________________
प्रतिपत्तिः - ३, दीव०
सुवर्णस्य यः कषपट्टके निघर्ष स वरकनकनिघर्ष, वरपुरुषो वासुदेवस्तस्य वसनं वरपुरुषवसनं, तद्धि किल पीतेव भवतीति तदुपादनम्, अ (स) ल्लकीकुसुमं लोकतोऽवसेयं 'चम्पककुसुमं ' सुवर्णचम्पककुसुमं 'कूष्माण्डीकुसुमं' पुष्पफलीकुसुमं कोरण्टकः - पुष्पजातिविशेषस्तस्य दाम कोरण्टकदाम तडवडा आउली तस्याः कुसुमं तडवडाकुसुमं घोषातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं सुहरिण्यका-वनस्पतिविशेषस्तस्याः कुसुमं सुहरिण्यकाकुसुमंबीयको - वृक्षः प्रतीतस्तस्य कुसुमं बीयककुसुमं पीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीताः 'भवे एयारूवे' इत्यादि प्राग्वत् ‘तत्थ ण’मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये ते शुक्ला मणयस्तृणानि च तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा
२११
'सेजहा नाम'ए' इत्यादि, सयथा नाम - 'अङ्कः' रत्नविशेषः शङ्खचन्द्रकुमुदोदकरजोदधिघनक्षीरपूरक्रञ्चावलिहारावलिहंसावलिबलाकावलयः प्रतीताः 'चन्द्रावली' तडाकादिषु जलमध्यप्रतिबिम्बितचन्द्रपङ्क्ति ‘सारइयबलाहगेइ वा' इति शारदिकः - शरत्कालभावी बलाहको - मेघः 'धंतधोयरुप्पपट्टे वे 'ति ध्मातः - अग्निसंपर्केण निर्मलीकृतो धौतो-भूतिखरण्टितहस्तसन्मार्जनेनातिनिशितीकृतो यो रूप्यपट्टो - रजतपत्रं स ध्मातधौतरूप्यपट्टः, अन्ये तु व्याचक्षतेध्मातेन - अग्नसंयोगेन यो धौतः - शोधितो रूप्यपट्टः स ध्मातरूप्यपट्टः, शालिपिष्टराशिशालिक्षोदपुञ्जः कुन्दपुष्पराशि कुमुदराशिश्च प्रतीतः, 'सुकुकछेवाडियाइ वा' इति छेवाडी नामवल्लादिफलिका, सा च कचिद्देशविशेषे शुष्का सती शुक्ला भवति ततस्तदुपादानं, 'पेहुणमिंजियाइ वा' इति पेहुणं मयूरपिच्छं तन्मध्यवर्त्तिनी मिश्रा पेहुणमिञ्जिका सा चातिशुक्लेति तदुपन्यासः, बिसं पद्मिनीकन्दः मृमालं- पद्मतन्तुः, गजदन्तलवङ्गदलपुण्डरीकदलश्वेतकणवीरश्वेतबन्धुजीवाः प्रतीताः, 'भवेयारूवे' इत्यादि प्राग्वत् ॥ तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह- 'सिणं मणीनं तणाण य' इत्यादि, तेषां मणीनां तृणानां च की शो गन्धः प्रज्ञप्तः ?,
भगवानाह -
‘से जहा नाम ए’ इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थ, ते यथा नाम गन्धा अभिनिश्रवन्तीति सम्बन्धः, कोष्ठं - गन्धद्रव्यं तस्य पुटाः कोष्ठपुटास्तेषां वाशब्दाः सर्वत्राप समुच्चये, इहैकस्य पुटस्य न ताशो गन्ध आयाति द्रव्यस्याल्पत्वात् ततो बहुवचनं, तगरमपि गन्धद्रव्यम्, ‘एलाः’प्रतीताः ‘चोयगं’ गन्धद्रव्यं चम्पकदमनककुङ्कुमचन्दनोशीरमरुबकजातीयूथिकामल्लिकास्नानमल्लिकाकेतकीपाटलानवमालिकावासकर्पूराणि प्रतितानि नवरमुशीरं वीरणीमूलं स्नानमल्लिका—स्नानयोग्यो मल्लिकाविशेषः एतेषामनुवाते - आघ्रायकविवक्षितपुरुषाणामनुकूले वाते वाति सति 'उद्भिद्यमानानाम्' उद्घाटयमानानां, चशब्दः सर्वत्रापि समुच्चये, 'निर्भिद्यमानानां नितरां - अतिशयेन भिद्यमानानां 'कोट्टिजमाणाण वा' इति, इह पुटैः परिमितानि यानि कोष्ठादिगन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात्कोष्ठपुटानीत्युच्यन्ते तेषां 'कुट्टयमानानाम्' उदूखले कुट्टयमानानां 'रुविज्जमाणाण वा' इति श्लक्ष्णखण्डीक्रियमाणानाम्, एतच्च विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं, तेषामेव प्रायः कुट्टन श्लक्ष्णखण्डीकरणसम्भवात्, न तु यूथिकादीनाम् 'उक्किरिज्जमाणाणवा' इति क्षुरिकादिभि कोष्ठादिपुटानां कोष्ठादिद्रव्याणां वा उत्कीर्यमाणानां 'विक्खरिज्जमाणाम वा' इति 'विकीर्यमाणानाम्' इतस्ततो विप्रकीर्यमाणानां 'परिभुजमाणाण
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International