SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दे० १९३ सङ्ग्रहणिटीकायांचाभिहिताति ततोऽवधा?, 'सव्वफालियामया' सर्वात्मना स्फटिकमयानि सर्वस्फटिकमयानि 'जहा ठाणपदे जावचंदमसूरिया एत्थ दुवेजोइसिंदाजोइसरायाणो परिवसंति महिड्डिया जाव विहरंति' यथा प्रज्ञापनायां स्थानाख्ये द्वितीये पदे तथा वक्तव्यं यावच्चन्द्रसूर्यो, द्वावत्र ज्योतिष्केन्द्रौ ज्योतिष्कराजानौ परिवसतस्ततोऽप्यूर्द्ध यावद्विहरन्तीति, एतच्चैवं । “अब्भुग्गयमूसियपहसिया इव विविहमणिकणगरयणभत्तिचित्ता वाउ यविजयवेजयंतीपडागछत्तातिछत्तकलियातुंगा गगनतलमभिलंघमाणसिहराजालंतररयणापंजरुम्मिल्लियव्व मणिकणगथूभियागा वियसयसयवत्तपोंडरीया तिलगरयणद्धचंदचित्ता नानामणिमयदामालंकिया अंतोबहिचसण्हातवणिज्जरुइलवालुयापत्थडासुहफासासस्सिरीया सुरुवापासाईयादरिसणिज्जा अभिरूवा पडिरूवा, एत्थ णंजोइसियाणं विमाणा पन्नत्ता। एत्थ णं जोइसिया देवा परिवसंति, तंजहा-बिहस्सती चंदसूरा सुक्कसनिच्छरा राहू धूमकेउबूहाअंगारका तत्ततवणिज्जकणगवण्णाजया तहाजोइसंमिचारंचरंति केऊय गइरतीया अट्ठावीसइविहाय नक्खत्तदेवगणा नानासंठाणसंठियायपंचवण्णायतारगाओठियलेसाचारिणो अविस्साममंडलगई पत्तेयनामंकपायडियचिंधमउडा महिड्डिया जाव पभासेमाणा, ते णं तत्थ साणं साणं अनियाणं साणंसाणंअनियाहिवईणंसाणंसाणंआयरक्खदेवसाहस्सीणं, अन्नेसिंच बहूणंजोइसियाणं देवाणं देवीण य आहेवचं जाव विहरंति, चंदिमसूरिया य एत्थ दुवे जोइसिंदा जोइसियरायाणो परिवसंति महिड्डिया जाव पभासेमाणा। तेणं तत्थ साणं साणंजोइसियविमाणावाससयसहस्साणंचउण्हं चउण्हं सामानियसाहस्सीणं चउण्हं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अन्नेसिंच बहूणं जोइसियाणं देवाणं देवीण य आहेवच्चं जाव विहरंति" इति, अभ्युद्गता-आभिमुख्येन सर्वतो गता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिस्तया सितानिधवलानि अभ्युद्गतोत्सृतप्रभासितानि, तथा विविधानां मणिकनकरलानां या भक्तयो-विच्छित्तिशेषास्ताभिश्चित्राणि-आश्चर्यभूतानि विविधमणिकनकभक्तिचित्राणि, 'वाउछ्यविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिया' वातोद्भूता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्तयभिधानायाः पताकाः;अथवा विजय इतिवैजयन्तीनांपार्श्वकर्णिका उच्यन्तेतप्रधानावैजयन्त्यो विजयवैजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि-उपर्युपरि स्थितानि छत्राणि तैः कलितानि वातोद्भूतविजयवैजयन्ती-पताकाछत्रातिच्छत्रकलितानि 'तुङ्गानि' उच्चानि, तथा गगनतलम्अम्बरतलमनुलिखन्- अभिलङ्घयन् शिखरं येषां तानि गगनतलानुलिखच्छिखराणि, तथा जालानि-जालकानि तानिच भवनमित्तिषुलोकप्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तंरलानि यत्र तानि जालान्तररत्नानि, तथा पञ्जराद् उन्मीलितवद् यथा हि किल किमपि वस्तु पञ्जराद्वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमनष्टच्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका-शिखरं येषां तानि मणिकनकस्तूपिकानि, ततः पूर्वपदाभ्यां सह विशेषणसमासः । 9137 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy