ! पुक्खरवरेणंदीवेतत्थ २ देसे तहिं २ बहवे पउमरुक्खा पउमवनसंडा निच्चं कुसुमिता जावचिट्ठति, पउममहापउमरुक्खे एत्थणंपउमपुंडरीया नामंदुवेदेवा महिड्डिया जाव पलिओवमट्टितीया परिवसंति, सेतेणटेणं गोयमा! एवंवुच्चति पुक्खरवरदीवेर जाव निच्चे। पुक्खरवरेणं भंते! दीवे केवइया चंदा पभासिंसु वा ३?, एवं पुच्छा वृ. 'पुक्खरवरदीवस्सणंभंते! दीवस्सपएसुपुक्खरवरसमुदं पुट्ठा?' इत्यादि सूत्रचतुष्टयं प्राग्वत् ॥ सम्प्रति नामनिमित्तप्रतिपादनार्थमाह-'से केणटेण'मत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते पुष्करवरद्वीपः २? इति, भगवानाह-गौतम ! पुष्करवरद्वीपे तत्र तत्र देशे तस्य देशस्य तत्र २ प्रदेशे बहवः पद्मवृक्षाः, पद्मानि अतिविशालतया वृक्षाइवपद्मवृक्षाः, पद्मखण्डाःपद्मवनानि, खण्डवनयोर्विशेषः प्राग्वत्, 'निच्चं कुसुमिया' इत्यादि विशेषणजातं प्राग्वत्। तथा पूर्वार्द्धं उत्तरकुरुषु यः पद्मवृक्षः पश्चिमाः उत्तरकुरुषु यो महापद्मवृक्षस्तयोरत्र पुष्करवरद्वीपे यथाक्रमं पद्मपुण्डरीकौ द्वौ देवौ महर्द्धिको यावत्पल्योपमस्थितिको यथाक्रमंपूर्वार्धापरार्द्धाधिपती परिवसतः, तथा चोक्तम्॥१॥ “पउमे य महापउमे रुक्खा उत्तरकुरूसु जंबुसमा । एएसु वसंति सुरा पउमे तह पुंडरीए य॥" पद्मंच पुष्करमिति पुष्करवरोपलक्षितो द्वीपः पुष्करवरो द्वीपः ‘से एएणतुण'मित्याधुपसंहारवाक्यम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy