SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-१, ॥१॥ "पेउंजियव्वं धीरेण हियं जंजस्स सव्वहा। आहारोविहु मच्छस्सन पसत्थो गलो भुवि ॥" अस्यार्थस्य संदर्शनायाह-'जिनप्रशस्तं' जिनानां-गोत्रविशुद्धोपायाभिमुखापायविमुखहितप्रवृत्तादिभेदानां प्रशस्तं-निरुजपथ्यान्नवत् उचितसेवनया हितं जिनप्रशस्तम्, एवं भूतं जिनमतम् 'अनुविचिन्त्य' औत्पत्तिक्यादिभेदभिन्नया बुद्धया पर्यालोच्य 'तत्' जिनमतं 'श्रद्दधानाः' यद्यपि नाम कालवैगुण्यतो मेधादिगुणहीनाः प्राणिनस्तथाऽप्यतःस्वल्पमप्यधिगतं भवच्छेदायेत्याचित्ततया मन्यमानाः, तथा 'तत्' जिनमतमेव 'प्रीयमाणाः' असङ्गशक्तिप्रीत्या पश्यन्तः, तथा 'तत्' जिनमतमेव रोचयन्तः सात्मीभावेनानुभवन्तः, क एते इत्याह 'स्थविराभगवन्तः' तत्रधर्मपरिणत्या निवृत्तासमञ्जसक्रयामतयः सथविरा इवस्थविराः, परिणतसाधुभावाआचार्या इतिगर्भ, 'भगवन्तः' श्रुतैश्वर्यादियोगाद्भग्नवन्तः कषायादीनिति भगवन्तः पृषोदरादित्वान्नकारलोपः, जीवाजीवाभिगमनाम' नाम्नाजीवाजीवाभिगम, नामनशब्दस्यात्राव्ययत्वात्ततः परस्य तृतीयैकवचनस्य लोपः, जीवानाम्-एकेन्द्रियादीनाम् अजीवानांधर्मास्तिकायादीनामभिगमः-परिच्छेदो यस्मिन् तत् जीवाजीवाभिगमम्।। इदं चान्वर्थप्रधानं नाम यथा ज्वलतीति ज्वलन इत्यादि, किं तित्याह-अधीयत इति 'अध्ययनं' विशि,ष्टार्थध्वनिसंदर्भरूपं 'प्रज्ञापितवन्तः' प्ररूपितवन्तः, एतेन गुरूपर्वक्रमलक्षणः सम्बन्धः साक्षादुपदर्शितः, एतदुपदर्शनादभिधेयादिकमपि सिद्धिं यथोक्तमनन्तरमिति कृतंप्रसङ्गेन। मू. (२) से किंतंजीवाजीवाभिगमे?,जीवाजीवाभिगमेदुविहे पन्नत्ते, तंजहा-जीवाभिगमे य अजीवाभिगमे य। वृ. अथास्य सूत्रस्य किमैदम्पर्यम् ?, उच्यते, प्रश्नसूत्रमिदम्, एतच्चादावुपन्यस्यन्निदं ज्ञापयति-पृच्छतोमध्यस्थस्य बुद्धिमतो भगवदर्हदुपदिष्टतत्वस्यतत्वप्ररूपणा कार्यानान्यस्येति, अक्षरगमनिका त्वेवम्-सेशब्दोमगधदेशप्रसिद्धो निपार्तोऽथशब्दार्थे, अथशब्दश्चप्रक्रियाद्यर्थाभिधायी, उक्तंच-“अथ प्रक्रियाप्रस्नान्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्येष्वि"ति, इह तूपन्यासे, किंशब्दः परप्रश्ने, स चाभिधेययथावत्स्वरूपानिरज्ञाते नपुंसकलिङ्गतया निर्दिश्यते। तथाचोक्तम्-"अव्यक्तेगुणसन्दोहे नपुंसकलिङ्गप्रयुज्यते" ततःपुनरथपिक्षया यथाभिधेयमभिसंबध्यते इति, अथ 'किं तज्जीवाजीवाभिगमं' इति, अथवा प्राकृतशैल्या 'अभिधेयवल्लिङ्गवचनानि भवन्ती'तिन्यायाकिं तदिति-कोऽसावित्यस्मिन्नर्थेद्रष्टव्यं, ततोऽयमर्थ-कोऽसौ जीवाजीवाभिगमः? इति, एवंसामान्येन केनचिप्रश्नेकृते सतिभगवान्गुरुशिष्यवचनानुरोधेनादराधानार्थं किञ्चित्प्रत्युच्चार्याह-- ___ 'जीवाजीवाभिगमः' अनन्तरोदितशब्दार्थ 'द्विविधः' द्विप्रकारः प्रज्ञप्तस्तीर्थकरगणधरैः, अनेनचागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाह-नसर्वमेवसूत्रंगणधरप्रश्नतीर्थकरनिर्वचनरूपं किन्तु किञ्चिदन्यथापि, केवलं सूत्रंबाहुल्येन गणधरैर्दब्धं स्तोकं शेषैः, यत् उक्तम्-“अत्यं भासइ अरिहा" इत्यादि, 'तद्यथेति वक्ष्यमाणभेदकथनोपन्यासार्थः । स जीवाजीवाभिगमो यथा द्विविधो भवतितथोपन्यस्यत इति भावः, जीवाभिगमश्चाजीवाभिगमश्च, चशब्दौ वस्तुतत्वमङ्गीकृत्य द्वयोरपि तुल्यकक्षतोद्भावनार्थो, आह-जीवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy