SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ मूलं- ३ ७५ वृ. 'पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणि मुयंता' पिण्डिमनिहारिमां - पुद्गलसमूहरूपां दूरदेशगामिनीं च सुगन्धिंच- सद्गन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तांच, महता मोचनप्रकारेण विभकतिव्यत्ययान्महतीं वा गन्ध एव ध्राणिहेतुत्वात्तृप्तिकारित्वाद्गन्धधाणिस्तां मुञ्चन्त इति वृक्षविशेषणम् । एवमितोऽन्यान्यपि 'नानाविहगुच्छगुम्ममंडवकघरकसुहसेउकेउबहुला' नानाविधा गुच्छाः गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, तथा शुभाः सेतवो-मार्गा आलवालपाल्यो वा केतवो - ध्वजा बहुला - बहवो येषां ते तथा, ततः कर्मधारयः । 'अनेगरहजाणजुग्गसिवियपविमोयणा' अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा । 'सुरम्मा पासाइया दरिसणिज्जा अभिरुवा पडिरूव' त्ति एतान्येव वृक्षविशेषणानि वनखण्डविशेषणतया वाचनान्तरेऽधीतानि । मू. (४) तस्स णं वनसंडस्स बहुमज्झदेसभाए एत्थ णं महं एक्के असोगवरपायवे पन्नत्ते, कुसविकुसविसुद्धरुक्खमूले मूलमंते कंदमंते जाव पविमोयणे सुरम्मे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे वृ. ‘तस्स णं वनसंडस्से' त्यादौ अशोकपादपवर्णके क्वचिदिदमधिकमधीयते - 'दूरोवगयकंदमुलवट्टलट्ठसंठियसिलिट्टघणमसिणणिद्धसुजायनिरुवहउव्विद्धपवरखंधी' दूरोपगतानि - अत्यर्थं भूम्यामवगाढानि कन्दमूलानि - प्रतीतानि यस्य स तथा, वृत्तो- वर्तुलो, लष्टो मनोज्ञः, संस्थितो- विशिष्टसंस्थानः, श्लिष्टः- सङ्गतो, घनो - निबिडो, मसृणः - अपरुषः, स्निग्धः-अरूक्षः, सुजातः-सुजन्मा, निरुपहतो - विकारविरहित, उव्विद्धः अत्यर्थमुच्चः, प्रवरःप्रधानः, स्कन्धः - स्थुडं यस्य स तथा इन्प्रत्ययश्च समासान्तः । 7 'अनेगनरपवरभुयागेज्झो' अनेकनराणां प्रवरभुजैः - प्रलम्बबाहुभिर्वामाभिरित्यर्थः, अग्राह्यः - अनाश्लोष्यो यः स तथा, 'कुसुमभरसमोनमंतपत्तलविसालसालो' कुसुमभरेण समवनमन्त्यः पत्रलाः–पत्रवत्यः विशालाः शाला यस्य स तथा । 'महुकरिभमरगण-गुमगुमाइयनिलिंतउडितसस्सिरीए' मधुकरीभ्रमरगणेन-लोकरूढिगम्येन, 'गुमगुमाइन्त' त्ति कृतगुमगुमेतिशब्देन, नीलीयमानेन - निविशमानेन, उड्डियमानेन च - उत्पतता सश्रीकः - सशोभो यः स तथा । ‘नानासउणगणमिहुणसमुहुरकण्णसुहपलत्तसद्दमुहरे' नानाविधानां शकुनिगणानां यानि मिथुनानि तेषां सुमधुरः कर्ण सुखश्च यः प्रलप्तशब्दस्तेन मधुर इव मधुरो - मनोज्ञो यः स तथा । अथाधिकृतवाचना-'कुसविकुसविसुद्धरुक्खमूले' कुशा-दर्भा विकुशा- वल्व (ल) जादयस्तैर्विशुद्धं - विरहितं वृक्षानुरूपं वृक्षविस्तरप्रमाणमित्यर्थो मूलं - समीपं यस्य स तथा । 'मूलमंते' इत्यादिविशेषणानि पूर्वद्वाच्यानि यावत् पडिरूवे । मू. (४-वर्तते) से णं असोगवरपायवे अन्नेहिं बहुहिं तिलएहिं लउएहिं छत्तोवेहिं सिरीसेहिं सत्तवन्नेहिं दहिवन्नेहिं लोद्धेहिं धवेहिं चंदणेहिं अज्जुणेहिं जीवेहिं कुडहिं सव्वेहिं फणसेहिं दाडिमेहिं सालेहिं तालेहिं तमालेहिं पियएहिं पियंगूहिं पुरोवगेहिं रायरुक्खेहिं नंदिरुक्खेहिं सव्वओ समंता संपरिखित्ते ते णं तिलया लवइया जाव नंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003312
Book TitleAgam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_vipakshrut, agam_aupapatik, & agam_rajprashniya
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy