SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४० जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै० २/१०५ हिमपुञ्जानि वा, सूत्रे नपुसकनिर्देशः प्राकृतत्वात्, हिमपटलानि वा हिमकूटानि वा, एतान्येव पदानि नानादेशजविनेयानुग्रहाय पर्यायैव्याचष्टे ‘सीयाणि वा सीयपुंजाणि वा' इत्यादि, तानि पश्येत्, दृष्ट्वा तान्यवगाहेत, अवगाह्य 'शीत-मपि नरकजनितंशीतत्वमपि प्रविनयेत्, ततः सुखासिकाभावतस्तृषमपि क्षुधमपिज्वरमपि नरकवेदनीयनरकसंपर्कसमुत्थंजाडयमपिप्रविनयेत्, ततः शीतत्वादिदोषापगमतोऽनुत्तरंस्वास्थ्य लभमानोनिद्रायेत वा प्रचलायेत वा स्मृतिवारतिंवा धृति वालभेत, ततो नरकगजाड्यापगमाद् उष्णः, सचबहिप्रदेशमात्रतोऽपिस्यात्ततआह–'उष्णीभूतः' अन्तरपिनरकगतजाड्यापगमात् जातोत्साह इत्यर्थः, स एवंभूतः सन् यथास्वसुखं संक्रमन् सातसौख्यबहुलो विहरेत्, एवमुक्ते गो०-'भवेयारुवे सिया?' इत्यादि प्राग्वत् । सम्प्रति नैरयिकाणां स्थितिप्रतिपादनार्थमाह मू. (१०६) इमीसेणं भंते ! रयणप्प० पु० नेरतियाणं केवतियं कालं ठिती पन्नत्ता?, गोयमा ! जहण्णेणवि उक्कसेणवि ठिती भाणितव्वा जाव अधेसत्तमाए । वृ. 'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता?, भगवानाह-गौतम ! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं, एवं शर्कराप्रभापृथिवीनैरयिकाणां जघन्यत एकं सागरोपममुत्कर्षतस्त्रीणि सागरोपमाणि, वालुकाप्रभापृथिवीनैरयिकाणां जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त, पङ्कप्रभापृथिवीनैरयिकाणां जधन्यतः सप्तसागरोपमाणिउत्कर्षतोदश,धूमप्रभापृथिवीनैरयिकाणांजघन्यतोदश सागरोपमाणि उत्कर्षतः सप्तदश, तमःप्रभापृथिवीनैरयिकाणां जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविंशति, तमस्तमःप्रभायां जघन्यतो द्वाविंशतिसागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् । क्वचित् 'जहा पन्नवणाए ठिइपदे' इत्यतिदेशः सोऽप्येवमेवार्थतो भावनीयः, तदेवं प्रतिपृथिवी स्थितिपरिमाणमुक्तं, यदा तु प्रतिप्रस्तटं स्थितिपरिमाणं चिन्त्यते तदैवमवगन्तव्यम्-रत्नप्रभायां प्रथमे प्रस्तटे जघन्या स्थितिर्दशवर्षसहस्राणि उत्कृष्टा नवति द्वितीये प्रस्तटे एषैव शतगुणिती जघन्या उत्कृष्टा च वेदितव्या, तद्यथा-जघन्या दशवर्ष- लक्षा उत्कृष्टा नवतिवर्षलक्षाः , तृतीये प्रस्तटे जघन्यतो नवतिवर्षलक्षा उत्कृष्ता पूर्वकोटी, चतुर्थे जघन्या पूर्वकोटी उत्कृष्टा सागरोपमस्य दशमो भागः, पञ्चमे जघन्या सागरोपमस्यैको दशभाग उत्कृष्टा द्वौ दशभागौ, षष्ठेजघन्यासागरोपमस्य द्वादशभागावुत्कृष्टा त्रयः, सप्तमेजघन्यात्रयः सागरोपमस्य दशभागा उत्कृष्टाश्चत्वारः, अष्टमे जघन्या चत्वारः सागरोप- मस्य दशभागा उत्कृष्टा पञ्च, नवमे जघन्या पञ्च सागरोपमस्य दशभागा उत्कृष्टा षट्, दशमे जघ-न्या षट् सागरोपमस्य दसभागा उत्कृष्टा सप्त, एकादषे जघन्या सप्त उत्कृष्टाऽष्टी, द्वादशेजघन्याऽष्टौ उत्कृष्टा नव, त्रयोदशेजघन्या नव सागरोपमस्य दशभागा उत्कृष्टा दश, परिपूर्णमिकंसागरोपममिति भावः शर्कराप्रभायांप्रथमे प्रस्तटे प्रस्तटे जघन्या एकं सागरोपमं उत्कृष्टा एकं सागरोपमं द्वौ च सागरोपमस्यैकादशभागौ, द्वितीये प्रस्तटे जघन्या एकं सागरोपमं द्वौ सागरोपमस्यैकादशभागी उत्कृष्टा एकंसागरोपमंचत्वारः सागरोपमस्यैकादशभागाः, तृतीये जघन्या एकंसागरोपमंचत्वारः सागरोपमस्यैकादशभागा उत्कृष्टा एकंसागरोपमं षट् सागरोपमस्यैकादशभागाः, चतुर्थे जघन्या एकं सागरोपमंअष्टौ सागरोपमस्यैकादशभागाः उत्कृष्टा एकं सागरोपमं दशसागरोपमस्यैकादश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy