SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः -३.दे० १७९ गण्डौ-कपोलौ यस्तानि मृष्टगण्डानि कर्णपीठानि-आभरणविशेषरूपाणि धारयन्तीत्येवंशीला अङ्गदकुण्डलमृष्टगण्डकर्णपीठधारिणः, तथा विचित्राणि-नानारूपाणि हस्ताभरणानि येषां ते विचित्रहस्ताभरणाः।तथा विचित्तमालामउलिमउडा' इति, विचित्रा माला-कुसुमम्रग मौलौमस्तके मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः, तथा कल्याणकं-कल्याणकारि प्रवरं वस्त्रं परिहितं यैस्ते कल्याणकवस्त्रपरिहिताः, सुखादिदर्शनानिष्ठान्तस्यात्र पाक्षिकः परनिपातः, तथा कल्याणकं-कल्याणकारि यत् प्रवरं मालंय-पुष्दाम यच्चानुलेपनं तद्धरन्तीत कल्याणकप्रवरमाल्यानुलेपनधराः, तथा भास्वरा-देदीप्यमानाबोन्दिशरीरं येषांतेभास्वरबोन्दयः, तथा प्रलम्बत इति प्रलम्बा या वनमालां तां धरन्तीति प्रलम्बवनमालाधराः।। दिव्येन 'वर्णेन' कृष्णादिना दिव्येनगन्धेन' सुरभिणा 'दिव्येन स्पर्शेन' मृदुस्निग्धादिरूपेण दिव्येन शक्तिविशेषमपेक्ष्य संहननेनेवसंहननेन न तु साक्षात्संहननेन, देवानां संहननासम्भवात्, संहननं हि अस्थिरचनात्मकं, न च देवानामस्थीनि सन्ति, तथा चोक्तंप्रागेव-“देवाअसंघयणी तेसिं नेव सिरा" इत्यादि, 'दिव्येन संस्थानेन' समचतुरस्ररूपेण भवधारणीयशरीरस्य, तेषामन्यसंस्थानासम्भवात्, 'दिव्ययाऋद्धया परिवारादिकया 'दिव्यया धुत्या' इष्टार्थसंप्रयोगलक्षणया, 'धुअभिगमने इतिवचनात् 'दिव्ययाप्रभया' भवनावासगतया 'दिव्ययाछायया' समुदायशोभया 'दिव्येनार्चिषा' स्वशरीरगतरत्नादितेजोज्वालया 'दिव्येन तेजसा' शरीरप्रभवेन 'दिव्ययालेश्यया' देवर्णसुन्दरतया दश दिशः ‘उदद्योतयन्तः प्रकाशयन्तः ‘पभासेमाणा' इति शोभयन्तस्तेभवनवासिनो देवाणमिति वाक्यालङ्कारे 'तत्र' स्वस्थाने 'साणंसाणं'ति स्वेषां स्वेषामात्मीयात्मीयानां भवनावासशतसहस्रणांस्वेषां स्वेषांसामानिकसहस्रणांस्वेषां स्वेषांत्रायस्त्रिंशकानांस्वेषां स्वेषां लोकपालानांस्वासां स्वासाम् ‘अग्रमहिषीणा' पट्टराज्ञीनां स्वेषां स्वेषामनीकानांस्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेषामात्मरक्षदेवसहस्रणाम्, अन्येषां च बहूनां स्वस्वभवनावासनगरीवास्तव्यानां भवनवासिनां देवानां देवीनांच। __-'आहेवच्च'मित्यादि, अधिपतेः कर्म आधिपत्यं रक्षेत्रय्थः, सा च रक्षा सामानेयनापि (आ)रक्षकेणेव क्रियते तत आह-पुरस्य पति पुरपतिस्तस्य कर्मपौरपत्यं, सर्वेषामात्मीयानामग्रेसरत्वमिति भावः, तच्चाग्रेसरत्वं नायकत्वमन्तरेणापि नायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव भवति ततो नायकत्वप्रतिपत्यर्थमाह-'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावो नायकत्वमित्यर्थः, तदपिच नायकत्वं कथञ्चित्पोषकत्वमन्तरेणापि भवति यथा हरिणयथाधिपतेर्हरिणस्य, ततआह-'भर्तृत्वं पोषकत्वमत एवमहत्तरकत्वं, तदपिमहत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि संभवति यथा कस्यचिद्वणिजः स्वदासदासीगं प्रति, तत आह आणाईसरसेणावच्चं' आज्ञयाईश्वर आज्ञेश्वरः सेनायाः पति सेनापतिआज्ञेश्वरश्चासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्मआज्ञेश्वरसेनापत्यं स्वस्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भावः कारयन्तोऽन्यैर्नियुक्तकैः पुरुषैः पालयन्तः स्वयमेव, महतारवेणेतियोगः, 'आहय' इतिआख्यानकप्रतिबद्धानि यदिवा 'अहतानि अव्याहतानि नित्यानुबन्धीनीतिभावः येनाट्यगीते नाट्यं नृत्यं गीतं गानंयानिचवादितानितन्त्रीतलतालत्रुटितानितन्त्री-वीणा तलौ-हस्ततलौ तालः-कंसिकात्रुटितानि-वादित्राणि, तथायश्च घनमृदङ्गः पटुनापुरुषेणप्रवादितः, तत्रघनमृदङ्गो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy