________________
७२
औपपातिकउपाङ्गसूत्रम्-२ विस्तीर्णवृत्तो वर्तुलः ‘वग्धारिओ तिप्लम्बमानः माल्यदामकलापः-पुष्पमालासमूहोयत्रतत्तथेति 'पञ्चवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिए' पञ्चवरेणेन सरसेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्चलक्षणेनोपचारेण पूजया कलितं यत्तत्तथा ।
'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघन्तगन्धुलुयाभिरामे कालागुरुप्रभृतीनांधूपानां योमघमघायमानो गन्धः उद्धृत-उद्भूतस्तेनाभिरामंयत्तत्तथा, तत्र ‘कुंदुरुक्क तिचीडा तुरुक्क'ति चसिल्हकं । 'सुगन्धवरगंधगंधिए' सुगन्धा येवरगन्धाः-प्रवरवासास्तेषां गन्धो यत्रास्ति तत्तथा गन्धवट्टिभूए' सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पमित्यर्थः । 'नडनट्टे'त्यादि पूर्ववन्नवरमिह भुयगा-भुजङ्गा भोगिनइत्यर्थः, भोजका वा-तदर्चकाः 'मागधा' भट्टाइति । 'बहुजणजाणवयस्स विस्सुयकित्तिए' बहोर्जनस्य-पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिकंप्रतीतख्यातिकं । 'बहुजणस्स आहुस्सत्तिआहोतुः-दातुः, क्वचिदिदंन श्यते, 'आहुणिज्जेत्ति आहवनीयं-सम्प्रदानभूतं । ‘पाहुणिज्जे त्ति प्रकर्षण आहवनीयं ।
_ 'अच्चणिज्जे' चन्दनगन्धादिभि। 'वन्दणिज्जे' स्तुतिभि । 'नमंसणिज्जे' प्रणामतः। पूयणिज्जे' पुष्पैः। 'सक्करणिज्जे वस्त्रैः। 'सम्माणणिज्जे' बहुमानविषयतया । 'कल्लाणं मङ्गलं देवयं चेइयं विनएणंपज्जुवासणिज्जे' कल्याणमित्यादिबुद्धया विनयेन पर्युपासनीयं, तत्र कल्याणम्' अर्थहेतुः 'मङ्गलम्' अनर्थप्रतिहतिहेतुः 'दैवतं' देवः 'चैत्यम्' इष्टदेवताप्रतिमा 'दिव्वे' दिव्यं प्रधानं । 'सच्चे' सत्यं सत्यादेशत्वात् । 'सच्चोवाए' सत्यावपातं । 'सत्यसेवं सेवायाः सफलीकरणात्।
___ 'सन्निहियपाडिहेरे' विहितदेवताप्रातिहार्यं । 'जागसहस्सभागपडिच्छए' यागाःपूजाविशेषाः ब्राह्मणप्रसिद्धाः तत्सहस्राणां भागम्-अंशं प्रतीच्छति आभाव्यत्वात् यत्तत्तथा, वाचनानन्तरे ‘यागभागदायसहस्सपडिच्छए' यागाः-पुजाविशेषाः भागा-विंशतिभागादयो दायाः-सामान्यदानान्येषां सहस्राणि प्रतीपच्छति यत्तत्तथा । 'बहुजणो' इत्यादि सुगम, नवरं 'पुन्नभद्दचेइयं २' इति अत्र द्विवचनं भक्तिसम्भ्रमविवक्षयेति ।
मू. (३) से णं पुन्नभद्दे चेइए एक्केणं महया वनसंडेणं सव्वओ समंता संपरिक्खित्ते, सेणं वनसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासे तिव्वे तिव्वोभासे । किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए निद्धे निद्धच्छाए तिव्वे तिव्वच्छाए घणकडिअकडिच्छाए रम्मे महामेहणिकुरंबभूए।
वृ. 'सव्वओ समन्ता' इति सर्वतः-सदिक्षुसमन्तात्-विदिक्षु । किण्हे'त्ति कालवर्ण। 'किण्होभासे'त्ति कृष्मावभासः कृष्णप्रभः, कृष्ण एवावभासत इति कृष्णावभासः । एवं नीले नीलोभासे' प्रदेशान्तरे, ‘हरिए हरिओभासे' प्रदेशान्तरे एव, तत्र नीलो-मयूरगलवत्, हरितस्तु शुकपुच्छवत्, हरितालाभ इति वृद्धाः । 'सीए'त्ति शीतः स्पर्शापेक्षया, बल्याद्याक्रन्तत्वात् इति वृद्धाः । निद्धे'त्ति स्निग्धो न तु रूक्षः। 'तिव्वे'त्ति तीव्रो वर्णादिगुणप्रकर्षवान् । ___"किण्हे किण्हच्छाए'त्ति, इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमितिनपुनरुक्तता, तथाहि-कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः । 'घणकडियकडिच्छाए'त्ति अन्योऽन्यं शाखानुप्रवेशाद् बहलनिरन्तरच्छाय इत्यर्थ । 'महामेहणिकुरंबभूए'त्ति महामेघवृन्दकल्पः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org