SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० २६७ लादीनि च तदनन्तरं हरिवर्षरम्यकवर्षेषु हरकान्ताहरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकम् उभयतटमृत्तिकां च ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैताढ्येषु सर्वतुबरादीन् ततो निषधनीलवर्षधरपर्वतेषु सर्वतुबरादीन् तदनन्तरं तद्गतेषु तिगिच्छिकेसरिमहाहदेषु ह्रदोदकमुत्पलादीनि च ततः पर्वविदेहापरविदेहेषु शीताशीतोदामहानदीषु नद्युदकम् उभयतटमृत्तिकां च तदनन्तरं सर्वेषु चक्रवर्त्तिविजेतव्येषु मागधवरदामप्रभासाख्यतीर्थेषु तीर्थोदकानि तीर्थमृत्तिकाश्च ततः सर्वेषु वक्षस्कारपर्वतेषु सर्वतुबरादीन् तदनन्तरं सर्वास्वन्तरनदीषु नद्युदकमुभयतटमृत्तिकाश्च ततो मन्दरपर्वते भद्रशालवने सर्वतुबरादीन् ततो नन्दनवने सर्वतुबरादीन् सरसं च गोशीर्षचन्दनं ततः सौमनसवने सर्वतुबरादीन सरसंच गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृह्णन्ति, ततः पण्डकवने सर्वतुबरपुष्पगन्धमा- ल्यसरसगोशीर्षचन्दनदिव्यसुमनोदामानि - 'दद्दरमलए सुगंधिए य गिव्हंति इति दर्दरः - चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितं तत्र पक्वं वा यन्मलयोद्भवया प्रसिद्धत्वान्मलयं - श्रीखण्डं येषु तान् ‘सुगन्धान्' परमगन्धोपेतान् गन्धान् गृह्णन्ति, गृहीत्वा एकत्र मिलन्ति, मिलित्वा तया उत्कृष्टया दिव्यया देवगत्या यत्रैव विजया राजधानी यत्रैव विजयो देवस्तत्रैवोपागच्छन्ति, उपागत्य च करतलपरिगृहीतां शिरस्या- वर्त्तिकां मस्तकेऽञ्जलिं कृत्वा विजयं देवं जयेन विजयेन वर्द्धापयन्ति, वर्द्धापयित्वा महार्थं महार्हं विपुलमिन्द्राभिषेकयोग्यं क्षीरोदकादि 'उपनयन्ति' समर्पयन्ति । 'तएण 'मित्यादि, ततो णमिति वाक्यालङ्कारे तं विजयं देवं चत्वारि देवसामानिकसहस्राणि चतस्रोऽग्रमहिष्यः सपरिवारास्तिम्नः पर्षदो यथाक्रममष्टदशद्वादशदेवसहस्रपरिमाणाः सप्तानीकानि सप्तानीकाधिपतयः षोडश आत्मरक्षदेवसहस्राणि, अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवा देव्यश्च तैः - तद्गतदेवजनप्रसिद्धैः स्वाभाविकैर्वैकुर्विकैश्च वरकमलप्रतिस्थानैः सुरभिवरवारिप्रतिपूर्णैश्चन्दनकृतचर्चाकैः 'आविद्धकण्ठेगुणैः' आरोपितकण्ठे रक्तसूत्रतन्तुभिः पद्मोत्पलपिधानै- सुकुमारकरतलपरिगृहीतैरनेकसहस्रसङ्घयैः कलशैरिति गम्यते, तानेव विभागतो दर्शयति- अष्टसहस्रेण सौवर्णिकानां कलशानाम्, अष्टसहस्रेणरूप्यमयानाम्, अष्टसहस्रण मणिमयानाम्, अष्टसहस्रण सुवर्णरूप्यमयानाम्, अष्टसहस्रेण सुवर्णमिणिमयानाम्, अष्टसहस्रेण रूप्यमणिमयानाम्, अष्टसहस्रेण सवर्णरूप्यमणिमयानाम्, अष्टसहस्रेण भौमेयानां, सर्वसङ्ख्ययाऽष्टभिः सहस्रैश्चतुःषष्ठयधिकैः, तथा 'सर्वोदकैः' सर्वतीर्थनद्याद्युदकैः सर्वतुवरैः सर्वपुष्पैः सर्वगन्धैः सर्वमाल्यैः सर्वौषधिसिद्धार्थकैश्च । 'सर्वद्धर्या' परिवारादिकया 'सर्वद्युत्या' यथाशक्ति विस्फारितेन शरीरतेजसा 'सर्वबलेन' सामस्त्येन स्वस्वहस्त्यादिसैन्येन 'सर्वसमुदयेन' स्वस्वाभियोग्यादिसमस्तपरिवारेण 'सर्वादरेण ' समस्तयावच्छक्तितोलनेन 'सर्वविभूत्या' स्वस्वाभ्यन्तरवैक्रियकरणादिबाह्यरत्नादिसम्पदा, तथा 'सर्वविभूषया' यावच्छक्तिस्फारोदारश्रृङ्गारकरणेन 'सव्वसंभमेणं' ति सर्वोत्कृष्टेन संभ्रमेण, सर्वोत्कृष्टसंभ्रमो नाम इह स्वनायक विषयबहुमानख्यापनार्थपरा स्वनायककार्यसम्पादयनाय यावच्छक्ति त्वरितत्वरिता प्रवृत्ति, सर्वपुष्पवस्त्रगन्धमाल्यालङ्कारेण, अत्र गन्धाः वासा माल्यानिपुष्पदामानः अलङ्काराःआभरणानि ततः समाहारो द्वन्द्वः, ततः सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दास्तैः सहसर्वशब्देन विशेषणसमासः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy