SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ २०१ प्रतिपत्तिः - ३, दीव० वाच्यानि, यथा 'तत्य तत्थ तहिं २ देसे देसे बहूई हयमिहुणाइं गयमिहुणाई' इत्यादि । 'तीसेण'मित्यादि, तस्यांणमिति पूर्ववत् पद्मवरवेदिकायांतत्रतत्र देशे २ 'तहिं २' इति तस्यैव देशस्य तत्र तत्रैकदेशे, अत्रापि तत्थ २ देसे २ तहिं २' इति वदता यत्रैका लता तत्रान्या अपिबह्वयोलताः सन्तीतिप्रतिपादितं द्रष्टव्यं, बहुयाओपउमलयाओ' इत्यादि, बह्वयः ‘पद्मलताः' पद्मिन्यः 'नागलताः' नागा-द्रुमविशेषाः त एव लतास्तिर्यकशाखाप्रसराभावात् नागलताः, एवमशोकलताश्चम्पकलता वणलताः, वणा-तरुविशेषाः, वासन्तिकलता अतिमुक्तकलताः कुन्दलताः श्यामलताः, कथम्भूता एताः ? इत्याह-नित्यं' सर्वकालं षटस्वपि ऋतिष्वित्यर्थ : 'कुसुमिताः' कुसुमानि-पुष्पाणिसंजातान्यास्विति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, एवं नित्यं मुकुलिताः, मुकुलानि नाम कुडमलानि कलिका इत्यर्थ नित्यं 'लवइयाओ' इति पल्लविताः, नित्यं 'थवइयाओ' इति स्तबकिताः, नित्यं 'गुम्मियाओ' इति गुल्मिताः, स्तबकगुल्मौ गो (गु)च्छविशेषौ, नित्यं गुच्छाः, नित्यं यमलं नाम समानजातीययोलतयोयुग्मं तत्संजातमास्विति यमलिताः, नित्यं 'युगलिताः' युगलं सजातीयविजातीययोलतयोर्द्वन्द्वं, तथा 'नित्यं' सर्वकालं फलभारेणनता-ईषन्नता नित्यं प्रणता-महता फलभारेण दूरंनताः, तथा नित्यं 'सुविभक्ते'त्यादि सुविभक्तिकः-सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धराः-तद्धारिण्यः । एष सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्या एकैकस्या लताया उक्तः, साम्प्रतं कासाञ्चिल्लतानां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह-'निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियपममियसुविभत्तपडिमंजरिवडंसगधरीउ' एताश्च सर्वा अपि लता एवंरूपाः, किंरुपाः? इत्याह-सव्वरयणामईओ' सर्वात्मना रलमय्यः, ‘अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत्। अधुना पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति-'सेकेणटेणंभंते!' इत्यादि, सेशब्दोऽथशब्दार्थ, अथ 'केनार्थेन केन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पद्मवरवेदिकेति ?, किमुक्तं भवति ?-पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्तौ किं निमित्त मिति ?, एवमुक्ते भगवानाह-गौतम ! पद्मवरवेदिकायां तत्र तत्र प्रदेशे तस्यैव देशस्य तत्र तत्रैकदेशे ‘वेदिकासु' उपवेशनयोग्यमत्तवारणरूपासु 'वेदिकावाहासु' वेदिकापार्वेषु 'वेइयापुडंतरेसु' इति द्वे वेदिक वेदिकापुटं तेषामन्तराणि-अपान्तरालानि वेदिकापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः तथा 'स्तम्भबाहासु' स्तम्भपार्वेषु 'खंभसीसेसु' इति स्तम्भशीर्षेषु 'खंभपुडंतरेसु' इति द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराणि तेषु 'सूचीषु फलकसम्बन्धविघटनाभावहेतुपादुकास्थानीयासुतासामुपरीति तात्पर्यार्थ, 'सूइमुहेसु' इति यत्र प्रदेशे सूचि फलकं भित्वा मध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुखं तेषु। तथा सूचीफलकेषु-सूचीभिः संबन्धिता ये फलकप्रदेशास्तेऽप्युपचारात्सूचीफलकानि तेषु सूचीनामध उपरिच वर्तमानेष, तथा 'सुईपुडंतरेसु' इति द्वे सूच्यौ सूचीपुटं तेषामन्तरेषु, पक्षाः पक्षबाहा-वेदिकैकदेशास्तेषुबहूनि 'उत्पलकानि गर्दभकानिबहूनि 'पद्मानि' सूर्यविकासीनि बहूनि 'कुमुदानि' चन्द्रविकासीनि, एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्राण्यपि वाच्यानि, एतेषां च विशेषः प्रागेवोपदर्शितः, एतानि कथम्भूतानि ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy