________________
प्रतिपत्तिः -३, दीव०
३०३
भिवदनाः, तता छवी-छविमन्त उदात्तवर्णया सुकुमारया च त्वचा युक्ता इति भावः।
"निरायंकउत्तमपसत्थअइसेसनिरुवमतणू' निरातङ्का-नीरोगा उत्तमा-उत्तमलक्षणोपेता अतिशेषा-कर्मभूमकमनुष्यापेक्षयाऽतिशायिनी अत एव निरुपमा-उपमारहिता तनुः-शरीरं येषां ते निरातकोत्तमप्रशस्तातिशेषनिरुपमतनवः, एतदेव सविशेषमाह-'जल्लमलकलंकसेयरयदोसवज्जियसरीरनिरुवलेवा' याति च लगति चेति जल्लः-पृषोदरादित्वान्निष्पत्ति स्वल्पप्रयलापनेयःसचासौमलश्चजल्लमलःसचकलङ्कं च-दुष्टतिलकादिकंचित्रादिकंवास्वेदश्च-प्रस्वेदः रजश्व रेणुर्दोषो-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं च-मूत्रविष्ठाद्युपलेपरहितं शरीरं येषांतेजल्लमलकलङ्कस्वेदरजोदोषवर्जितनिरुपलेपशरीराः, सूत्रेच निरुपलेपशब्दस्य परनिपातः प्राकृतत्वात्, 'छायाउज्जोवियंगमंगा' छायया-शरीरप्रभया उद्दयोतितमङ्गमङ्गम्-अङ्गप्रत्यङ्गं येषां ते तथा, 'अनुलोमवाउवेगा' अनुलोमः-अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवातजवो येषां ते अनुलोमवायुवेगाः, वायुगुल्मरहितोदरमध्यप्रदेशा इति भावः, आह च मूलटीकाकारः।
"उदरमध्यप्रदेशेवायुगुल्मोयेषंतेषामनुलोमोवायुवेगोनभवति, तदभावाच्च तेषामनुलोमो भवति वायुवेगो मिथुनाना"मिति, 'कङ्गग्रहणी' इति कङ्कः-पक्षिविशेषस्तस्येव ग्रहणिगुदाशयो नीरोगवर्चस्कतया येषांतेकग्रहणयः, 'कवोयपरिणामा' कपोतस्येव-पक्षिविशेषस्य परिणामआहारपाको येषां ते कपोतपरिणामाः, कपोतस्य हि जाठराग्नि पाषाणलवानपि जरयतीति श्रुति, एवं तेषामप्यत्यर्गलाहारग्रहणेऽपिनजातुचिदप्यजीर्णदोषाभवन्तीति, 'सउणिपोसपिठंतरोरुपरिणया' इति शकुनेरिव-पक्षिण इवपुरीषोत्सर्गे निर्लेपतया 'पोस'ति पोसः-अपानदेशः 'पुसउत्सर्गे' पुरीषमुत्सृजन्त्यनेनेति व्युत्पत्तेः, तथा लघुपरिणामतया पृष्ठं च प्रतीतं अन्तरे चपृष्ठोदरयोरन्तराले पावित्यर्थ ऊरू चेति द्वन्द्वः ते परिणता येषां ते शकुनिपोसपृष्ठान्तरोरुपरिणताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, 'विग्गहियउन्नयकुच्छी विग्रहिता-मुष्टिग्राह्या उन्नता चकुक्षिर्येषां ते विग्रहितोन्नतकुक्षयः, वज्रर्षभनाराचंसंहननं येषां तेवज्रर्षभनाराचसंहननाः, तथा समचतुरंम्न च तत् संस्थानंच समचतुरसंस्थानं तेन संस्थिताः समचतुरस्रंसंस्थासंस्थिताः, षडधनुःसहोच्छ्रिताः-त्रिगव्यूतप्रमाणोच्छ्रयाः, तथा तेषामुत्तरकुरुवास्तव्यानां मनुष्याणां द्वे पृष्ठकरण्डके षट्पञ्चाशे-षटपञ्चाशदधिके प्रज्ञप्ते तीर्थकरगणधरैः।
'ते णं मणुया' इत्यादि, ते उत्तरकुरुवास्तव्या मनुजाः प्रकृत्या-स्वभावेन भद्रकाःअपरानुपतापहेतुकावाङ्मनश्चेष्टाः, तथा प्रकृत्या स्वभावेन न तु परोपदेशतः परेभ्यो भयतो वोपशान्ताः, तथा प्रकृत्या स्वभावेन प्रतनवः-अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते प्रकृतिप्रतनुरोधमानमायालोभाः, अत एव मृदु-मनोज्ञं परिणामसुखावहमिति भावः यन्मार्दवं तेन संपन्ना मृदुमार्दवसंपन्ना न कपटमार्दवोपेताः 'अल्लीणा' इति आ-समन्तात्सर्वासु क्रियासु लीना-गुप्ता आलीना नोल्वणचेष्टाकारिण इत्यर्थ, भद्रकाः-सकलतत्क्षेत्रोचितकल्याणभागिनः विनीता-- बृहत्पुरुषविनयकरणशीलाः अल्पेच्छा-मणिकनकादिविषयप्रतिबन्धरहिता अत एवासन्निधि- सञ्चया-न विद्यते सन्निधिरूपः सञ्चयो येषां ते तथा, 'विडिमंतरपरिवसमा' विडिमान्तरेषुशाखान्तरेषु प्रासादाद्याकृतिषु परिवसनं-आकालमावासो येषां ते विडिमान्तरपरिवसनाः 'जहिच्छि-यकामकामिणो यथेप्सितान्मनोवाञ्छितान्कामान्-शब्दादीन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org