SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० २८१ कृत्वा सभायाः सुधर्माया दक्षिणद्वारेसमागत्याचनिकांपूर्ववत्करोति, ततो दक्षिणद्वारे विनिर्गच्छति __ इत ऊद्धव॑यथैव सिद्धायत नान्निष्क्रमतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशत उत्तरनन्दापुष्करिणीप्रभृतिका उत्तरान्ता ततो द्वितीयं वारं निष्क्रमतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्चनिका वक्तव्यातथैव सुधर्मायाः सभाया अप्यन्यूनातिरिक्ता द्रष्टव्या, ततः पूर्वनन्दापुष्करिण्या अर्चनिकांकृत्वोपपातसभां पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदेशभागे प्राग्वदर्चनिकां विदघाति, ततो दक्षिणद्वारेण समागत्य तस्यानिकां कुरुते, अत ऊर्द्धमत्रापि सिद्धायतनवद्दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या। ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य ह्रदे समागत्य पूर्ववत्तोरणाचनिकां करोति, कृत्वा पूर्वद्वारेणाभिषेकसभायां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्यचपूर्ववदर्चनिकांक्रमेणकरोति, तदनन्तरमत्रापि सिद्धायतनवद्दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽचनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेणव्यवसायसभां प्रविशति प्रविश्य पुस्तकरत्नं लोमहस्तकेन प्रमृज्योदकधारयाऽभ्युक्ष्य चन्दनेन चर्चयित्वा वरगन्धमालैयरचयित्वापुष्पाद्यारोपणंधूपदानंच करोति, तदनन्तरंमणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेणार्चनिकां करोति, तदनन्तरमवापि सिद्धायतनवद्दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठेसमागत्य तस्य बहुमध्यदेशभागे पूर्ववदर्चनिकां करोति, कृत्वा चोत्तरपूर्वस्यां नन्दापुष्करिण्यां समागत्य तस्यास्तोरणेषु पूर्ववदर्चनिकां कृत्वाऽऽभियोगिकान् देवान् शब्दयतिर एवमवादीत् ____ 'खिप्पामेवे'त्यादि सुगमं यावत् 'एयमाणत्तियं पञ्चप्पिणंति' नवरं श्रृङ्गाटकंत्रिकोणं स्थानं त्रिकं-यत्र रथ्यात्रयं मिलतिचतुष्कं-चतुष्पथयुक्तं चत्वरं-बहुरथ्यापातस्थानंचतुर्मुखंयस्माच्चतसृष्वपि दिक्षुपन्थानोनिस्सरन्ति महापथो-राजपथःशेषःसामान्यः पन्थाः प्राकारः-प्रतीतः अट्टालकाः-प्राकारस्योपरिभृत्याश्रयविशेषाः चरिका-अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्ग द्वाराणि--प्रासादादीनांगोपुराणि-प्राकारद्वाराणि तोरणानि-द्वारादिसम्बन्धीनिआगत्यरमन्तेऽत्र मादवीलतागृहादिषुदम्पत्य इति सआरामः पुष्पादिसदृक्षसङ्कुलमुत्सवादौ बहुजनोपभोग्यमुद्यानं सामान्यवृक्षवृन्दं नगरासन्नं काननं नगरविप्रकृष्टं वनं एकानेकजातीयोत्तमवृक्षसमूहो वनषण्डः एखजातीयोत्तमवृक्षसमूहो वनराजी। 'तएण'मित्यादि, ततःस विजयो देवो बलिपीठे बलिविसर्जनं करोति, कृत्वा च यत्रैवोत्तरनन्दापुष्करिणी तत्रोपागच्छति, उपागत्योत्तरपूर्वांनन्दांपुष्करिणांप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति, अनुप्रविश्य पूर्वत्रिसोपानप्रतिरूपकेणप्रत्यवरोहति, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्य नन्दापुष्करिणीतः प्रत्युत्तरति, प्रत्युत्तीर्य चतुर्भि सामानिकसहस्रश्चतसृभिरग्रमहिषीभिः सपरिवाराभिस्तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभि षोडशभिरात्मरक्षदेवसहस्ररन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिश्चसार्द्ध संपरिवृतः सर्वद्धर्या यावद् दुन्दुभिनिर्घोषनादितरवेण विजयाया राजधान्या मध्यंमध्येन यत्रैव सभा सुधर्मा तत्रोपागच्छति, उपागत्य सभां सुधर्मां पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy