________________
प्रतिपत्तिः-, मङ्गलं,चोपदर्शितम्, अघुनाऽनुयोगःप्रारभ्यते, अथानुयोगइतिकः शब्दार्थ?, उच्यते, सूत्रपाठानन्तरमनु-पश्चात्सूत्रस्यार्थेन सहयोगो-घठनाऽनुयोगः,सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, यद्वाऽनुकूलः-अविरोधी सूत्रस्यार्थेन सह योगोऽनुयोगः, तत्रेदमादिसूत्रम्
(प्रथमा प्रतिपत्तिः -"द्विविधा") मू. (१) ऐनमः ।।इह खलु जिनमयंजिणाणुमयंजिणाणुलोमंजिनप्पणीतं जिनपरूवियं जिनक्खायं जिणाणुचिन्नंजिनपन्नतंजिनदेसियंजिनपसत्यं अणुब्बीइएतंसदहमाणातंपत्तियमाणा तंरोएमाणा थेरा भगवंतो जीवाजीवाभिगमनाममज्झयणं पन्नवइंसु
वृ. 'इह' अस्मिन्प्रवचने खलुशब्दोऽवधारणे इहैव प्रवचने नशेषेषुवाक्यादिप्रवचनेषु, अथवा 'इहे ति मनुष्यलोके, खलुशब्दो वाक्यालङ्कारे, 'जिनमत'मिति रागादिशत्रून् जयति स्म (इति) जिनः, सच यद्यपिछद्मस्थवीतरागोऽपि भवति तथाऽपितस्यतीर्थप्रवर्तकत्वायोगादुत्पन्नकेवलज्ञानस्तीर्थकृदभिगृहयते, सोऽपिचवर्द्धमानस्वामी, तस्य वर्तमानतीर्थाधिपतित्वात्, तस्य जिनस्य-वर्द्धमानस्वामिनो मतम्-अर्थतस्तेनैव प्रणीतत्वादाचारादि दृष्टिवादपर्यन्तं द्वादशाङ्गं गणिपिटकं, कथम्भूतं वर्द्धमानस्वामिजिनमतमित्याह
____ जिनानुमतं' जिनानाम्-अतीतानागतवर्तमानानामृषभपद्मनाभसीमन्धरस्वामिप्रभृतीनामनुमतम् आनुकूल्येनसंमतं वस्तुतत्त्वमपवर्गमार्गचप्रतिमनागपिविसंवादाभावादिति जिनानुमतम्, एतेन सर्वेषामपि तीर्थकृतां परस्परमविसंवादिवचनता प्रवेदित, पुनः कथम्भूतमित्याह-जिनानुलोम' जिनानाम्-अवध्यादिजिनानामनुलोमम्-अनुकूलमनुगुणमिति भावः, एतद्वशादवध्यादिजिनत्वप्राप्तेः, तथाहि यथोक्तमिदं जिनमतमासेवमानाः साधवोऽवधिमनःपर्यायकेवललाभमासादयन्त्येवेति, तथा जिनप्रणीतं जिनेन-भगवता वर्द्धमानस्वामिनाप्रणीतं समस्तार्थसङ्ग्रहात्मकमातृकापदत्रयप्रणयनाजिनप्रणीतं ।
भगवान् हि वर्द्धमानस्वामी केवलज्ञानावाप्तावादी बीजबुद्धित्वादिपरमगुणकलितान् गौतमादीन् गणधारिणः प्रत्येतनमातृकापदत्रयमुक्तवान् “उप्पन्ने इ वा विगमे इवा धुवेइवा" इति, एतच्च पदत्रयमुपजीव्य गौतमादयो द्वादशाङ्गं विरचितवन्तस्ततो भवत्येतज्जिनमतंजिनप्रणीतमिति, एतेनागमस्य सूत्रतः पौरुषेयत्वमावेदितं, पुरुषव्यापारमन्तरेण वचनानामसंभवात्, न खलु पुरुषव्यापारमन्तरेण नभसि ध्वनन्तः शब्दा उपलभ्यन्त इति, तेन यदवादि परैः॥१॥ 'वचनाजिनसंबुद्धिस्तन्नरर्थक्यमन्यथा।
अपौरुषेयमेवेदं, धर्माधर्मनिबन्धनम् ॥' इति । तदपास्तमवसेयमिति, तत्र मा भूत्कस्याप्येवमाशङ्का-यथेदमविज्ञातार्थमेव तत्वतः साक्षात्सर्वज्ञादपि श्रवणे सर्वज्ञविवक्षायां अत्यक्षत्वेनग्हणाभावेविवक्षितशब्दार्थपरिज्ञानायोगात् केवलं म्लेच्छस्येवाऽऽर्योक्तानुभाषणमात्रमिदमिति, तथा चोक्तमपरैः॥१॥ “आर्याभिप्रायमज्ञात्वा, म्लेच्छवागयोगतुल्यता।
सर्वज्ञादपि हि श्रोतुस्तदन्यस्यार्थदर्शने ॥" । ततआह-'जिनप्ररूपितं' जिनेन-भगवतावर्द्धमानस्वामिनायथा श्रोतृणामधिगमोभवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org