SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६० जीवाजीवाभिगमउपाङ्गसूत्रम् ३ /म० / १३८ तंजा-सम्मत्तकिरियं वा मिच्छत्तकिरियं वा ॥ वृ. ‘अन्नउत्थिया णं भंते !' इत्यादि, 'अन्ययूथिकाः' अन्यतीर्थिका भदन्त ! चरकादय एवमाचक्षते सामान्येन 'एवं भाषन्ते' स्वशिष्यान् श्रवणं प्रत्यभिमुखानवबुध्य विस्तरेण व्यक्तं कथयन्ति, एवं 'प्रज्ञापयन्ति' प्रकर्षेण ज्ञापयन्ति यथा स्वात्मनि व्यवस्थितं ज्ञानं तथा परेष्वप्यापादयन्तीति, एवं ‘प्ररूपयन्ति' तत्वचिन्तायामसंदिग्धमेतदिति निरूपयन्ति, इह खल्वेको जीव एकेन समयेन युगपद्द्द्वेक्रिये प्रकरोति, तद्यथा 'सम्यक्त्वक्रिया च' सुन्दराध्यवसायात्मिकां 'मिथ्यात्वक्रियाच' असुन्दराध्यवसायात्मिका, 'जं समय' मिति प्राकृतत्वात्सप्तम्यर्थे द्वितीया यस्मिन् समये सम्यक्त्वक्रया प्रकरोति 'तं समय' मिति तस्मिन् समये मिथ्यात्वक्रिया प्रकरोति, यस्मिन् समये मिथ्यात्वक्रिया प्रकरोति तस्मिन् समये सम्यक्त्वक्रियां प्रकरोति, अन्योऽन्यसंवलितोभयनियमप्रदर्शनार्थमाह-सम्यक्त्वक्रियाप्रकरणेन मिथ्यात्वक्रिया प्रकरोति मिध्यात्वक्रियाप्रकरणेन सम्यक्त्वक्रिया प्रकरोति, तदुभयकरणस्वभावस्य तत्तत्क्रियाकरणात्सर्वात्मना प्रवृत्तेः, अन्यथा क्रयाऽ योगादिति, एवं खल्वि' त्यादि निगमनं प्रतीतार्थं । 'से कहमेयं भंते!' इत्यादि, तत् कथमेतद् भदन्त ! एवम् ?, तदेवं गौतमेन प्रश्ने कृते सति भगवानाह - गौतम ! यत् णमिति वाक्यालङ्कारे 'अन्ययूथिकाः' अन्यतीर्थिका एवमाचक्षते इत्यादि प्राग्वत् यावत्तत् मिथ्या ते एवमाख्यातवन्तः । अहं पुनर्गौतम! एवमाचक्षे एवं भाषे एवं प्रज्ञापयामि एवं प्ररूपयामि, इह खल्वेको जीव एकेन समयेनैकां क्रियां प्रकरोति, तद्यथा - सम्यक्त्वक्रियां वा मिथ्यात्वक्रियां वा, अत एव यस्मिन् समये सम्यक्त्वक्रियांप्रकरोति न तस्मिन् समये मिध्यात्वक्रिया प्रकरोति यस्मिन् समये मिध्यात्वक्रियां प्रकरोति न तस्मिन् समये सम्यक्त्वक्रियां प्रकरोति, परस्परवैविक्त्यनियमप्रदर्शनार्थमाह- सम्यक्त्वक्रियाप्रकरणेन न मिथ्यात्वक्रियांप्रकरोति मिथ्यात्वक्रियाप्रकरणेन न सम्यक्त्वक्रियां प्रकरोति, सम्यक्त्वक्रियामिथ्यात्वक्रिययोः परस्परपरिहारावस्थानात्मकतया जीवस्य तदुभयकरणस्वभावत्वायोगात्, अन्यथा सर्वथा मोक्षाभावप्रसक्तेः, कदाचिदपि मिथ्यात्वानिवर्त्तनात् ॥ तृतीय प्रतिपतौ - तिर्यंचयोनिकस्य उद्देशकः - २ समाप्तः -: मनुष्य अधिकार : व्याख्यातस्तिर्यग्योनिजाधिकारः, सम्प्रति मनुष्याधिकारव्याख्यावसरः, तत्रेदमादिसूत्रम्मू. (१४०) से किं तं मणुस्सा ?, मणुस्सां दुविहा पन्नत्ता, तंजहा० - संमुच्छिममणुस्सा य गब्भवक्कतियमणुस्सा य ॥ से किं तं संमुच्छिममणुस्सा ?, २ एगागारा पन्नत्ता ॥ कहि णं भंते! संमुच्छिममणुस्सा संमुच्छंति ?, गोयमा ! अंतोमणुस्सखेत्ते जहा पन्नवणाए जाव सेत्तं संमुच्छिममणुस्सा ॥ वृ. 'से किं त' मित्यादि, अथ के ते मनुष्याः ?, सूरिराह - मनुष्या द्विविधाः प्रज्ञप्तास्तद्यथासंमूर्च्छिममनुष्याश्च गर्भव्युत्क्रान्तिकमन० चशब्दौ द्वयानामपि मनुष्यत्वजातितुल्यतासूचकौ । 'से किं त' मित्यादि, अथ केते संमूर्च्छिममनुष्याः ?, सूरिराह-संमूर्च्छिममनुष्याः 'एकाकारः' एकस्वरूपाः प्रज्ञप्ताः । अथ क तेषं सम्भवः ? इति जिज्ञासिषुर्गौतमः पृच्छति 'कहिणं भंते!' इत्यादि, क भदन्त ! संमूर्च्छिममनुष्याः संमूर्च्छन्ति ?, भगवानाह - अन्त For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy