________________
प्रतिपत्तिः -३, दीव०
२०९ त्यादि, आवर्तादीनि मणीनां लक्षणानि, तत्रावतः प्रतीत एकस्यावर्तस्य प्रत्यभिमुख आवर्त : प्रत्यावर्तः श्रेणि-तथाविधबिन्दुजातादेः पङ्कित तस्याश्च श्रेणेर्या विनिर्गताऽन्या श्रेणिसाप्रश्रेणि स्वस्तिकःप्रतीतः सौवस्तिकपुष्पमाणवौ-लक्षणविशेषौ लोकाप्रत्येतव्यौ वर्द्धमानकं-शरावसंपुटं मत्स्यकाण्डकमकराण्डके-प्रतीते 'जारमारे'ति लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोकाद्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः प्रतीतास्तासां भक्त्याविच्छित्या चित्रम्-आलेखो येषु ते आवर्तप्रत्यावर्त्तश्रेणिप्रश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्धमानकमत्स्याण्डकमकराण्डकजारमापुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीपद्मलताभक्तिचित्रास्तैः, किमुक्तं भवति ?-आवरत्तादिलक्षणोपेतैः, तथा सच्छायैः सती-शोभना प्रभाकान्तिर्येषांते सबभास्तैः ‘समरीएहि तिसमरीचिकैः-बहिर्विनिर्गतकिरणजालसहितैः ‘सोदद्योतैः' बहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोदद्योतसहितैः, एवंभूतै नाजातीयैः पञ्चवर्णमणिभिस्तृणैश्योपशोभितः, तानेव पञ्च वर्णानाह-'तंजहा कण्हे' इत्यादि।
'तत्थण मित्यादि, तत्र तेषां पञ्चवर्णानांमणीनां तृणानांचमध्ये णमिति वाक्यालङ्कारे ये ते कृष्णा मणयस्तृणानि च, ये इत्येव सिद्धे ये ते इति वचनं भाषाक्रमार्थं, तेषां णमिति पूर्ववत् 'अयम् अनन्तरमुद्दिश्यमानः 'एतद्रूपः' अनन्तरमेववक्ष्यमाणस्वरूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्ताः, तद्यथा
'से जहा नाम ए' इत्यादि, स यथा नाम-'जीमूत' इति 'जीमूतः' बलाहकः, स चेह प्रावृट्प्रारम्भसमये जलभृतो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसम्भवात्, इतिशब्द उपमाभूतवस्तुनापरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवंसर्वत्रेतिवाशब्दौ द्रष्टव्यो, 'अञ्जन' सौवीराजनरलविशेषोवा 'खञ्जन' दीपमल्लिकामलः 'कजलं' दीपशिखापतितं 'मषी' तदेव कजलं ताम्रभाजनादिषुसामग्रीविशेषेणघोलितं मषीगुलिका-घोलितकज्जलगुटिका, कचित् 'मसी इति मसीगुलिया इति वेति न दृश्यते, गवलं-माहिषं श्रङ्गं तदपि चोपरितनत्वग्भागापसारणेन द्रष्टव्यं, तत्रैव विशिष्टस्य कालिम्रः सम्भवात्, तथा तस्यैव माहिषश्रृङ्गस्य निबिडतरसारनिवर्तितागुडिका गवलगुडिका 'भ्रमरः' प्रतीतः 'भ्रमरावली' भ्रमरपङ्कित भ्रमरपतङ्गसारः' भ्रमरपक्षान्तर्गतो विसिष्टकालिमोपचितः प्रदेश 'जम्बूफलं' प्रतीतम् 'आर्द्रारिष्टः' कोमलकाकः परपुष्टः' कोकिलः गजो गजकलभश्च प्रतीतः ‘कृष्णसर्प' कृष्णवर्णसर्पजातिविशेषः 'कृष्णकेसरः' कृष्णबकुलः 'आकाशथिग्गलं' शरदि मेवविनिर्मुक्तमाकाशखण्डतद्वत्कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाआशोककृष्णकणवीरकृष्णबन्धुजीवाः अशोककणवीरबन्दुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासार्थं कृष्णग्रहणम्। ___एतावत्युक्ते गौतमो भगवन्तं पृच्छति-भवे एयारूवे' इति भवेन्मणीनांतृणानांच कृष्णो वर्ण एतद्रूपः' जीमूतादिरूपः ?, भगवानाह-गौतम! 'नायमर्थसमर्थ नायमर्थउपपन्नो यदुतैवंभूतः कृष्णो वर्णो मणीनां तृणानां च, किन्तु ते कृष्णा मणयस्तृणानि च 'इतः' जीमूतादेः 'इष्टतरका एव' कृष्णवर्णेनाभीप्सिततरकाएव, तत्र किञ्चिदकान्तमपि केषाञ्चिदिष्टतरं भवति ततोऽकान्तताव्यवच्छित्यर्थमाह-'कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org