________________
प्रतिपत्तिः - ३, दीव०
'अविरलपत्ता' इति, अत्र हेतौ प्रथमा ततोऽयमर्थ यतोऽविरलपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्रा अपि कुतः ? इत्याह- 'अवातीनपत्राः ' वातीनानि - वातोपहतानि वातेन पातितानीत्यर्थः न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति ? न तत्र प्रबलो वातः खरपरुषो वाति येन पत्राणि त्रुटित्वा भूमौ निपतन्ति, ततोऽवातीनपत्रत्वादविरलपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह
'अणईइपत्ता' न विद्यते इतिः- गड्डरिकादिरूपा येषां तान्यनीतीनि जरठानि पाण्डूनि पत्राणि येभ्यस्ते निर्द्धतजरठपाण्डुपत्राः, किमुक्तं भवति ? - यानि वृक्षस्थानि जरठानि पाण्डूनि पत्राणि तानि वातेन निद्धूय निर्द्धय भूमौ पात्यन्ते भूमेरपि च प्रायो निद्धूय निद्भूयान्यत्रापसार्यन्त इति, 'नवहरियभिसंतपत्तंधयारगंभीरदरसणिज्जा' इति नवेन- प्रत्यग्रेण हरितेन - नीलेन भासमानेन - स्निग्धत्वचा दीप्यमानेन पत्रभारेण - दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा- अलब्धमध्यभागाः सन्तो दर्शनीया नवहरितभासमानपत्रान्धकारगम्भीरदर्शनीयाः, तथा उपविनिर्गतैःनिरन्तरविनिर्गतैर्नवतरुणपल्लवैः तथा कोमलैः - मनोज्ञैरुज्ज्वलैः - शुद्धैश्चलद्भि - ईषत्कम्पमानैः किशलयैः–अवस्थाविशेषोपेतैः पल्लवविशेषैः तथा सुकुमारैः प्रवालैः - पल्लवाङ्कुरैः शोभितानि वराङ्कुराणि - वराङ्कुरोपेतानि अग्रशिखराणि येषां ते उपविनिर्गतवतरुणपत्रपल्लवकोमलोज्वलचलत्किशलयसुकुमारप्रवालशोभितवराङ्कुराग्रशिखराः, इहाङ्कुरप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः । 'निच्चं कुसुमिया निच्चं मउलिया निच्चं लवइया निच्चं वइया निच्चं गोच्छिया निच्चं जमलिया निच्चं जुयलिया निच्चं विणमिया निचं पणमिया नियं कुसुमियमउलियलवइयथवइयगुलइय- गोच्छियजमलियजुगलियवणमियपणमियसुविभत्तप (पिं)डिमंजरिवडंसगधरा' इति पूर्ववत्, तथा शुकवर्हिणमदनशलाकाकोकिलकोरकभिङ्गारककोंडलजी
२०७
शकुनगणानां
वंजीवकनन्दीमुखकपिलपिङ्गलाक्षका-रण्डवचक्रवाककलहंससारसाख्यानामनेकेषां मिथुनैः - स्त्रीपुंसयुग्मैर्विचरितं - इतस्ततो गतं यच्च शब्दोन्नतिकम् - उन्नतशब्दकं मधुरस्वरं च नादितं - लपितं येषु ते तथा, अत एव सुरमम्याः - सुष्ठु रमणीयाः, अत्र शुकाः - कीराः बर्हिणो- -मयूरा मदनशलाकाशारिका कोकिला - ऽपि चक्रवाककलहंससारसाः - प्रतीताः, शेषास्तु जीवविशेषा लोकतो वेदितव्याः ।
तथा संपिण्डिताः-एकत्र पिण्डीभूता हप्ता - मदोन्मत्ततया दर्पाध्माता भ्रमरमधुकरीणां पहकराः–सङ्घाताः, ‘पहकरओरोहसंघाया' इति देशीनाममालावचनात्, यत्र ते संपिण्डितप्तमधुकरभ्रमरमधुकरीपहकराः, तथा परिलीयमानाः - अन्यत आगत्यागत्य श्रयन्तो मत्ताः षट्पदाः कुसुमासवलोलाः- किञ्जल्कपानलम्पटा मधुरं गुमगुमायमानाः गुञ्जन्तश्च - शब्दविशेषंच विदधाना देशभागेषु तस्मिन् तस्मिन् देशभागे येषां ते परिलीयमानमत्तषटपदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जन्तदेशभागाः, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेषणसमासः, तथाऽभ्यन्तराणि-अभ्यन्तरवर्तीनि पुष्पाणि फलानि च पुष्पफलानि येषां ते तथा, 'बाहिरपत्तच्छन्ना' इति बहिपत्रैश्छन्ना- व्याप्ता बहिपत्रछन्नाः, तथा पत्रैश्च पुष्पैश्च 'अवच्छन्नपरिच्छन्ना' अत्यन्त - माच्छादिताः ।
तथा 'नीरोगाः' रोगवर्जिताः 'अकण्टकाः' कण्टकरहिताः, नैतेषु मध्ये बब्बूलकादिवृक्षाः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International